पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 404, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - ७. ] दीपिकासहितम्. ३५७ त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्र श्न उपन्यासश्च । ( १९ ) 'अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते' इति घञ् सप्तम्यन्तं च । तेन प्रश्ननिमित्तकतोपन्यासश्च सिद्धयति । चः प्रश्नोक्त समुच्चये, हेतुसमुच्चये वा । अनेन सौत्रं चशब्दद्वयं तन्त्रेणानूदितं भवति । यत इति शेषः । अस्यातोऽप्यत्र प्राज्ञ एवोच्यते, नान्यदिति प्रकृतसाध्येनान्वयः । केचित्तु—सौत्राद्यचशब्दस्य यत इति हेत्वर्थ त्वं द्वितीयस्य प्रकरणरूपहेतुसमुच्चयार्थत्वमाश्रित्य यत इति शेषो न कार्य इत्याहुः । अनेन—न केवलमेतत्प्रकरणस्य वैष्णवत्वेनात्र प्रधान स्याप्रतिपाद्यता सिद्धा, किन्त्वेतत्प्रकरणघटितानेकप्रकरणात्मकस्था नरूपायामस्यामुपनिषद्यपि 'च' यतः 'एवं त्रयाणां' पितृसौमन स्यस्वर्ग्याग्निपरमात्मरूपाणां धर्मिणामेव 'उपन्यासः' प्रतिवचनम स्ति, न त्वन्यस्य । 'अतश्च' अतोऽपि । कुतः त्रयाणामेवोपन्यासः ? यतस्त्रयाणामेव प्रश्नोऽत इति सूत्रार्थ उक्तो भवति ॥ ( १९ ) नन्वेवं हि काठकोक्ता आख्यायिका—गौतमगोत्रोत्पन्नस्यौ द्दालिकेः नचिकेता नाम पुत्र आसीत् । तत्र पितरि निरर्थकगोदानपरे सति तन्निराचिकीर्षुर्नचिकेता नाम मम पिता मां द्या दत्वाप्येवंविधाः गा न प्रयच्छत्विति भावेन मां कस्मै दास्यसीति पितरमप्राक्षीत् । त च्छ्रुत्वा क्रुद्धः पिता त्वां यमाय दास्यामि त्वं यमगृहं गच्छेत्यशपत् । एवं शप्तो नचिकेताः मृतो यमप्रवासकाले यमगृहं प्राप, तत्र त्रिरात्रं तत्पत्न्या पूजित उपवासन्नेवावसत् । अथ यम आगतस्तं नमस्कृत्या तिथित्वं यस्मान्मे गृहे तिस्रो रात्रीरनश्नन्नवात्सीः । तस्मादस्य प्र तीकाराय मत्तः त्रीन् वरान् वृणीष्वेत्यब्रवीत् । एवमुक्तः ऋषिपुत्रः आह—इदानीं मम पिता मयि क्रुद्ध आस्ते, तत्सौमनस्यं सौहार्दमपे क्षितं तद्देहीति भावेन 'शान्तसंवित्सुमनाः यथा स्यात्' इति पितृ सौमनस्यं वरं प्रथमं प्रार्थयित्वा अथाहं 'स्वर्ग्यं' स्वर्गादनपेतं स्वर्ग साधनभूतं 'अग्निं' अग्निष्टोमादिकर्माङ्गभूताग्निशब्दितेष्टकचितिस्थं तत्स्थितं विष्णुं वाऽध्येमि तत्त्वं कथयेति भावेन 'स त्वमग्निं स्वर्ग्यम ध्येषि मृत्यो प्रब्रूहि' (कठ. १ - १३. ) इति स्वर्ग्याग्निविषये द्वितीयं वरमवृणोत् । तथा मोक्षसाधनज्ञानविषयीभूतमृतमुक्तजीवनियामक परमात्मस्वरूपं मया ऽवश्यं ज्ञेयं, तत्कथयेति भावेन 'येयं प्रेते विचि