भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 414, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 414

[ अधि - ३. सू - १३. ] दीपिकासहितम्. ३६७ ( ३ ) पञ्च जनानाह— सू— ॐ ॥ प्राणादयो वाक्यशेषात् ॥ ॐ ॥ १३ ॥ 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्न स्यान्नं मनसो मनः' इति वाक्यशेषात् ॥ १३ ॥ न्यस्यापि परमात्मनः 'नानाभावात्' अनेकरूपत्वात्, तथा 'अतिरे कात्' आधाररूपस्याधेयरूपेभ्यः षड्भ्यः सङ्ख्येयेभ्योऽतिरिक्तत्वाच्चे ति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु भवेदियं विष्णौ बहुत्ववादिसम्भवविषयचिन्ता, यदि पञ्चज नादिशब्दवाच्यानां विष्णुत्वे भवेद्विशेषहेतुः। न चासावस्ति । 'सर्वे वे दाः' (कठ.२-१५.) इत्यादिश्रुत्यन्तराणां च साधारणत्वादतो बहुत्ववादि सम्भवेऽपि न पञ्चजनादिशब्दवाच्यो हरिरित्याशङ्कां परिहरत्सूत्रमवता रयति—पञ्चेति ॥ के ते पञ्चत्वाश्रयभगवद्रूपविशेषा इत्याशङ्कां मुख तो द्वितीयान्तनिर्दिष्टप्राणादिपञ्चजनोक्त्या परिहर्तुं, वाक्यशेषग्रहणेन पञ्चजनलिङ्गोक्त्याऽर्थात्पञ्चजनशब्दवाच्यानां द्वितीयानिर्दिष्टविष्ण्वन्य त्वशङ्कां च परिहर्तुं पञ्चजनस्वरूपमाह सूत्रकार इत्यर्थः । श्रुत्यनुसारा त्पञ्च पञ्चेति द्विरुक्तिः । अथ सूत्रं पठित्वा तत्र प्राणादय इति विरोध पदान्वययोग्योद्देश्यपदस्य सम्बन्धभाष्येण प्रदर्शितत्वात्, तत एव प्र तिज्ञासिद्धेः, तत्र हेतुतयोक्तं वाक्यशेषमेव दर्शयति—प्राणस्येति । माध्यन्दिनानामयं वाक्यशेषः । व्याख्यातेयं कम्पनाधिकरणे । अनेन- सूत्रे पञ्चजना इति श्रौतपदद्वयस्य तत्त्वित्यस्य वाऽनुषङ्गेण प्राणादय इत्यस्यावृत्त्या विपरिणामेन च एते पञ्चजनास्तावत्प्राणादीनां 'प्राणा दयः' प्राणादिषु स्थित्वा प्राणादीनां प्राणत्वादिप्रदाः तत्प्रेरकास्तद्भा सकाश्च । कुतः ? 'प्राणस्य' इति वाक्यशेषात् । 'ते च' प्राणादीनां प्राणादयः 'त एव' भगवद्रूपविशेषा एव, न त्वन्ये । न च विशेषहेत्वभा वः । 'वाक्यशेषात्' 'स उ प्राणस्य प्राणः' (केन.२.) इति तलवकारं वाक्यशेषात् । अतोऽत्र विष्णुलिङ्गत्वेन श्रुत्यन्तरसिद्धनिरवकाशप्राणा दिप्राणत्वादिप्रदत्वरूपलिङ्गस्य श्रवणात्स एव पञ्चजनशब्दवाच्यः, न षष्ठीनिर्दिष्टप्राणादय इति नोक्तसर्वशब्दसमन्वयविरोध इति सूत्रार्थ उक्तो भवति । मुखतः प्रतीत: सूत्रार्थस्तु—एते पञ्चजनशब्दवाच्या भगवद्रूपविशेषास्तु प्राणादीनां प्राणादयः । द्वितीयान्तनिर्दिष्टप्राणा दिप्राणत्वादिप्रदाः प्राणचक्षुश्श्रोत्रान्नमनोभिधा ज्ञेया इति ॥