पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 330, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - २३. ] दीपिकासहितम्. २८३ (५) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ २३ ॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (गी. १५-१२.) इति । पि गृह्यते । नारायणेति । नारायणाधीनभासेत्यर्थः । हिशब्दो यत इत्य र्थे, प्रसिद्धौ च । 'सर्वे' सूर्यादितेजः 'भाति' प्रकाशते । यद्वा—' नारा यणभासा ' नारायणीयभासा 'सर्वे' जगत् 'भाति' प्रकाश्यत इत्य र्थः । ' इति ज्ञायते ' इति शेषः । श्रुतौ ' रश्मीन् ' इत्यनेन सूर्यादितेज सां नारायणाधीनप्रकाशकर्तृत्वस्य, 'तेजः' इत्यनेन सर्वस्य जगतो नारायणीयप्रकाशप्रकाश्यत्वस्य चोक्तत्वादिति भावः । ' अहम्' इति श्रुतिस्त्वन्तर्नये व्याख्याता । अनेन—तदुक्तमित्यतः सूत्रे तदित्यनुव र्तते । तस्येत्यावर्तते विपरिणम्यते च । असम्भवादिति चानुवर्तते । तथा च— तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयाम् ॥ ( कठ. ५ - १४. ) ॥ इत्यानुकूल्येन गृह्यमाणं तदेतच्छब्दपरामृश्यं सुखं अनिर्देश्यं सुखं त स्तु विष्णुरूपमेव, न समीपोक्तज्ञानिसुखम् । कुतः ? ' तस्य ' सूर्यादि तेजसः ' तस्य ' आनुकूल्येन गृह्यमाणस्य सुखस्य तस्मिन् ' तमेव भान्तम् ' इति ' अनुकृतेः ' अनुभानश्रवणात्तस्यैतदधीनप्रकाशक र्तृत्वश्रवणादस्यान्तेजोनियन्तृत्वश्रवणादिति यावत् । तथा तस्य सर्वस्य जगतस्तस्य तत्प्रकाशप्रकाश्यत्वस्य 'तस्य भासा' ( कठ. ५-१५.) इति श्रुतावुक्तत्वात्तस्य सर्वजगत्प्रकाशकत्वोक्तिरिति याव त् । तस्य च लिङ्गद्वयस्य ' अहं तत्तेजः ' ( चतुर्वेदशिखा. ) इत्या दिश्रुत्या स्मृत्या च तस्मिन्विष्णावेव निश्चयेनोपपत्तेर्ज्ञानिसुखे च ' अ सम्भवात् ' अनुपपत्तेः । तथा तस्मिन्नुपसंहारे तस्यानुकूल्येन गृह्य माणस्य 'न तत्र सूर्यो भाति' इति वाक्ये तस्य सूर्याद्यप्रकाश्यत्वस्य चोक्तेश्चेति सूत्रार्थ उक्तो भवति ॥ (५) यदेतल्लिङ्गद्वयस्य विष्णुनिष्ठत्वं 'अहम्' इति श्रुत्योपपा दितम् । तत्स्मृत्याऽप्युपपादयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—अ पीति ॥ इति स्मर्यत इत्यन्वयः । ' यत् ' आदित्यादिषु स्थितं तेजस्त त् ' मामकं ' मदधीनं मदीयं च, मत्तेज एवादित्यादिषु प्रेरकत्वेना