पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 415, कुल 1267 में से
संदर्भ में पढ़ें३६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] (४) सू—ॐ ॥ ज्योतिषैकेषामसत्यन्ने ॥ ॐ ॥ १४ ॥ 'तद्देवा ज्योतिषां ज्योतिः' (बृ. ६-४-१६.) इत्यनेन काण्वानां पञ्चकम् ॥ १४ ॥ —————— ❖ —————— (४) ननु माध्यन्दिनवाक्यशेषोक्तानां प्राणादिप्राणत्वादिप्रदानां विष्णुत्वेऽपि न पञ्चजनानां विष्णुत्वम् । कुतः ? काण्वानां वाक्यशेषे चतुर्णामेवोक्तत्वेन तस्य तद्गत 'यस्मिन्' इति पूर्ववाक्यतो भिन्नार्थ- त्वात् । अत्रापि वाक्यशेषस्य 'यस्मिन्' इत्यतो भिन्नार्थत्वावश्यंभा- वादित्याशङ्कां परिहरत्सूत्रं पठित्वा श्रुत्युदाहरणपूर्वकमपेक्षितपदाध्या- हारेण व्याचष्टे—ज्योतिषेति ॥ इत्यनेनेति । इति वाक्येनेत्यर्थः । एके- षामित्यस्य व्याख्यानं काण्वानामिति । शाखायामित्युक्तमिति शेषः । तथा च काण्वानां शाखायामपि तदित्यनेनोक्तेन ज्योतिषा सह पञ्च- कमुक्तमिति योजना । अस्यातो न विरोध इति प्रथमसूत्रोक्तसाध्ये- नान्त्रयः । यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ (बृ.६-४-१६.) इति काण्ववाक्यस्यायमर्थः — अहोभिः संवत्सरो यस्मादर्वाक्प- रिवर्तते । यस्मिन् स्वव्यापारमायुर्ह्रासादिकं कर्तुं न समर्थ इति याव- त् । 'तज्ज्योतिषां' आदित्यादीनां ज्योतिष्प्रदं 'आयुः' आयुःप्रदं अ- चलं 'अमृतं' नित्यमुक्तं ब्रह्मस्वरूपं देवा उपासते । 'ह' प्रसिद्धमि- ति । सूत्रार्थस्तु—नैकेषां वाक्यशेषे चतुर्णामेवोक्त्या तस्य पूर्वतो भि- न्नार्थत्वात् 'विरोधः' एकवाक्यत्वाभावः । कुतः ? एकेषां माध्यन्दिनानां शाखायां पञ्चानामप्युक्तेः । न च काण्वशाखायां अनुक्तेस्तत्र वाक्य- भेदोऽवश्यंभावीति वाच्यम् । यतः 'एकेषां' काण्वानां शाखायां 'अन्ने' अन्नस्यान्नत्वप्रदातृरूपे तत्रैव 'असति' अकथिते सत्यपि 'त- द्वेवाः' इति किञ्चिद्दूरोक्तेन वाक्येन ज्योतिषां आदित्यादीनां ज्योति- ष्प्रदेन ज्योतिराख्येन रूपेण सह पञ्चकमुक्तमिति । अत्र शाखाद्वयेऽ- प्येकविधपञ्चकपरत्वाय ज्योतिरन्नशब्दयोरेकार्थत्वम्, तयोर्भिन्नार्थ- त्वाय शाखाभेदेन पञ्चकद्वयं वेत्युक्तमुपपन्नमिति टीकोक्तप्रमेयमनु- सन्धेयम् ॥ ३ ॥ इति नसंख्योपसंग्रहाधिकरणम् ॥