पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 338, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २५. ] दीपिकासहितम्. २९१ ( ६ ) सू- ॐ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ ॐ ॥ २५ ॥ णशब्दादेर्ब्रह्मपरत्वेन लिङ्गानां तत्तदन्तर्यामिनिष्ठत्वेऽपि समाकर्षन्याये नान्यपरत्वस्याप्यङ्गीकारात् । श्रुत्यन्तरोक्तलिङ्गानामन्यनिष्ठत्वेऽपि वा ऽनुपपत्तिः । न चैवं काठकोक्तलिङ्गानामप्यन्यनिष्ठत्वापत्त्या अन्ये- षामीशानत्वाद्यापत्तिः । निरवकाशश्रुत्या काठकोक्तलिङ्गानां विष्णु- निष्ठातन्निर्णयोपपत्तेः । ननु तथापि कथमीशानो विष्णुर्भवेच्छ्रुतौ शानस्याङ्गुष्ठपरिमितत्वोक्तेः । सर्वगते च हरौ तदयोगात् । न च व्यो- मवत्सर्वगतस्याप्यङ्गुष्ठं युज्यत इति प्रतिपादितमिति वाच्यम् । तथा ऽपि 'अङ्गुष्ठमात्रः' इति तन्मात्रपरिमाणत्वोक्तेरयोगात् । न च