पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 379, कुल 1267 में से
संदर्भ में पढ़ें३३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( २ ) अत उच्यते— सू—ॐ ॥ ज्योतिर्दर्शनात् ॥ ॐ ॥ ४० ॥ 'विष्णुरेव ज्योतिर्विष्णुरेवात्मा विष्णुरेव ब्रह्म विष्णु रेव बलं विष्णुरेव यशो विष्णुरेवानन्दः' इति दर्श नाच्चतुर्वेदशिखायाम् । ज्योतिर्विष्णुरेव । ( ३ ) 'प्राज्ञेनात्मना अन्वारूढ उत्सर्जद्याति' (बृ. ६-३-३५.) सोऽयमात्मेत्यर्थः । तस्य महिमानमाह—स इति ॥ 'सः' आत्मा पर मात्मा 'समानः' अविकारः सदैकरूपः सन् 'उभौ लोकौ' भूलोक द्युलोकौ जाग्रत्सुषुप्ती वा प्रतिजीवमादाय तमनुसञ्चरतीत्यर्थः । पूर्व पक्षी तु आत्मपदं स इति पदं च जीवपरं उभयलोकसञ्चरणमपि क र्माधीनं विवक्षितं, तच्च लिङ्गं कर्मवशात्तस्यैवेति मन्यते ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य दर्शनपदोक्तश्रुत्युदाहरणपूर्वकं व्या चष्टे—अत इति ॥ 'विष्णुरेव ज्योतिः....विष्णुरेवानन्दः' इति च तुर्वेदशिखायामिति 'दर्शनात्' विष्णुरेव मुख्यतो ज्योतिश्शब्दित इ ति उक्तत्वात् 'ज्योतिः' तच्छब्दवाच्यो विष्णुरेव, न जीव इत्यर्थः । विष्णुरेवेत्यनेन तद्वित्यनुवृत्तस्य अर्थः उक्तः । श्रुत्यर्थस्तु स्पष्टः । वि शेषस्तु—बलं बलप्रदः । 'स वै बलं बलिनां चापरेषाम्' इति च भा गवते । 'विष्णुरेव यशः' 'तस्य नाम महद्यशः' (महाना. १-१०.) इति श्रुतिरिति तत्त्वप्रदीपे अभिहितम् । ब्रह्मादिशब्दवज्ज्योतिश्शब्दोऽपि विष्ण्वेकनिष्ठ इति ज्ञापनाय समग्रवाक्योदाहरणम् । अतएव श्रुतावे वकारः ॥ ( ३ ) ज्योतिर्विष्णुश्चेत्तर्ह्युभयलोकसञ्चरण लिङ्गविरोध इति शङ्काम पि सौत्रदर्शनपदोक्तश्रुत्या परिहरति-प्राज्ञेनेति ॥ 'इति वचनात्' इति वाजसनेयश्रुतिवाक्यात् 'तस्यापि' परमात्मनोऽपि लोकसञ्चरणमस्त्ये वेत्यर्थः। न केवलं जीवस्येत्यपेरर्थः । न तदभाव इत्येवशब्दार्थः । तथा च लिङ्गं सावकाशमिति न तद्विरोध इति भावः । शारीर आत्मा जीवो मरणकाले 'प्राज्ञेन' प्रकर्षेण आसमन्तात् ज्ञेन प्रज्ञएव प्राज्ञः, तेन वा परमात्मना 'अन्वारूढः' अधिष्ठितो जीवमारुह्य गच्छति भगवानि ति बृहद्भाष्योक्तेः तद्वाहनभूतः 'उत्सर्जन्' प्राक्तनदेहमुत्सृजन् देहा न्तरं लोकान्तरं च 'याति' गच्छतीति वाजसनेयश्रुत्यर्थः । सूत्रार्थ