पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 323, कुल 1267 में से
संदर्भ में पढ़ें२७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आ त्मेति परमात्मार्थश्च परामर्शः ॥ २० ॥ ( २५ ) सू— ॐ ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ ॐ ॥ २१ ॥ परं ब्रह्मेति भिन्ने पदे इत्यपि केचित् । अस्मिन् पक्षे उक्तभाष्यविरो धः । किं च ' यं परंज्योतिराख्यं भगवन्तम् ' इति यच्छब्दव्याख्या नपरटीकाविरोधः । ' परंज्योतिः परमात्मानम् ' इति विष्णुत्तत्वनि र्णयटीकाविरोधश्च । श्रुतावुपसम्पद्येत्यस्यार्थः प्राप्येति । सौत्रान्य पदं पूर्वपक्ष्यभिमतजीवप्रतियोगितया व्याख्याति-परमात्मेति । पर मात्मैवार्थोऽभिधेयो यस्य स तथोक्तः । ' परामर्शः ' एतच्छब्दः । यद्वा— परमात्मन एवात्मत्वविधानमर्थः प्रयोजनं यस्य स तथो क्तः । तथात्वे ' परामर्शः ' एतच्छब्देन परिग्रहणमित्यर्थः । सूत्रभा ष्ययोश्चशब्दस्तु न केवलं जीवपक्षेऽपहतपाप्मत्वासम्भवाख्यबाधक सद्भावः, किन्तु परामर्शाख्यसाधकाभावश्चेति समुच्चयार्थस्तुशब्दा र्थो वा । चन्द्रिकायां तु— न केवलं परामर्शस्य ईश्वरपक्षे बाधकत्वा भावः, किन्तु जीवपक्षसाधकत्वाभावश्चेत्युक्तत्वात्परामर्शो जीवान्ये श्वरार्थ एव जीवार्थ इत्यवधारणार्थतया व्याख्यातः । अनेन— ' इतर परामर्शात् ' इतरं जीवं ' एषः ' इति परामृश्य तस्य हृत्पद्मस्थत्ववि धानात्स हृत्पद्मस्थ आत्मा जीव एव नेश्वर इति चेत्— न, कुतः ? य तः ' एषः ' इति परामर्शः ' अन्यार्थः ' जीवान्येश्वरार्थ एव, न जीवार्थः, अतः । अथवा— न केवलमसम्भवात्, किन्तु यतः परामर्शोऽन्यार्थोऽ पि । यद्वा— असम्भवान्न हृत्पद्मस्थो जीवः, किन्त्वीश्वर एव । न चैवं परामर्शायोगः । यतः ' परामर्शः ' एतच्छब्दस्तु अन्यार्थ इति त्रेधा सूत्रार्थ उक्तो भवति । ' यं प्राप्य ' यत्समीपं प्राप्येति । अनेन जीवः परंज्योतिराख्यं परमात्मानमुपसम्पद्यापरोक्षतो ज्ञात्वा अथ समीपं प्राप्याविद्याविधूननेनानन्दादिस्वेन रूपेणाभिनिष्पद्यते आविर्भूतस्व गुणो भवतीति यावत् । यं प्राप्य स्वरूपेणाभिनिष्पद्यते जीवः, स एष आत्मा य आत्मेति प्रागुक्तः परमात्मेति होवाच ब्रह्मादीन् प्रति र मेति सिद्धान्ते श्रुत्यर्थः ॥ ( २६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य श्रुत्युदाहरणेनाक्षेपां शं तावद्व्याचष्टे— अल्पेति ॥ ' दहरः ' इति प्रतीकग्रहणेन ' दहरोऽ स्मिन्नन्तर आकाशस्तस्मिन्यदन्तः ' इति वाक्यं गृह्यते । अल्पपदं