भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 393, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 393

३४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( ५ ) परमात्मन एवाव्यक्तशब्दस्तत्तन्त्रत्वेन तच्छरीररूप- त्वादितरस्याप्यव्यक्तशब्दः । तावता पूर्तौ रूपपदवैयर्थ्यम् । जडाव्यक्तस्येश्वरतादात्म्यायोगेन त- स्य स्वरूपार्थत्वायोगात् । अतोऽप्युक्त एवाभिप्राय इति भावः । अने- न-रूपशब्दस्योक्तशङ्कापरिहारकत्वं उक्ताभिप्रायज्ञापकत्वं चेति प्रयो- जनद्वयमुक्तं भवति ॥ ( ५ ) एवं शरीररूपकविन्यस्तपदं व्याख्याय कथमनेनोक्तशङ्का- परिहार इत्यतः एवमेव हि शब्दानां प्रसिद्धिरपि लौकिकी । वाचकत्वं प्रधानस्य त्वितरस्य तदन्वयात् ॥ इति गारुडवचनोक्तं सौत्रापिशब्दसूचितं तदभिप्रायमाह — पर- मात्मन एवेति ॥ परमात्मन इत्यनेन स्मृतिगतप्रधानशब्दो मुख्यार्थप- रमात्मपर इत्युक्तं भवति । अव्यक्तशब्दो जीवादिशब्दोपलक्षकः । वाचक इति शेषः । इतरस्य तदन्वयादित्यनेनोक्ताभिप्रायमाह—त- त्तन्त्रत्वेनेति । परमात्माधीनत्वेन तदधीनविकृतित्वेनेति वाऽर्थः । हे- तौ तृतीया । तच्छरीररूपत्वादिति । तस्य परमात्मनः प्रसिद्धशरीर- रूपत्वेन शरीरत्वादित्यर्थः । 'इतरस्य' परमात्मान्यस्य प्रधानादेः 'अ- व्यक्तशब्दः' अव्यक्तादिशब्दः । अत्रापि पूर्ववच्छेषः । यद्वा—पूर्वे- णात्र च वाचकत्वं षष्ठ्यर्थः । तथात्वे शेषं विनैवान्वयः । न केवलं प- रमात्मनः, किन्त्वितरस्यापीत्यपेरर्थः । यद्यपि परमात्मन एव अव्य- क्तशब्दो मुख्यवाचकः । तथापि तत्तन्त्रत्वेन तच्छरीररूपत्वात्तत्सम्ब- न्धादमुख्यत इतरस्याप्यव्यक्तशब्दो वाचको भवतीत्यर्थद्वयेऽपिश- ब्दः । अनेन सौत्रापिशब्दस्यानुमानिकमप्युच्यते इति समुच्चयार्थत्वं यद्यपितथापीत्यर्थकत्वं चेत्यर्थान्तरं चोक्तं भवति । तत्तन्त्रत्वेनेत्यने- न अव्यक्तशब्द इति पुनरुक्त्या च सूत्रे शरीररूपकस्येति वाच्ये वि- न्यस्तेत्यधिकोक्तिः ब्रह्मणो न केवलं तत्र सत्त्वमात्रम्, किन्तु नियाम- कतया सत्त्वमिति दर्शयितुम् । तेन स्वातन्त्र्यनिमित्तात्तस्यैव परममु- ख्यवाच्यतेत्युक्तं भवति । तथा च इतरस्याप्यव्यक्तशब्द इति पुनर्व- चनेन परमात्मन इतरस्य न परममुख्योऽव्यक्तशब्दः, किन्तु ततः स- माकृष्य सङ्केतित एव । अतो नोभयोः साम्यं वैपरीत्यं वा शङ्क्यमिति सूचितम् । तर्ह्युभयोर्मुख्यवाच्यत्वे वाक्यभेद इति शङ्का तु शरीररू-