पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 383, कुल 1267 में से
संदर्भ में पढ़ें३३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( २ ) स च जीवः प्रसिद्धेरिति । ( ३ ) अतो वक्ति— सू—ॐ ॥ सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ॐ ॥ ४२ ॥ ‘ प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद ना मुक्तमित्यर्थः । ततः किमित्यत आह—तच्चेति । चोऽवधारणे । इतीति एवंरूपे वाजसनेयवाक्य इत्यर्थः । अनेन स्वप्नादि द्रष्टृत्वस्य अन्यनिष्ठ त्वाक्षेपमुखेन पूर्वोक्तासङ्गत्वस्याप्यन्यनिष्ठत्वाक्षेपात् , अक्षरनयेना स्य आक्षेपिकी सङ्गतिस्सूचिता । स्वप्नादिद्रष्टृत्वाख्यो विषयश्च सूचि तः ॥ ( २ ) ततः किमित्यतः सयुक्तिकं पूर्वपक्षयति—सचेति ॥ चोऽव धारणे । ‘ सः ’ स्वप्नादिद्रष्टा । जीव एव भवेत् । कुतः ? तद्द्रष्टृत्वस्य लोके जीव एव प्रसिद्धत्वादित्यर्थः । सिद्धान्ते श्रुतौ ‘ सः ’ इति त च्छब्देन ‘ स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रति योन्याद्रवति स्वप्नायैव ’ ( बृ. ६- ३- १५.) इति पूर्ववाक्ये प्रकृतः परमात्मा परामृश्यते । वैशब्दः प्रसिद्धौ । सम्यक्प्रसीदतिजीवोऽस्यामिति सम्प्रसादः सुप्तिः । तथा च स परमा त्मा ‘ सम्प्रसादे ’ सुप्तौ ‘रत्वा’ रमणं कृत्वा जीवगतं पुण्यं च पापं च दृष्ट्वैव न त्वनुभूय ‘ चरित्वा ’ सञ्चरित्वा ‘ प्रतिन्यायं ’ अवस्थान्तरं प्रवर्तनीयमिति न्यायमनुसृत्य यद्वा तत्तत्कर्मानुसृत्य ‘ प्रतियोनि ’ प्रति देहं सर्वदेहेषु यद्वा प्रतियोनितत्तन्मार्गमनुसृत्य ‘ पुनः ’ ‘ स्वप्नायैव ’ जीवस्य स्वप्नप्राप्तये एव ‘ आद्रवति ’ कण्ठदेशमागच्छति । ‘ सः ’ प रमात्मा ‘ तत्र ’ स्वप्नावस्थायां यात्किञ्चिदनिष्टं पश्यति ‘ तेन ’ तत्कृत पापफलेन दुःखेन ‘ अनन्वागतः ’ असंसृष्टो भवति । तत्र हेतुः— असङ्ग इति । हि यस्मादयं पुरुषः ‘ असङ्गः ’ तत्कृतपापफलसंसर्ग शू न्यः प्रमितः, तस्मादित्यर्थः । पूर्वपक्षी तु श्रौततच्छब्देन जीवं गृहीत्वा सर्वं वाक्यं जीवपरतया व्याख्याति ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ‘ वक्ति ’ स माधत्ते । स्वप्नादिद्रष्टृत्वं तस्यैवेत्यत्रापि सम्बध्यते । तेन सूत्रे उद्देश्य विधेयप्रतिपत्त्यर्थं अनुवृत्तावृत्तस्य तच्छब्दस्य विपरिणामस्सूचितः तच्छब्देन गृहीतस्यापि समन्वेतव्यलिङ्गस्य स्पष्टप्रतिपत्त्यर्थं स्वशब्देन