भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 349, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 349

३०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ति वैषम्यमिति भावः । अनेनोत्तरकाले देवताभावविरोधः कर्मण्यपि समान इति सौत्रशब्देन कर्माप्युपलक्षणीयमित्युक्तं भवति । न चैव मत्रापि विरोधपदाकर्षणमिति टीकाविरोधः । ‘तदुपरि’ इतिसूत्रा दपेरनुकर्षोक्तेः तस्य च न केवलं शब्दे उत्तरकाले देवताभावविरोधः, कर्मण्यपीत्येतदर्थकत्वादिति वाच्यम् । आकर्षणशब्दस्यान्वयार्थत्व माश्रित्य न केवलं पूर्वसूत्रे विरोधपदान्वयः, किन्त्वेतत्सूत्रेऽपीति टी कार्थाङ्गीकारेणापि विरोधपदयोराकर्षणमित्यर्थानभ्युपगमात् । अस्तु वा द्वन्द्वः, तथापि नानुषपत्तिः, अपेः स्वरूपनित्यत्वाभावेऽपीत्यर्थाभ्यु पगमेन कर्मसमुच्चयार्थत्वानभ्युपगमात् । अत एव टीकायां देवानां स्वरूपनित्यत्वाभावेऽपीत्युक्तिः । अत्र नित्यत्वसाधकयोः श्रुत्यनुमान योः समुच्चये एकश्चशब्दः । अनित्यत्वबाधकस्य नित्यत्वे तदभावस्य च समुच्चयेऽन्यः । अनित्यत्वान्यभावनियमाभावयोः समुच्चयेऽपर इति विवेकः । ‘तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम’ (ऋ. ८-७५-६०) इति ऋग्यजुर्मन्त्रार्थस्तु न विलक्षणत्वाधिकरणटीकायामुक्तः । तत्र य द्यपि विरूपेति स्वात्मानं प्रति सम्बोधनमित्युक्तेः विष्णुतत्त्वनिर्णयटी कायां विरूपाख्यऋषेस्सम्बोधनमित्युक्तेश्च विरोधो भाति । तथापि विरूपर्षिकर्तृकं स्वान्तर्यामिसम्बोधनमिति तदर्थाभ्युपगमान्न विरो धः । उक्तं हि तत्त्वप्रदीपे-प्रेरयेति प्रार्थनं विरूपस्य ऋषेरन्तर्यामि विषयमिति । विरूपकर्तृकं तदुद्देश्यकं संबोधनमिति पक्षेऽपि स्वात्म शब्दितस्वजीवं प्रति सम्बोधनमिति टीकार्थाभ्युपगमान्न विरोधः । अस्मिन् पक्षे तत्त्वप्रदीपोक्तं व्याख्यानान्तरं भविष्यति । न च पद्मना भतीर्थकृतविष्णुतत्त्वनिर्णयटीकायां न्यायरत्नावल्यां धर्मेण विरूपर्षि प्रत्येतदुच्यत इत्युक्तत्वात्तद्विरोध इति वाच्यम् । प्रथमं यमदृष्टस्य म न्त्रस्यानन्तरं विरूपेणापि दृष्टत्वसम्भवेन तदा स्वसम्बोधनसम्भवेना विरोधात् । तथा च हे विरूप अभितो द्यौः प्रकाशो यस्यासावभिद्युः, तस्मै ‘वृष्णे’ वर्षिणे अतिसमर्थायेति वा । तत्त्वप्रदीपरीत्या वृषा श्रेष्ठ स्तस्य चतुर्थी वृष्णे इति वा । तस्मै भगवते एनमुद्दिश्य ‘नूनं’ नि श्चितं ‘नित्यया’ अनादिनिधनया वेदलक्षणवाचा ‘सुष्टुतिं’ शोभनां स्तुतिं ‘चोदस्व’ प्रेरय कुर्वित्यर्थः ॥