भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 410, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 410

[ अधि - २. सू - ११. ] दीपिकासहितम्. ३६३ मधुविद्यादिवत्सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशा त्रमुपन्यस्य व्याचष्टे कल्पनेति॥ मधुविद्यादिवदिति । मधुविद्यायां मध्वा दिशब्दवदित्यर्थः । मधुविद्या तु-‘असौ वा आदित्यो देवमधु’ (छां.३-१- १.) इत्याद्या । अस्यां हि ब्रह्मोर्ध्वरमातिरोवंशाश्रितान्तरिक्षाख्यवायुम ध्वपूपस्थादित्यमण्डलान्तर्गतस्य भगवतो वासुदेवादिपञ्चमूर्तेरग्न्या दिप्रधानवस्वादिमुरमधुकरमुखसंस्पर्शेन पञ्चधाविभिन्नऋगादिसर्व वेदाख्यपुष्पोत्थयशस्तेजइन्द्रियवीर्यान्नाद्यात्मकमधुरसत्वमुच्यते। आ दिशब्देन ‘इदं तच्छिर एष ह्यर्वाग्विलश्चमसः’ (बृ.४-२-३.) इति शिरस श्चमसशब्दार्थत्वानुशासकश्रुतिर्गृह्यते । सर्वशब्दार्थत्वेनेत्यनेन सूत्रे पूर्वस्मात्तथाशब्दः संयोज्य इति सूचितम् । परस्य