पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 400, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - १० ] दीपिकासहितम्. ३५३ परावरत्वादिकमर्थवत् । (१३) यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते । र्तिसूक्ष्मत्वाभावेऽपि नाव्यक्तादिशब्दामुख्यार्थत्वं, अल्पपङ्कजेऽपि प द्ये पङ्कजशब्दस्यामुख्यत्वादर्शनादिति शङ्का च निरस्ता भवति । अव्य क्तादिगुणशब्दस्य परमात्मनि द्वेधाप्रवृत्तिनिमित्तप्रदर्शनेन प्रधानादी नाममुख्यतायां अन्याधीनप्रवृत्तिनिमित्तवत्त्वस्य हेतुत्वाभ्युपगमेनाल्प प्रवृत्तिनिमित्तवत्त्वमात्रस्य तत्र हेतुत्वानभ्युपगमात् । एतेन प्रवृत्ति निमित्ताधिक्यस्य मुख्यताहेतुत्वेऽतिसहनवति पुंसि सिंहशब्दस्य स हनार्थात् सिचेः सहैर्वा कनि निष्पन्नस्य मुख्यता स्यादित्येतदपि चो द्यं निरस्तम् । प्रवृत्तिनिमित्तस्य अनन्याधीनत्वस्यापि मुख्यताहेतुत्वे न तदतिशयमात्रस्य तत्र हेतुत्वात् । वस्तुतस्तु—पद्मत्वजातेः प ङ्कजशब्दनिमित्तत्वेन विवक्षितत्वात्तस्याश्चाल्पपङ्कजादधिकपङ्कजेऽ तिशयाभावात् । एवं सिंहत्वजातेः सिंहशब्दप्रवृत्तिनिमित्तभूताया अ तिशयस्य पुंस्यभावाच्च नोक्तातिप्रसङ्ग इति परिहारान्तरं चन्द्रिको क्तं द्रष्टव्यम् । ‘मथनान्मथितो जातः सहनात्सिंह उच्यते' इति बृहदैतरेयभाष्यवचनं तु अमुख्यार्थाभिधायकम् ॥ (१३) ननु भवेदेतत्प्रधानादिगतशब्दप्रवृत्तिनिमित्तप्रेरकत्वेन ईश्व रस्यावरादिशब्दवाच्यत्वम्, यद्यन्यगतशब्दप्रवृत्तिनिमित्तप्रेरकेऽसाव वरादिशब्दो वर्तेत इति सिद्ध्येत् । तदेव कुतः सिद्धमित्यतस्तत्र व्याप्ति वचनमुखेन अनुमानमाह— यदधीन इति । ‘यस्य' धर्मिणो वाचक स्य शब्दस्य प्रवृत्तिनिमित्ताख्यो ‘गुणो’ ‘यदधीनः’ पूर्ववद्विग्रहः । ‘सः तद्गुणी' तद्गुणवानित्युच्यते । तन्निमित्तकशब्देनाभिधीयते इति व्याप्तिवचनस्यार्थः । तत्र वैदिकलौकिकोभयविधं दृष्टान्तमाह— यथे ति । ‘यथा परमात्मा' विष्णुः ‘अनेन जीवेन' इत्यादौ जीवगतप्राण धारणाख्यजीवशब्दप्रवृत्तिनिमित्तस्वातन्त्र्याज्जीवशब्देनोच्यते । य था च भृत्यगतजयस्य जयशब्दप्रयोगनिमित्तस्य राजाधीनत्वाद्वाजा जयीत्युच्यते इत्यर्थः । अभिधीयत इत्यनेन अभिधाख्यमुख्यवृत्त्यैवार्थे प्रयोगः, न त्वमुख्यवृत्त्येत्युक्तं भवति । दृष्टान्तद्वयसमुच्चयेऽपिशब्दः । ‘तमेव मृत्युममृतं तात दैवतं सर्वात्मनाऽवेहि परं परायणम्' इति न्यायविवरणोदाहृतभागवतवचने ‘यथाऽमृतत्वापादकत्वाद्ब्रह्मामृतं ४५