भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 328, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 328

[ अधि - ६. सू - २२. ] दीपिका सहितम्. २८१ भासा सर्वमिदं विभाति' (कठ. ५-१५.) इति वच नाच्च परमात्मैव अनिर्देश्यसुखरूपः । किन्त्वनिर्देश्यं सुखमित्यत्र समीपोक्तज्ञानिसुखपरित्यागे हेतुरुच्यते इ त्यत्र ज्ञापकम्, टीकाऽपि तदनुसारिणीत्याहुः । तथा चायं सिद्धान्ते श्रुत्यर्थः— एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीराः ॥ (कठ. ५-१२.) ॥ इति पूर्ववाक्ये 'य एको' ज्ञानानन्दाद्यभिन्नः समाभ्यधिकशून्यो वा यः सर्वमस्य वशेऽस्तीति 'सर्ववशी' यः 'सर्वभूतान्तरात्मा' सर्वप्रा णिनामन्तर्नियामकः 'य एकं' स्वस्वरूपं बहुधा करोति नियम्यान न्यान् । 'तं' प्रकृतं 'आत्मस्थं' जीवहृदयस्थितं ये 'धीराः' ज्ञानि नः अनुपश्यन्तीति प्रकृता ये ज्ञानिनस्तेषामेव 'शाश्वतं सुखं' नित्या भिव्यक्तसौख्यं नेतरेषाम्। अनेन ब्रह्मसामर्थ्यमुक्तं भवति। एवं 'नित्यो नित्यानाम्'इति वाक्यमपि ब्रह्ममाहात्म्यपरतया व्याख्येयम् । 'तदेतत्' इत्यादिनाऽपि प्रकृतभगवत्स्वरूपमेव विशेषतः प्रतिपाद्यते इति। मन्य न्ते इत्यस्योत्तरत्रान्वयः । तथा च 'यतो वाचो निवर्तन्ते' ( तै.२-४- १.) 'एषोऽस्य परम आनन्दः' ( बृ. ६ - ३ - ३२.) इत्यादौ प्रसिद्धं अनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामिति मन्यन्ते इत्यानुकूल्ये न गृह्णन्ति। ज्ञानार्थं तद्वा-तज्ज्ञानं वा प्रार्थयन्ते। 'किमु भाति न भाति वा' इति तस्य दुर्ज्ञेयत्वं च वदन्ति ज्ञानिनः। तत् ब्रह्मणो रूपं स्वरू पभूतं सुखमेतदेकं रूपं बहुधा यः करोतीतिप्रकृतेश्वररूपाभिन्नमिति मन्यन्ते ज्ञानिन इति। एतच्छब्दस्येश्वरपरत्वेऽपि रूपशब्दसामाना धिकरण्यात् नपुंसकलिङ्गोपपत्तिः । तदुक्तं न्यायविवरणे—' यद्ब्रह्मा निर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इति' । का ठकभाष्ये तु—' तद्गुह्यं ब्रह्म सनातनम्' इत्युपक्रान्तं 'रूपं रूपं प्रतिरूपो बभूव' (कठ. ५-९.) इति जीवस्य प्रतिबिम्बभूतं रूपशब्देन प्रकृतमेतत् 'एकं रूपम्' इत्यत्र प्रकृतं च भगवद्रूपं 'अनि र्देश्यं' इत्थमिति साकल्येन निर्वक्तुमशक्यं परमं सुखमिति मन्यन्ते ज्ञानिन इति सुखरूपत्वविधिपरतया व्याख्यातम् । भाष्येऽप्यनिर्देश्य सुखरूप इत्येतावन्मात्रग्रहणेन श्रुतौ सुखरूपत्वं विधेयमिति सूचित ३६