पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 387, कुल 1267 में से
संदर्भ में पढ़ें३४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] 'सर्वस्याधिपतिः सर्वस्येशानः..स वा एष नेति ने ति' (बृ. ६-४-२२.) इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ॥ ( ३ ) 'उतामृतत्वस्येशानः। यदन्नेनातिरोहति' (तै-आ. ३-१२.) सिद्धौ । कुत इत्यतः 'आत्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्जतेऽसितो न व्यथते न रिष्यति ............स एष आत्माऽजरोऽमरोऽमृतोऽभयः' ( बृ. ६-४-२५ ? ) इति वाक्यशेषः प्रवृत्तः। अत्रागृह्य इत्यादिरात्मन इति नेत्युक्तार्थे साकल्येन अग्राह्यत्वा दिरूपहेतुसमर्पकः । न हीत्यादिस्तु तत्र प्रमाणाभावादिति हेतुसूच कः । यद्यपि बृहद्भाष्ये 'इतिन' रमावन्न 'इतिन' ब्रह्मादिवन्न, बद्धवन्न, मुक्तवन्नेत्यन्यथा व्याख्यातम् । तथाप्यत्र 'सयोऽतोऽश्रुतः' (ऐ.आ. ३-२-४.) इति समाख्याश्रुत्यनुसारादेवं व्याख्यातमित्यदो षः । इत्यादीति । इत्यादौ श्रुताः ये सर्वाधिपत्यादिवाचकाः शब्दाः ते भ्य इत्यर्थः । आदिपदात्सर्ववशित्वादिवाचिशब्दसङ्ग्रहः । अनेन सौ त्रादिशब्दो न केवलं शाखान्तरोक्तसर्वेशानादिशब्दग्राहकः, किन्तु वा जसनेयोक्तसर्वविलक्षणत्वसर्ववशित्वादिशब्दग्राहकोऽपीति उक्तं भ वति । एवं हेतुं व्याख्याय सूत्रे समन्वयसूत्रात् तदित्यनुवर्त्य विपरि णम्यमानेन तदित्यनेनान्वययोग्यमुद्देश्यसमर्पकं नित्यमहिमेति पदं चा ध्याहृत्याहृत्य निष्कृष्टं प्रतिज्ञां दर्शयति-नित्यमहिमेति। इदं च फलक थनरूपम् । शब्देभ्य इति हेत्वन्वययोग्यं साध्यं तु ब्राह्मण इत्यध्याहृतं द्रष्टव्यम् । अनेन—अयं ब्राह्मणः तस्तु विष्णुरेव, न विरिञ्चः । कुतः? ' पत्यादिशब्देभ्यः' सर्वाधिपत्यादिवाचिसर्वाधिपत्यादिशब्देभ्योऽत्र श्रुतेभ्यः। तथा च नित्यमहिमाऽपि स एवेति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु सर्वाधिपत्यादिवाचिशब्दसद्भावेऽपि कुतो ब्राह्मणस्य वि ष्णुत्वनिश्चय इत्यप्रयोजकत्वशङ्कावारणाय तत्र सर्वाधिपतित्वस्य वि ष्ण्वेकनिष्ठत्वे तावच्छ्रुतिमाह-उतेति ॥ इदं च 'पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम्' इति पूर्ववाक्येन सह व्याख्येयम् । तत्प्रकारस्तु- ' यद्भूतं ' अतीतं ' भव्यं ' भविष्यत् वर्तमानं च तत्सर्वं 'पुरुष एव' परमपुरुषाधीनमेव । कुतः ? यतो यस्मात् न केवलममुक्तसर्वाधिपतिः पुरुषः, किन्तु 'अमृतत्वस्योत' मुक्तसमुदायस्यापि 'ईशानः' अ