पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 337, कुल 1267 में से
संदर्भ में पढ़ें२९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( ५ ) तच्च लिङ्गं विष्णोरेव । तस्यैव प्राणत्वोक्तेः ‘तद्वै त्वं प्राणो अभवः’ इति ॥ २४ ॥ ‘आगमनिर्णयः’ आगमार्थस्य विप्रतिपन्नस्यैतैः निर्णयो भवतीत्यर्थः ॥ ( ५ ) नन्वस्तु श्रुतेः स्वभावतः प्राबल्यम् । तथापि बाहुल्येन पूर्व- पक्ष्युक्तलिङ्गानामपि प्राबल्यात्साम्येनानिर्णय एवेत्यत आह—तच्चेति॥ चस्त्वर्थः । लिङ्गमिति समुदायैकवचनम् । तथा च ‘तत्’ पूर्ववाद्युक्तं लिङ्गजातं तु विष्णोरेव युक्तम्, न वायोरित्यर्थः । तथा च बाहुल्येऽपि लिङ्गानां सावकाशत्वात्तेभ्यः श्रुतेरेकस्या अपि निरवकाशायाः प्राब- ल्यान्निर्णय इति भावः। ननु न लिङ्गं विष्णौ सावकाशं, पूर्वपक्ष्यु- दाहृतसमाख्यारूपश्रुत्यन्तरेण तस्य प्राणनिष्ठतयैवोक्तत्वादित्यत आह—तस्यैवेति । ‘तद्वै त्वम्’ इति श्रुतौ ‘तस्य’ विष्णोः प्राण- त्वस्य प्राणशब्दवाच्यत्वस्योक्तेरुक्तत्वादित्यर्थः । एवं ‘अत एव’ इत्य- त्राध्यात्मिकाशेषशब्दस्य समन्वयं ब्रुवता तथा—‘शास्त्रदृष्ट्या’ इ- त्यत्रान्तर्यामिपरत्वं ब्रुवता सूत्रकारेणेतरव्यावृत्त्या तस्यैव प्राणत्वोक्तेः साधितत्वादित्यपि व्याख्येयमेतत् । तथा च श्रुत्यन्तरे प्राणनिष्ठतया लिङ्गस्योक्तावपि न तद्विरोधः । तस्य प्राणस्य विष्णुत्वाभ्युपगमादि- ति भावः । ननु तथापि ‘कुविदङ्ग’ इति ऋचि वायुनिष्ठतया लिङ्गो- क्तेस्तद्विरोध इत्यस्यापीदमेवोत्तरम् । अस्मिन् पक्षे प्राणत्वमिति वा- युत्वमुपलक्ष्यते । तथा चान्तर्नये आधिदैविकाशेषशब्दसमन्वयं ब्रुव- ता सूत्रकारेण ‘तस्यैव’ विष्णोरेव ‘प्राणत्वोक्तेः’ वायुशब्दवाच्यत्व- रूपवायुत्वस्योक्तत्वादित्यर्थः । तथा च न तद्विरोधोपीति भावः । न च सिद्धान्तेऽपि स्थानापेक्षया प्रबलात्प्रकरणात् ‘एवमेवैषः’ इतिश्रु- त्यन्तरगतप्राणशब्दस्य, तथा ‘योऽयं मध्यमः’ (बृ. ३-५-२१०) इत्यत्र- त्यस्य, तथा ‘कुविदङ्ग’ इति मन्त्रस्थवायुशब्दस्य मुख्यवायुपरत्वं, तत्रोक्तलिङ्गानामपि तत्परत्वमुपेत्य तेषां श्रुत्या बाधस्योक्तत्वात् कथं श्रुत्यन्तरस्थप्राणवायुशब्दयोः विष्णुपरत्वाङ्गीकारेण समाधानम् । अ- त एव चन्द्रिकायाम्—मध्यशब्दोऽपि ‘ऊर्ध्वं प्राणम्’ (कठ. ५- ३.) इति प्राणस्य स्थानान्तरनिर्देशात्त्यागेन मध्यमस्थानस्थ- ब्रह्मपरः, न तु श्रुत्यन्तरे मध्यमशब्दोक्तप्राणपर इत्युक्तम् । अतः ‘एवमेवैषः’ ( प्रश्न. ३-४.) इति वाक्यं स्थानात्प्रकरणस्य प्रा- बल्ये उदाहृतमिति वाच्यम् । उक्तरीत्या मुख्यतः श्रुत्यन्तरगतप्रा-