पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 373, कुल 1267 में से
संदर्भ में पढ़ें३२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] 'श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जि- ह्वाच्छेदः । अर्थावधारणे हृदयविदारणम्' ( गौत- मधर्मे. १२-४..७. ) इति प्रतिषेधात् । ( १५ ) नाग्निर्न यज्ञश्शूद्रस्य तथैवाध्ययनं कुतः । केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते ॥ इति स्मृतेश्च । ( १६ ) विदुरादीनां तु उत्पन्नज्ञानत्वात्कश्चि वधारणे ।' इति श्रुत्यनुसारार्धशब्दस्तदवधारणपरः । तथा च 'श्र- वणे त्रपुजतुभ्याम्' इति श्रुतौ शूद्रस्य वेदश्रवणाध्ययनार्थावधारणा- नां प्रतिषिद्धत्वादित्यर्थः । अस्य न तद्भाव इत्यनुषक्तसाध्येनान्वयः । अध्ययननिषेधाभाव इति तदर्थः । तथाचानिषिद्धत्वे सति विशिष्टबु- द्ध्यादिमत्त्वस्यैव वेदाधिकारप्रयोजकत्वेनाङ्गीकृतत्वात् तस्य च शूद्रे अभावान्न तस्य देवप्रतिबन्द्या वेदाधिकारो वाच्य इतिभावः । शूद्रेण वे- दश्रवणे कृते सति द्रुताभ्यां त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तत्कर्णविवरपरि- पूरणं राजभटैः कार्यमिति श्रुत्यर्थः । शिष्टं सुगमः ॥ ( १५ ) श्रुतौ शूद्रेण श्रवणे कृते इत्यनुक्तेर्वर्णबाह्यविषयेयं श्रुतिः किं न स्यादित्याशङ्कानिवृत्यर्थे सूत्रेस्मृतेश्चेत्युक्तं, तां स्मृतिमुदाहरति-ने- ति ॥ यथा 'शूद्रस्य' शूद्रेण नाग्निस्सर्वथा आधातव्यः । पञ्चविधो यज्ञोऽपि नानुष्ठेयः । तथाऽध्ययनं कुतः भवेत् न कुतोऽपि । तर्हि तेना- नुष्ठेयं परलोकसाधनं किमिति पृच्छति—तु किन्विति । उत्तरमाह— केवलैवेति । भृतिरहितेत्यर्थः । त्रयश्च ते वर्णाश्च त्रिवर्णाः, तेषां ब्रह्मक्ष- त्रियवैश्यानामित्यर्थः । 'शुश्रूषा' परिचर्यैवेति सम्बन्धः । विधीयते । कार्यत्वेनेति शेषः । इति स्मृतेरित्यस्य शूद्रस्यैवाध्ययननिषेधावगमात् न तद्भाव इत्यध्याहृतेनान्वयः । तथा च स्पष्टस्मृतिबलात् श्रुतेरपि शू- द्रविषयत्वमेवेति भावः ॥ ( १६ ) ननु शूद्रस्य वेदार्थावधारणादेर्निषिद्धत्वे कथं विदुरादीनां वैदिकाऽर्थावधारणमस्ति । एवं संस्काररहितानां वेदानधिकारे कथं क्षत्रियः संस्काररहितः कर्णः निखिलाः श्रुतीरधिजगौ । न च वाच्य मसावपवादविषय इति । अविहितोपनयनत्वे सति निषिद्धाध्ययना- नां उत्तमस्त्रीतिर्यगादीनामेवापवादविषयत्वेन निषिद्धाध्ययनानां शू- द्राणां अतद्विषयत्वादित्यत आह—विदुरादीनामिति ॥ आदिपदेन ध-