पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 344, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ८. सू - २६.] दीपिका सहितम्. २९७ ष्टबुद्ध्यादिभावस्तत्राविरोधः । (५) निषेधाभावात् । दृश्यन्ते हि जरितार्यादयः ॥ २६ ॥ लपरं सत् विशिष्टबुद्ध्यादिरहितमेव चेतनं व्यावर्तयति, न तु मर्त्य- भिन्नमात्रमिति न तद्विरोध इति भावः । ननु न विशिष्टबुद्ध्यादिराहि- त्यमुपाधिः । तिर्यक्षु अधिकाराभावरूपसाध्याव्यापकत्वात् । अत ए- व न तद्भावोऽपि साध्यव्यतिरेकहेतुरित्यत आह-तेषामपीति । अपि- रुभयत्रान्वेति । तत्राद्यस्समुच्चये । अधिकार इति शेषः । तथा च न केवलं देवानां, किन्तु 'तेषां' तिरश्चामप्यधिकारेऽपि न विरोधः । न नु कथमविरोधस्तिर्यक्षु सर्वत्र वेदाधिकारे मानविरोधापातादित्यत आह—तेषामपीति । 'तिरश्चां मध्येऽपीत्यर्थः । 'यत्र' येषु विशिष्टबु- द्ध्यर्थित्वाख्यरागादि