पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 407, कुल 1267 में से
संदर्भ में पढ़ें३६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] न्ति तं वै विष्णुं परममुदाहरन्ति' इत्यादि श्रुतेः प रमात्माभिधायका एव । अविशेषाच्छ्रुतेः ॥ ९ ॥
२. अधिकरणम् ॥ ( १ ) 'वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादिकर्माभिधा द्रूपः । ननु कथं शिरश्चमसं इत्यतस्तल्लक्षणयोगादित्याह — अर्वाग्बिल इति । 'बिलं' मुखादि । तथा चाधोभागस्थितमुखादिमानित्यर्थः । 'ऊर्ध्वबुध्नः' बुध्नो वर्तुलकठिनाकारः, तथाचोपरिभागस्थितबुध्नाका रवानित्यर्थः । 'दक्षिणाऽङ्गं वनुते यो न आत्मा' (ऋ.१०-१०७-७.) इत्य त्र यथा आत्मशब्दापेक्षयाऽङ्गे पुल्लिङ्गयच्छब्दनिर्देशः, तद्वत् शिरस्य पि चमसशब्दविवक्षया एष इति पुल्लिङ्गनिर्देशो युक्त इति। 'दक्षिणा' लक्ष्मीः 'वनु ते' भजति । किमङ्गमियत आह — य इति । 'नः' अस्माकं 'आत्मा' अन्तर्यामीत्यर्थः । सूत्रार्थस्तु स्पष्टः ॥ १ ॥ ॥ इति आनुमानिकाधिकरणम् ॥
२. अधिकरणम् ॥ ( १॥) अत्राधिकरणे कर्मतदङ्गेष्वेव प्रसिद्धानां ज्योतिष्टोमादिश ब्दानां भगवति समन्वयः प्रतिपाद्यते । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति—वसन्त इति ॥ 'तत्तु समन्वयात्' इत्युक्तः सर्वशब्दा नां परमेश्वरे समन्वय इति पूर्वाधिकरणवाक्यमत्रापि सम्बध्यते । आदिशब्दः उभयान्वयी । कर्मेत्यादौ ग्राह्यम् । कर्माभिधायकस्येति हे तुगर्भम् । तथा च 'तत्तु समन्वयात्' इत्युक्तः परमेश्वरे सर्वशब्दानां समन्वयो न युज्यते । यतः 'वसन्ते वसन्ते' ( ) इत्या द्याधायकवाक्यंगतशब्दजातस्य समन्वयो न युज्यते । सोऽपि कु तः ? तस्य कर्माद्यभिधायकत्वेन प्रसिद्धत्वात् । तदतिक्रमेण समन्वये च कर्मतत्क्रमादेरभावाख्यविरोधप्रसङ्गात् । सोऽपि कुतः ? कर्मा द्यभिधायकाभावाख्यविरोधात् । तथा च विहितानुष्ठानलोपाख्यवि रोधापातादिति योजना । प्रथमादिशब्देन 'ज्योतिष्टोमेन' इत्यादिफ लवाक्यम्, 'वाजपेयेनेष्ट्वा बृहस्पतिसवने यजेत' ( ) 'वेदं कृत्वा वेदिं कुर्यात्' ( ) इत्यादिक्रमवाक्यं च