भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ४. सू - १५. ] दीपिका सहितम्. ३६९ ४. अधिकरणम् ॥ ( १ ) अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति— सू—ॐ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ॐ ॥ १५ ॥ ( २ ) आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽवान्तरकारणवाच्याकाशादिशब्दसमन्वयः क्रियत इति शास्त्रादिसङ्गतिः । अत्रापि ' तत्तु समन्वयात् ' इत्युक्तः सर्वशब्दसमन्वयो न युज्यते । यतोऽवान्तरकारणवाच्याकाशादिश ब्दैरन्यदेवोच्यते, न विष्णुः , तस्मिन् कार्यत्वस्य विरोधात् स्वकार्य त्वस्य सुतरां विरुद्धत्वादिति पूर्वाधिकरणवाक्यसंयोजनेन श्रुत्यादि सङ्गतिं विषयपूर्वपक्षादीन् शिष्या एव ज्ञास्यन्तीत्याशयेन सिद्धान्त्य त्सूत्रमवतारयति-अवान्तरेति ॥ कार्यत्वे सति कारणत्वं अवान्तरका रणत्वं, अपिस्समुच्चये । तच्छब्दैरिति शेषः । 'सः' विष्णुः । न भूतादी नित्येवशब्दार्थः । ' उच्यते ' मुख्यतः । तथा च न केवलं स एव मूल कारणवाचकात्मशब्देनोच्यते, किन्त्ववान्तरकारणत्वेन 'तच्छब्दैः' अ वान्तरकारणवाचकाकाशादिशब्दैरपि स एवोच्यते इति सूत्रकारो वक्तीति योजना । अवान्तरकारणत्वेनेत्यनेन सौत्रश्चशब्दः कार्यत्व समुच्चयार्थतया अपीत्यनेन मूलकारणत्वसमुच्चयार्थतया च व्याख्या तः। न चाकाशादिशब्दैः कारणत्वादिप्रकारकबोधाभावादनुपपन्नमे तदिति वाच्यम् । सम्भूतशब्दसमानाधिकृताकाशादिशब्दैस्तथाऽवग मात्, तत्र पञ्चम्या कारणत्वस्य सम्भूतप्रातिपदिकेन च कार्यत्वस्य चोपस्थितेः । यद्वा—'अवान्तरकारणत्वेन' तन्नियामकत्वेन स्वयं अ वान्तरकारणीभूत एव तच्छब्दैरुच्यते इत्यर्थः ॥ ( २ ) सूत्रं व्याचष्टे—आकाशादिष्विति ॥ सूत्रे न केवलं कारण त्वेन, किन्तु कार्यत्वेन चेति चशब्दव्याख्यानमभिप्रेत्य तल्लब्धार्थमा ह—अवान्तरकारणत्वेनेति । ' सः ' विष्णुरिति । समन्वयसूत्रादनुवृ त्ततच्छब्दस्य श्रुत्यनुसारालिङ्गविपरिणामः कृतः । न त्वन्यदित्येवका रार्थः । टीकायां सम्बन्धभाष्ये 'तच्छब्दैरुच्यते' इति अत्र च 'स्थितः' इति शेषोक्त्या सूत्रे स्थितः, तच्छब्दैः, उच्यते, इति पदत्रयमध्याहा र्यमिति सूचितम् । यद्यपि प्रतिज्ञासूचके सम्बन्धभाष्ये ' अवान्तरका रणत्वेन सः ' इति पदद्वयस्य प्रयुक्तत्वात्तयोरेव ' आकाशादिषु स्थि ४७

