भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 416, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 416

[ अधि - ४. सू - १५. ] दीपिका सहितम्. ३६९ ४. अधिकरणम् ॥ ( १ ) अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति— सू—ॐ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ॐ ॥ १५ ॥ ( २ ) आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽवान्तरकारणवाच्याकाशादिशब्दसमन्वयः क्रियत इति शास्त्रादिसङ्गतिः । अत्रापि ' तत्तु समन्वयात् ' इत्युक्तः सर्वशब्दसमन्वयो न युज्यते । यतोऽवान्तरकारणवाच्याकाशादिश ब्दैरन्यदेवोच्यते, न विष्णुः , तस्मिन् कार्यत्वस्य विरोधात् स्वकार्य त्वस्य सुतरां विरुद्धत्वादिति पूर्वाधिकरणवाक्यसंयोजनेन श्रुत्यादि सङ्गतिं विषयपूर्वपक्षादीन् शिष्या एव ज्ञास्यन्तीत्याशयेन सिद्धान्त्य त्सूत्रमवतारयति-अवान्तरेति ॥ कार्यत्वे सति कारणत्वं अवान्तरका रणत्वं, अपिस्समुच्चये । तच्छब्दैरिति शेषः । 'सः' विष्णुः । न भूतादी नित्येवशब्दार्थः । ' उच्यते ' मुख्यतः । तथा च न केवलं स एव मूल कारणवाचकात्मशब्देनोच्यते, किन्त्ववान्तरकारणत्वेन 'तच्छब्दैः' अ वान्तरकारणवाचकाकाशादिशब्दैरपि स एवोच्यते इति सूत्रकारो वक्तीति योजना । अवान्तरकारणत्वेनेत्यनेन सौत्रश्चशब्दः कार्यत्व समुच्चयार्थतया अपीत्यनेन मूलकारणत्वसमुच्चयार्थतया च व्याख्या तः। न चाकाशादिशब्दैः कारणत्वादिप्रकारकबोधाभावादनुपपन्नमे तदिति वाच्यम् । सम्भूतशब्दसमानाधिकृताकाशादिशब्दैस्तथाऽवग मात्, तत्र पञ्चम्या कारणत्वस्य सम्भूतप्रातिपदिकेन च कार्यत्वस्य चोपस्थितेः । यद्वा—'अवान्तरकारणत्वेन' तन्नियामकत्वेन स्वयं अ वान्तरकारणीभूत एव तच्छब्दैरुच्यते इत्यर्थः ॥ ( २ ) सूत्रं व्याचष्टे—आकाशादिष्विति ॥ सूत्रे न केवलं कारण त्वेन, किन्तु कार्यत्वेन चेति चशब्दव्याख्यानमभिप्रेत्य तल्लब्धार्थमा ह—अवान्तरकारणत्वेनेति । ' सः ' विष्णुरिति । समन्वयसूत्रादनुवृ त्ततच्छब्दस्य श्रुत्यनुसारालिङ्गविपरिणामः कृतः । न त्वन्यदित्येवका रार्थः । टीकायां सम्बन्धभाष्ये 'तच्छब्दैरुच्यते' इति अत्र च 'स्थितः' इति शेषोक्त्या सूत्रे स्थितः, तच्छब्दैः, उच्यते, इति पदत्रयमध्याहा र्यमिति सूचितम् । यद्यपि प्रतिज्ञासूचके सम्बन्धभाष्ये ' अवान्तरका रणत्वेन सः ' इति पदद्वयस्य प्रयुक्तत्वात्तयोरेव ' आकाशादिषु स्थि ४७