पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 363, कुल 1267 में से
संदर्भ में पढ़ें३१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( २ ) अत आह— सू—ॐ ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ॐ॥३४॥ नासौ पौत्रायणश्शूद्रः, शुचाऽऽद्रवणमेव शूद्रत्वम् । त्वा तत्समीपं जगाम । अथ द्वारि शकटस्याधस्तात् स्थितं रैक्वं दृ ष्ट्वा सम्बोध्य दक्षिणां निवेद्य मह्यं विद्यां ब्रूहीत्युवाच । तदा तं पौत्रा यणं परो लोकविलक्षणो रैक्वः प्रत्याचख्यौ । किमिति ? अहहारेत्वा शूद्रेत्यादि । अत्र अहेतिसम्बोधनं, हार इत्वेति भिन्नपदत्वे विसर्गलो पे गुणे हारेत्वेति भवति । तथा च हेशूद्र हारः कण्ठमालाख्यं भूषणं इत्वा रथः । तत्त्वप्रदीपरीत्या शकटो वा । गोभिस्सह तवास्त्वित्यर्थः हारेत्वानावित्येकपदत्वपक्षे द्विवचनस्य एकवचनादेशो वा आकारो देशो वा कर्तव्यः । प्रत्येकं च अस्तु इति क्रियासम्बन्धः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ अविशेषाख्ययु क्तेः श्रवणसूत्रेनिराकरिष्यमाणत्वात्, पूर्वपक्ष्युक्तलिङ्गदर्शनस्य अन्यथोपपत्तिप्रदर्शनाय प्रवृत्तस्य तदाद्रवणादित्यस्य अन्वययोग्या र्थाकांक्षोत्थापकं सूत्रस्य फलितार्थं दर्शयति—नेति । ‘असौ’ रैक्वे ण सम्बोधितः पौत्रायणो ‘न शूद्रः’ जात्या शूद्रो न, किन्तु क्षत्रिय इ त्यर्थः । तर्हि कथमस्य शूद्रेति सम्बोधितत्वं युज्यते रूढ्यभावादित्य तो योगादेवेत्याशयेन तच्छब्दप्रवृत्तिनिमित्तप्रदर्शकं तदाद्रवणादिति सूत्रांशं सावधारणंमत्वा व्याचष्टे-शुचेति । 'शुचा' शोकेन रैक्वं क्षत्तारं वा प्रत्याशुगमनमेव 'शूद्रत्वम्' शूद्रेतिसम्बोधने निमित्तं, नतु जाति रित्यर्थः । अनेन तदा द्रवणादित्यस्य सूत्रे शूद्रत्वमित्यध्याहृतेन शूद्रेति सम्बोधितत्वरूपार्थबोधकेन पदेनान्वयः सूचितः । तथाच न सम्बोध नानुपपत्तिरिति नेदं शूद्रस्य वेदविद्याधिकारे लिङ्गमित्यतो न शूद्रस्य वेदविद्याधिकार इति नञावृत्त्या अन्वयः । एवेत्यनेन अयं शूद्रशब्दः शुचाद्रवणाच्छूद्र इति नैरुक्त एव, न तु ‘शुचेर्दश्च’इत्युणादिसूत्रेण रप्र त्यये धातोश्चदीर्घे चकारस्य दकारादेशे च निष्पन्नो रूढ इत्युक्तं भव ति । पौत्रायण इत्यनेन बुद्धिस्थपरामर्शकेदंशब्दार्थः शुचेत्यनेन प्रागुक्त वाचिसौत्रद्वितीयतच्छब्दार्थः, त्वप्रत्ययेन निमित्तार्थकपञ्चम्यर्थश्च दर्शितः । सूत्रकारस्य सदा सर्वज्ञत्वेन शुगस्येत्युक्तिः । भाष्ये ‘सः’ इ ति श्रुत्यनुसारेण असाविति परोक्षेणोक्तिश्च युक्ता ॥