भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 406, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 406

[अधि - १०. सू - ९.] दीपिकासहितम्. ३५९ (२१) सू- ॐ ॥ चमसवदविशेषात् ॥ ॐ ॥ ९ ॥ यथा चमसशब्दोऽन्यत्र प्रसिद्धोऽपि 'इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' (बृ. ४-२-३.) इ ति श्रुतेः शिरोवाचकः, एवमव्यक्तादिशब्दाः सर्वेऽ न्यत्र प्रसिद्धा अपि 'नामानि सर्वाणि यमाविश (२१) ननु भवेदियमव्यक्तादिशब्दानां परमात्मनि परममुख्यत्वचि- न्ता । यदि तेषां तत्र मुख्यत्वमेव सिद्धं भवेत् । न च तद्युक्तं, तेषाम- न्यत्रैव प्रसिद्धत्वात् । न च 'अव्यक्तमचलम्' इत्यादिश्रौतस्मार्तप्र- योगबलात्तेषां तत्र शक्त्यवगमः । वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याश- ङ्कां परिहरत्सूत्रमुपन्यस्यति—चमसवदिति ॥ अत्रापि पूर्ववच्छब्दप- रत्वं प्रथमान्तात्सप्तम्यन्ताच्च वर्ति चशब्दानुवृत्तिं तस्य पूर्ववदर्थद्वयं श्रुतेरित्यध्याहारं चाभिप्रेत्य सूत्रं व्याचष्टे—यथेति । 'अन्यत्र' चतुष्को- ण्यज्ञपात्रे पुनः 'अन्यत्र' प्रधानादौ अव्यक्तादिशब्दा इत्यनेन प्राचीनं 'इतरे' इति स्वपदं व्याख्यातम् । दृष्टान्तीभूतमहच्छब्दस्यापि सङ्ग्रहा- य सर्व इत्युक्तिः । आदिशब्देन पुरुषादिशब्दानां ग्रहणम् । 'यो देवाना- म्' इत्यादि द्वितीयादिपदार्थः । तथा च यथा चमसशब्दो यद्यपि अन्य- त्र प्रसिद्धः, तथाऽपि 'इदं तच्छिरः' इत्यनुशासनरूपश्रुतेः शिरोवाच- कोऽवगत एव । तथा सर्वेऽव्यक्तपुरुषादिशब्दा यद्यप्यन्यत्र प्रसिद्धाः, तथापि 'नामानि' इत्यादिश्रुतेः 'परमात्माभिधायकाः' वाचका एव, न लाक्षणिकाः इत्यवगम्यत इति योजना । नन्विदमित्यस्याभिधानरूपत्वे- ऽपि न 'नामानि' (भालुवेय.) इत्यस्याभिधानरूपता । वृत्त्यन्तरेणा- पि एतद्वचनसम्भवादित्याशङ्कोत्तरत्वेन प्रवृत्तमविशेषादिति सूत्रखण्डं व्याचष्टे—अविशेषादिति । श्रुतेरित्यावर्तते । तथा च 'नामानि' इति श्रुतेः 'इदम्' इति श्रुतेः सकाशाद्विशेषाभावादित्यर्थः । अतस्तद्वदस्या अप्य- नुशासनरूपत्वादनया परमात्मवाचित्वनिश्चयो भवत्येवेति भावः । बृ- हदारण्यके हि 'तदेष श्लोको भवति' इति प्रतिज्ञाय 'अर्वाग्बिलश्चम- स ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्' इति मन्त्रमुदाहृत्य 'अ- र्वाग्बिलश्चमस ऊर्ध्वबुध्न इति' इतिवाक्येन मन्त्रगतैकपादं प्रतीकं गृ- हीत्वा 'इदं तच्छिरः' इति वाक्येन स मन्त्रो व्याख्यातः । तत्प्रकार- स्तु— 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' इति व्याख्येयमन्त्रे यद्वस्तूक्तम्, तदिदं प्रतीयमानं शिरः । कथं ? 'हि' यस्मात् 'एषः' 'शिरश्चमसस्त-