पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 399, कुल 1267 में से
संदर्भ में पढ़ें३५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तदधीनत्वाच्चाव्यक्तत्वादीनां तस्यैव भव्यक्तत्वं व्यक्तस्याव्यक्तत्वं महतः परत्वं चापादयतीति ' महतः परमव्य क्तम् ' इत्युच्यते । तदेव तस्याव्यक्तस्य पुरुषादवरत्वमापादयतीत्य वरशब्दार्थः । न तु स्वयमवरत्वादिति । तत्त्वप्रदीपरीत्या तेषां प्रधा नादिगतधर्माणां तदधीनत्वा दीशाधीनत्वाच्च न केवलं गुणवाचिशब्द जातमर्थवत्, किन्तु तत्प्रातिपदिकादिरूपं वा पञ्चमीविभक्त्यादिरूपं वा अवरदुःखिबद्धत्वादिवोषवाच्येऽपि तस्मिन्नीश्वरे वाच्यतया गृ हीते सत्येवार्थवदेव न निरर्थकम् । न च प्रवृत्तिनिमित्ताभावः । तद् धीनत्वात्तेषां अन्यगतावरत्वादिधर्माणाम् परमात्माधीनत्वात् । स्वामि तासम्वन्धेन तेषां तस्मिन् सत्त्वादस्यैव मुख्यनिमित्तत्वादेकेनापि श ब्दप्रवृत्तिनिमित्तेन शब्दस्यार्थ