पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 409, कुल 1267 में से
संदर्भ में पढ़ें३६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स ए व । 'एष इमं लोकमभ्यार्चत्' इत्युपक्रम्य 'ता वा ए ताः सर्वा ऋचः सर्वे वेदास्सर्वे घोषाः एकैव व्याहृ- तिः प्राण एव प्राण ऋच इत्येव विद्यात्' (ऐ. आ. २-२-२.) इति ह्यधीयत एके ॥ १० ॥ ( ३ ) सू—ॐ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ॐ॥११॥ हिर्हेतौ। तथा च 'हि' यस्मात् 'एके' शाखिनः श्रीमन्महैतरेयिनः 'ता वा एताः' (ऐ.आ.२-२-२-११.) इति 'तथा' सर्वशब्दाभिधेयत्वेन 'तत्तु' हरि मेवाधीयते तस्मादिति हेत्वर्थः। ननु शब्दानां विष्णुपরত্বे तत्र वृत्त्यभा व इत्यतः प्रवृत्तमुपक्रमादित्येतत् ल्यब्लोपनिमित्तपञ्चमीं मत्वा व्याच ष्टे-एष इति। उपक्रम्येति सावधारणम्। तेन सौत्रतुशब्द एवार्थतया ऽपि व्याख्यातः। अत एवाह टीकाकृत 'तुशब्द एवार्थः' इति। तत्त्वप्रदी पकृच्चाह-प्रघट्टकोपक्रमादेवेति आरभ्येति च। एतच्च परमेश्वरे शब्दा नामङ्करूढिमात्रापहारकविद्वद्रूढिसहितमहायोगं दर्शयितुमभिहितम्। अतएव उपक्रम्येत्युपलक्षणम्—'तं यच्छतम्' (ऐ.आ.२-२-१०.) इत्या दिना नामानि निरुच्य इत्यपि द्रष्टव्यम्। अस्य ह्यधीयत इत्यनेनान्व यः। तस्मान्न परमेश्वरे वृत्त्यभावदोष इति भावः। 'एषः' नारायणो देवः 'इमं लोकं' ब्रह्मादिशरीरं पुरुषरूपेणान्तर्यामितया 'अभ्यार्चत्' प्राविशदिति श्रुत्यर्थः। अन्यत्सर्वं पादान्त्यप्राणनये व्याकृतम्। सूत्रा र्थस्तु—न केवलमव्यक्तादिशब्दवाच्यं, किन्तु 'ज्योतिस्तु' ज्योतिरा दिशब्दवाच्यं तत्तु ब्रह्मैव, न त्वन्यज्ज्योतिष्टोमादि। कुतः? 'हि' य स्मात् 'एके' शाखिनः 'ता वा एताः' इति 'तथा' सर्वशब्दवाच्यत्वे न 'तत्तु' ब्रह्मैव 'अधीयते' वदन्ति, तस्मात् । न च ब्रह्मणि वृत्त्य भाव इति वाच्यम्। 'हि' यस्मात् 'उपक्रमात्' 'एष इमम्' इत्यु पक्रम्याधीतेन 'तं यच्छतम्' इत्यादिना नामानि निरुच्य पुनः सर्ववे दप्रभृतयः समुद्रघोषान्ताः शब्दा नारायण एव विद्यादिति सतात्पर्य मैतरेयिनोऽधीयते, तस्मात्। तथा च परब्रह्मणि सर्वशब्दानां च वि द्वद्रूढिसहितमहायोगस्य उक्तत्वात्नोक्तदोष इति भाव इति ॥ (३) ननु कथं ज्योतिरादिशब्दवाच्यत्वं परमात्मनः सम्भवति । तथासति कर्मक्रमादिविरोधापातात् । ज्योतिष्टोमादिशब्दानां अन्यप रत्वानभ्युपगमे परमात्मनि तेषां व्युत्पत्त्यसम्भवाच्चेत्याशङ्कामपनुदत्सू