३७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] यथा व्यपदिष्टस्यैव परस्य 'य आकाशे तिष्ठन्' (बृ. तः' इति हेतुवाक्येऽन्वेतुं शक्यत्वादाकाशादिषु स्थित इत्येव वक्त- व्यम् । अतएव टीकायां सम्बन्धभाष्योक्तां प्रतिज्ञां 'न केवलम्' इ- त्यादिना विवृत्य न च कार्यकारणभावविरोध इत्यध्याहृतसाध्ये आ- काशादिषु स्थितत्वादित्येव हेतुवाक्यं प्रदर्शितम् । तथाऽपि अवान्तर- कारणत्वेनेत्यस्य हेतुसाध्ययोरुभयत्राप्यन्वयसूचनार्थं, स्थित इत्यस्या- न्यविशेषणत्वशङ्कापरिहारार्थं च तत्पदयोः पुनरनुवादः कृतः। तथा च न केवलं मूलकारणवाचिनाऽऽत्मपदेनैव विष्णुरुच्यते, किन्तु अवान्तर- कारणत्वेन रूपेण तच्छब्दैरवान्तरकारणवाच्याकाशादिशब्दैरपि स ए- वोच्यते । न च तस्यावान्तरकारणत्वेन रूपेणोक्तौ कार्यत्वकारणत्व- योरापत्तिः, ते च विरुद्धे इति वाच्यम् । यत आकाशादिष्ववान्तरका- रणत्वेन रूपेण स एव स्थितः । आकाशाद्युत्पत्तावाकाशाद्यन्तर्गतस्य भ- गवतोऽभिव्यक्त्या वाय्वादिस্বরূপाभिव्यक्तिहेतुत्वेन च तस्य कार्यत्व- कारणत्वयोरुपपत्तेर्न विरोध इति भावः। येन रूपेण आकाशादिषु स्थि- तो विष्णुः स्थितः, तेन रूपेण तस्य तच्छब्दवाच्यतेति ज्ञापनायोभय- त्रावान्तरकारणत्वेनेत्युक्तिः । अत्रापिपदपाठः प्रामादिकः । नन्वाका- शादिषु विष्णोः स्थितत्वमसिद्धमित्यतस्तत्राकाशादिष्वित्यस्य बुद्ध्या विविक्तेनोक्तेरित्यनेनाप्यन्वयेन लब्धहेतुमाह-परस्येति । 'इत्यादिना' वाजसनेयवाक्येन आकाशादिषु 'परस्य' परमात्मन 'उक्तेः' सत्त्वोक्ते- रित्यर्थः । परस्येत्यनेन अनुवृत्ततच्छब्दस्य विभक्तिपरिणामावृत्ती सूचिते । आदिशब्देन 'यो वायौ तिष्ठन्' ( बृ.५-७-७. ) इत्यादि, 'यमा- काशो न वेद' (बृ.५-७-१२.) इत्यादि च गृह्यते । ननु श्रुतावप्याकाश- स्थो विष्णुरिति कुत इत्यतस्तत्र 'यथाव्यपदिष्ट' इत्यंशस्य 'आका- शादिषूक्तेः' इत्याभ्यां संयोजनेन लब्धं हेतुमाह—यथाव्यपदिष्टस्ये- ति । व्यपदिष्टप्रकारमनतिक्रान्तो यथाव्यपदिष्ट इति विग्रहः । ततष्ष- ष्ठीतत्पुरुष इत्याशयेन षष्ठीप्रयोगः । यद्वा—श्रुत्यन्तरव्यपदिष्टानुरूपं यथाव्यपदिष्टमिति निपातनात्सादृश्येऽव्ययीभावः । तथा चैतरेये 'स योऽतोऽश्रुतः' इत्यादौ परमात्मा 'यथा' येन प्रकारेण 'व्यपदिष्टः' श्रुतः तादृशस्यैव तस्य परस्य 'यमाकाशो न वेद' इत्यादिना वाक्ये- नाकाशादिषूक्तत्वादित्यर्थः। अनेन आकाशादिष्विति सौत्रो हेतुराकां- क्षाक्रमेण यथायोग्यमपेक्षितपदावृत्त्या योजनीय इत्युक्तं भवति । सू-

[अधि - ५. सू - १६.] दीपिकासहितम्. ३७१

