पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 380, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. सू - ४१. ] दीपिकासहितम्. ३३३ इति वचनात् ऽस्यापि लोकसञ्चरणमस्त्वेव ॥ ४० ॥ —:※:— १२. अधिकरणम् ॥ ( १ ) सर्वाधारत्वं विष्णोरुक्तम् । तच्च ' आकाशो वै नाम नामरूपयोर्निर्वहिता ' ( छा. ८-१४-१. ) इत्यत्राकाश स्य प्रतीयते । वैनामेति प्रसिद्धोपदेशात् । प्रसिद्धा काशश्चाङ्गीकर्तव्य इति । स्तु स्पष्टः ॥ ११ ॥ ॥ इति ज्योतिरधिकरणम् ॥ —:※:— १२. अधिकरणम् ॥ ( १ ) अत्र उभयत्रप्रसिद्धमाकाशनाम ब्रह्मणि समन्वीयते । श्रुत्या दिसङ्गतिं विषयादिकं च दर्शयति—सर्वाधारत्वमिति ॥ द्युभ्वाद्यधि करण इति शेषः । ततः किमित्यत आह—तच्चेति । चोऽवधारणे । ' इ त्यत्र ' इत्येवंरूपे छन्दोगवाक्य इत्यर्थः । अनेनात्रत्याकाशशब्दस्य वि ष्ण्वन्यत्वपरत्वोक्तिमुखेन पूर्वोक्तसर्वाधारत्वस्यापि अन्यनिष्ठत्वाक्षे पात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । छन्दोगश्रुत्युक्त आकाशा ख्यो विषयश्च सूचितः । सयुक्तिकं पूर्वपक्षं दर्शयति—वैनामेति । स इति शेषः । चोऽवधारणे । तथा च छान्दोग्यश्रुत्युक्तः आकाशः प्रसि द्धः साक्षिसिद्धः अव्याकृताकाश एवाङ्गीकार्यः । कुतः ? आकाशपदे न वैनामेति निपातद्वयद्योतितप्रसिद्धिमदर्थस्योपदेशात् उक्तत्वाद्वि त्यर्थः ॥ केचित्तु—सत्तर्कदीपावल्यां ' प्रसिद्धो भूताकाश एवाङ्गीका र्यः ' इति वचनात् अवकाशस्यापि नामरूपवत्त्वादिति चन्द्रिकाकृ दभिप्रेतं टीकापाठमाश्रित्य आकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भू ते निरवधिकमिति सुधोक्तेरत्रावकाशशब्दितं भूतमेव पूर्वपक्षविषय इत्याहुः । श्रुतौ वै नामेति निपातद्वयं प्रसिद्धौ । ' नाम ' वाचकशब्दप्रप ञ्चः रूपपदेन प्राकृतरूपान्तर्भावितार्थ प्रपञ्चमात्रमुच्यते । तथा च आकाशो ' नामरूपयोः ' शब्दार्थप्रपञ्चयोः ' निर्वहिता ' निर्वोढा आ श्रयः कर्तेत्यर्थः । ' ते ' निर्वाह्यतया प्रकृते नामरूपे ' अन्तरा ' भेदे न । यदिति नामरूपप्रपञ्चाद्भिन्नं यदस्तीति यावत् । यद्वा—तच्छब्दे न वाच्यप्रपञ्चान्तर्भूतं नीलादिरूपं वाचकं नाम च गृह्यते । तथा च