भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 403, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 403

३५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] हतो महीयान्' ( कठ. २-२०. ) इति तस्यैव हि म हतो महत्त्वम् । सर्वस्मात्परस्य महतोऽपि परत्वं यु ज्यते ॥ ५ ॥ ( १७ ) सू—ॐ ॥ प्रकरणात् ॥ ॐ ॥ ६ ॥ 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' (क ठ. ३-९. ) इति तस्य ह्येतत्प्रकरणम् ॥ ६ ॥ ( १८ ) सू—ॐ ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ॐ ॥ ७ ॥ समस्तम् । अनादिरुत्पत्तिशून्यश्चासावनन्तो गुणदेशतोऽपरिच्छिन्न श्चेति विग्रहः । तं 'महतः परं' सर्वस्मात्स्थूलात्परम् । अत एव मह त्त्वात्तदपि परं 'ध्रुवं' नित्यं निर्विकारं वा । 'तं' अव्यक्ततत्त्वात्परत्वे न पूर्वप्रकृतं पुरुषाख्यं विष्णुं 'निचाय्य' सम्पूज्य निशाम्य वा संसा राख्यरमृत्युमुखात्प्रमुच्यतेऽधिकारीति ॥ ( १७ ) ननु विशेषतो महत्परत्वस्य प्रधानलिङ्गस्य सर्वस्थूलपरत्व रूपामुख्यार्थतां स्वीकृत्यानाद्यनन्तादिवाक्यस्य विष्णुपरत्वग्रहणे का रणाभावात्प्रधानमेवात्रोच्यते इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य नञनु वृत्त्यभिप्रायेण व्याचष्टे—प्रकरणादिति ॥ इतीत्यनन्तरं श्रुतेरिति शे षः । हिशब्दो हेतौ । एतत् 'अनाद्यनन्तम्' इत्यादिवाक्यं 'तस्य' वि ष्णोः 'प्रकरणं' प्रकरणरूपमित्यवगतमिति शेषः । तथा च नात्र वि ष्णुग्रहणे कारणाभावः । कुतः? हि यस्मात्तस्य प्रकरणमस्ति । न चै तत्प्रकरणस्य वैष्णवत्वासिद्धिः । 'हि' यस्मादेतत् 'सोऽध्वनः' इ ति कठश्रुतेस्तस्य प्रकरणमित्यवगतं तस्मादिति योजना । सूत्रयोज ना तु—अस्य प्राज्ञप्रकरणत्वात्प्रकरणात्प्राज्ञ एवात्रोच्यते, नान्यदिति। सकलमिदमहं चेशायतनमिति यो विजानाति स संसाराख्यस्य वर्त्म नो विश्रान्त्यवधिभूतं पारमाप्नोति, तत्पारं विष्णोः परमं पदं स्थानं क्षीराब्ध्यादौ मुक्तप्राप्यमिति श्रुत्यर्थः सत्तर्कदीपावल्यामुक्तः ॥ ( १८ ) हेत्वन्तरेणानाद्यनन्तादिवाक्येऽन्यस्यापि प्रतिपाद्यतां परा कुर्वत्सूत्रमुपन्यस्य व्याचष्टे—त्रयाणामेवेति ॥ त्रयाणामेवेत्यनुवादः सौत्रैवंशब्दार्थप्रकारधर्मिप्रदर्शनार्थः । त्रयाणां मध्ये प्रधानमेकमस्त्वि ति शङ्कां निरासितुं सूत्रे प्रयुक्तेन एवंशब्देन ज्ञापितं श्रुत्युक्तप्रकारत्रयं दर्शयति—पितृसौमनस्येति । पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां त्र याणामेवेत्यन्वयः, नान्यस्येत्येवशब्दार्थः । प्रश्न इति प्रथमान्तं निमित्त