५-७-१२.) इत्यादिना आकाशादिसूक्तेः ॥ १५ ॥ —* ❂ — ५. अधिकरणम् ॥ ( १ ) सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इति । अतो ब्रवीति— सू—ॐ ॥ समाकर्षात् ॥ ॐ ॥ १६ ॥ अर्थस्तु—न केवलं मूलकारणवाचकात्मशब्देनैव, किन्तु 'कारणत्वे न च' अवान्तरकारणत्वेनेति यावत् । तेन रूपेण सम्भूतशब्दसमाना धिकृतैस्तच्छब्दैराकाशादिशब्दैरपि स विष्णुरेव उच्यते, न भूतादी नि । कुतः ? 'उक्तेः' 'नामानि' इत्यादिश्रुतेरेव । न च कार्यकारण भावविरोधः । यत आकाशादिषु अवान्तरकारणत्वेन स एव स्थितः, आकाशाद्युत्पत्तौ तस्थितस्य भगवतोप्यभिव्यक्तिरूपोत्पत्त्यवश्यंभावा त् कार्यत्वस्य पूर्वस्या उत्तराभिव्यक्तिहेतुत्वेन कारणत्वस्य चोपपन्न त्वादिति भावः । न चाकाशादिगतत्वासिद्धिः । 'यः' इति श्रुतौ आ काशादिषु तस्य परस्योक्तत्वात् । न च तत्रापि विष्णुः कुत इति वा च्यम् । 'यथाव्यपदिष्टोक्तेः' 'स योऽतः' (ऐ-आ.३-२-४.) इत्यादिषु त्यन्तरे विष्णुः यथा येन प्रकारेण 'व्यपदिष्टः' अभिहितः तेनैवाविदि तत्वादिना प्रकारेणोपेतस्य तस्येहाकाशादिषु 'यमाकाशो न वेद' इत्यादिनोक्तेरिति ॥ ४ ॥ ॥ इति आकाशाधिकरणम् ॥ —-:-*-— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णौ प्रकारान्तरेण पूर्वोक्तसर्वशब्दसमन्व यासम्भवमाशङ्क्य परिह्रियते । यद्यपीदं सूत्राष्टकं पूर्वाधिकरणशेषत या व्याख्यातुं युक्तम्, तत्त्वप्रदीपे तथा व्याख्यानात्, भाष्येऽपि पृथ क्समन्वेतव्यशब्दान्तरानुक्तेश्च । तथाऽप्यस्य पृथङ्न्यायसूचकत्वेन टीकायामधिकरणान्तरत्वेनैव तद्व्याख्यातम् । अतएव पूर्वतन्त्रे 'हेतु दर्शनाच्च' (पू. मी. १-३-४.) इति सूत्रं विरोधाधिकरणशेषभूतम पि पृथङ्न्यायसूचकत्वादधिकरणान्तरत्वेनापि व्याख्यातम् । श्रुत्यादिस ङ्गतिप्रदर्शनाय सूत्रमवतारयति—सर्वेति ॥ 'तन्तु समन्वयात्' इत्यु

३७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( २ ) परमात्मवाचिनः शब्दा अन्यत्र समाकृष्य व्यवह्रियन्ते । ( ३ ) परस्य वाचकाशब्दाः समाकृष्येतरेष्वपि । व्यवह्रियन्ते सततं लोकवेदानुसारतः ॥ इति पाद्मे ॥ १६ ॥ क्तरीत्या सर्वशब्दानां मुख्यतः परमात्मैकवाचित्वे कथं ततोऽन्यत्र ज गति शब्दप्रयोगरूपो वा हानादिरूपो वा व्यवहारो युज्यते, न कथम पीत्यर्थः । तथा च तल्लोपप्रसङ्गात्, तस्य चानिवृत्तत्वात्, परमात्मैव मु ख्यतः सर्वशब्दवाच्य इत्यवधारणाऽनुपपत्तिरिति भावः ॥ ( २ ) जगद्वाचित्वाय समाकर्षाज्जगद्वाचित्वादित्यागामिपदान्वया भिप्रायेण सूत्रं व्याचष्टे—परमात्मेति । ‘अन्यत्र’ जगति । समाकृष्ये त्यनेन सूत्रे पञ्चमी ल्यब्लोपनिमित्तेति सूचितम् । व्यवह्रियन्त इत्यन न्तरं यत इति शेषः । अस्यातो न विरोध इति अनुवृत्तसाध्येनान्व यः। व्यवह्रियन्त इत्यनेनान्यत्र समाकर्षे प्रयोजनमुक्तं भवति । अ नेन—न सर्वशब्दानां परमात्मवाचित्वेऽपि अन्यत्र व्यवहारविरो धः । कुतः ? तत्रापि रूढ्यादेः अङ्गीकारादिति शेषः । तथा सति उ भयोर्मुख्यवाच्यत्वेन साम्यलक्षणविरोधः प्राप्त इति