भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 345, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 345

२९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] (६) सू-ॐ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्श- नात् ॥ ॐ ॥ २७ ॥ मनुष्या एव देवादयो भवन्तीति तदुपरीत्युक्तम् । त त्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देव ताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेत्— तार्यादय इत्येव पाठो युक्तः, न तु जरितार्यादय इति ह्रस्वयुक्तपाठः, भा- रतविरोधात्, तत्त्वप्रदीपविरोधाच्चेति ध्येयम् । दृश्यन्ते हीत्यनेन—दे- वा वेदविद्याधिकारिणः निषेधराहित्ये सति विशिष्टबुद्ध्यादिमत्त्वात्, तादृशमर्त्यवदिति सिद्धान्त्यभिमतानुमाने मनुष्यत्वोपाधिर्निरस्तो भ- वति । जरितार्या आदिशब्दगृहीतसारङ्गकादौ च साध्याव्यापक- त्वात् ॥ (६) देवानां वेदविद्याधिकारसिद्धयर्थं तदुपरीत्यनेनोक्तं सादित्व- माक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे-विरोध इति ॥ मनुष्या एवेति । देवादिपदयोग्या जीवाः पूर्वं भूमौ किंचित्कालं मनु- ष्याः सन्त एव अथ देवादयो भवन्तीत्यर्थः । न तु मनुष्यभावं विनेत्ये- वशब्दार्थः । इत्युक्तमिति । अत्रोक्तमिति । उक्तमित्यनन्तरं तद्युक्त- मिति शेषः । कुत इत्यतस्तत्पक्षे बाधकोक्तिपरं विरोध इत्यंशं सहेतु- कं व्याचष्टे—तत्र यदीति । यदीत्यारभ्य भवन्तीत्यन्तं पूर्ववाक्यार्था- नुवादस्तस्यापादकत्वप्रदर्शनार्थः । तत्रेत्यव्ययं तर्हीत्यर्थकं भवन्तीत्य- तः परं योज्यम् । यद्वा—मनुष्या एव देवादयो भवन्तीत्युक्त्या प्राप्ता- भेदशङ्कां वारयितुं मनुष्या एवेत्यादिस्वपदानि वर्णयति—तत्रेति । य- द्वा—तत्र देवतोद्दिष्टकर्मणीति समानाधिकरण्यम् । अत्र पक्षे यदी- ति श्रवणात्तर्हीति लभ्यते । भवन्तीत्यनन्तरमित्युक्तमित्यस्ति । उभय- त्रादिपदेनोपदेवादयो गृह्यन्ते । कर्मपदं शब्दस्याप्युपलक्षकम् । तथा च यदि पूर्वं मनुष्याः सन्तोऽप्यथ देवादयो भवन्तीत्युक्तमित्युच्यते, तर्हि 'तत्पूर्वं' तेभ्यः पूर्वं तेषां देवादिपदप्राप्तेः पूर्वं साधकत्वावस्था- यां 'देवताभावात्' देवताया असत्त्वात् येन कर्मणा देवादित्वं सा- ध्यमित्युक्तम्, 'तत्र' तस्मिन्नेव 'देवतोद्दिष्टकर्मणि' पूर्वकल्पे देवतो- द्देशेन प्रवृत्तकर्मणि देवतावाचकशब्दे च 'विरोधः' तयोर्वैयर्थ्यमिति योजना । उद्देश्याभावाद्वाच्याभावाच्चेति भावः ॥