न वाच्यम् । उभ यत्रान्योन्यनिरपेक्षवृत्त्यभावात् । सोऽपि कुतः ? जगद्वाचित्वाय ‘स माकर्षात्’ जगद्वाचित्वात् । यतः स्वतो मुख्यवृत्त्या परमात्मैकवाचि नः शब्दाः अन्यत्र व्यवह्रियन्ते , अतः तदर्थं परमात्मसम्बन्धात्समा कृष्य ततस्तान् सङ्गृह्य तेषां अन्यत्र रूढत्वेन सङ्केतितत्वात् परममु ख्यवृत्तिभिन्नकेवलमुख्यवृत्तियुक्तत्वेन अङ्गीकृतत्वात् इति सूत्रयोज ना सूचिता भवति ॥ ( ३ ) कुत एतत् मुख्यवृत्तौ द्वैविध्यं कल्प्यते, उभयत्राक्षादिशब्द वदन्योन्यनिरपेक्षतयैव कुतो न शब्दवृत्तिरङ्गीक्रियत इत्यतः स्मृतेरेवे त्याह—परस्येति ॥ सततं वाचका इति सम्बन्धः । अपिः समु च्चये । परमात्मशब्दत्वाविशेषादग्र्यादिशब्दानां उदकादौ प्रयोगाप त्तिरित्यत आह—लोकेति । हानादिसूक्तादिरूपलौकिकवैदिकव्यव हारसिद्धयनुसारत इत्यर्थः । तथा च ‘सततं’ अनादिकालतोऽविच्छे देन स्वभावतः ‘परस्य’ परमात्मनो ‘वाचकाः’ वाचकतया स्थि ताः सर्वे शब्दाः ‘समाकृष्य’ परमात्मसम्बन्धात्ततः सङ्गृह्य लौकिक वैदिकव्यवहारसिद्धिमनुसृत्य तदर्थं ‘इतरेषु’ पदार्थेष्वपि वैदिकैः

[ अधि - ५. सू - १८. ] दीपिकासहितम्. ३७३ ( ४ ) तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः— ( ५ ) सू—ॐ ॥ जगद्वाचित्वात् ॥ ॐ ॥ १७ ॥ जगति व्यवहारो लोकस्य न तु परमात्मनि तथा, अ तो जगति प्रसिद्धिः शब्दानाम् ॥ १७ ॥ ( ६ ) सू—ॐ ॥ जीवमुख्यप्राणलिङ्गादिति चेन्नह्याख्या तम् ॥ ॐ ॥ १८ ॥ 'व्यवह्रियन्ते' केवलरूढत्वेन अङ्गीक्रियन्त इति स्मृत्यर्थः । पाठ्य इ त्यनन्तरं उक्तत्वादिति शेषः । अस्योभयत्र नान्योन्यनिरपेक्षैव शब्दवृ त्तिरियवतारिकालब्धसाध्येनान्वयः ॥ ( ४ ) शङ्कते—तर्हीति ॥ परमात्मवाचिन इत्याद्यत्रापि सम्बध्य ते । तदीति लभ्यते । तथा च यदि मुख्यतः परमात्मवाचिनः शब्दाः ततोऽन्यत्र समाकृष्य प्रयुज्यन्ते, तर्हि तेषां मुख्यार्थे परमात्मन्येव वाच कत्वप्रसिद्धिस्यात् । तथा च तेषां शब्दानां कथममुख्यार्थे जगति वाचकत्वप्रसिद्धिः स्यात् । न कथमपीत्यर्थः । तथा च प्रसिद्ध्यन्यथाऽ नुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यमिति भावः । प्रसिद्धिरित्यन न्तरं 'स्यादित्यत आह' इति शेषः ॥ ( ५ ) एतच्छङ्कापरिहारत्वेन सूत्रं पठित्वा व्याचष्टे—जगदिति ॥ व्यवहारपदं शब्दप्रयोगस्य करणव्युत्पत्त्या शब्दशक्तिग्रहस्य च वाच कम् । अनेन जगद्वाचित्वादित्यस्य आवृत्तिस्सूचिता । तुशब्दोऽवधार णे । तथाशब्द उपमायाम् । अत इत्युक्तेर्यत इति लभ्यते । जगति प्र सिद्धिरिति शेषोक्त्या साध्यं सूचितम् । जगद्वाचित्वमित्यर्थान्त रं चैतत् । तथा च यतो बालानां चित्रलिखितसिंहादाविव 'लोक स्य' लोकानामनवगतमुख्यार्थानां जनानां जगति व्यवहारो बहुलश्श ब्दप्रयोगोऽस्ति न तथा परमात्मनि । अतो 'जगद्वाचित्वं' जगत्येव व्यवहारः व्युत्पत्तिः न परमात्मनि । यत एवमतः शब्दानां 'जगद्वा चित्त्वं' जगति वाचकत्वप्रसिद्धिः जगद्वाचित्वव्यवहारो युज्यते इति योजना । अनेन—यतो 'जगद्वाचित्वात्' जगति लोकस्य व्यवहारा त् 'जगद्वाचित्वात्' जगद्वाचित्वज्ञानात् 'जगद्वाचित्वं' जगति प्रसि द्धिः शब्दानां युज्यते । अतो न सिद्धान्ते तद्विरोध इति सूत्रयोजना दर्शिता ॥ ( ६ ) विष्णोरेव मुख्यतः शब्दार्थत्वमाक्षिप्य समादधत्सूत्रमुपन्य

३७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तदधीनत्वात्तच्छब्दवाच्यत्वमित्युक्तं तज्जीवमुख्यप्रा णयोर्लिङ्गम् । ‘अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति’ (छां. ६-११-२.) ‘वायुना हि सर्वे लोका नेनीयन्ते’ इत्यादिश्रुतिभ्य इति चेत्— (७) न, उपासात्रैविध्यादिति व्याख्यातत्वात् ॥ १८ ॥ स्याक्षेपांशं तावद्व्याचष्टे-जीवेति ॥ सर्वेषामित्यनुवर्तते । तच्छब्दवाच्य त्वमित्यावर्तते । तत् लिङ्गमित्यन्वयः । जीवमुख्यप्राणयोरिति षष्ठीस प्तम्यौ तन्त्रेणोपात्ते । आदिशब्देन ‘वायुना वै गौतम सूत्रेण प्रबद्धः’ (बृ.५-७-२.) इत्यादिकं गृह्यते । तथा च सर्वेषां ‘तदधीनत्वात्’ परमा त्माधीनत्वात्तस्यैव मुख्यतस्तच्छब्दवाच्यत्वमिति‘तदधीनत्वात्’इति सू त्रे विष्णोर्व्यक्तादिशब्दवाच्यत्वे यत्सर्वस्य तदधीनत्वाख्यं निमित्तमु क्तम्, ‘तल्लिङ्गं’ तन्निमित्तं यतो जीवमुख्यप्राणयोरस्ति, अतो जीवमुख्य प्राणयोरपि मुख्यतस्तच्छब्दवाच्यत्वं स्यात् । न च तयोस्तस्यासिद्धिः। यतः ‘अस्य’ इत्यादिश्रुतिभ्यो जीवमुख्यप्राणयोस्तल्लिङ्गमवगम्यतेऽ त इति योजना । ‘जीवः’ अनिरुद्धाख्यः परमात्मा ‘अस्य’ जीववृक्ष स्य यदैकां शाखां ‘जहाति’ त्यजति । ‘अथ’ तदा ‘सा’ शाखा शु ष्यतीति छान्दोग्यश्रुत्यर्थः । ‘वायुना’ मुख्यप्राणेन ‘सर्वे लोकाः’ ज नाः ‘नेनीयन्ते’ स्वस्वकर्मसु भृशं अतिशयेन प्रेर्यन्ते । ऊर्ध्वं लोकं वा भृशं नीयन्ते इति श्रुत्यन्तरस्यार्थः । पूर्वपक्षी त्वाद्या श्रुतिः पृथि व्याद्यभिमानिजीवपरा । द्वितीया तु मुख्यप्राणपरेत्याह । आदिशब्दो पात्तश्रुत्यपेक्षया बहुवचनम् ॥ (७) नञोऽध्याहारेण परिहारांशं व्याख्याति—नेति ॥ नोक्तलि ङ्गेन तयोर्मुख्यतस्तच्छब्दवाच्यत्वं कल्प्यमित्यर्थः । कुतो नेत्यतस्तत्र हेतुतया यतस्तदुक्तमित्येतद्व्याचष्टे—उपासेति । इतीति त्रिवारो क्त्या सूत्रे इतिशब्द आवर्तनीय इति सूचितम् । अत एव टीकायां ‘यद्यत्’ इति गीतास्मृतिग्राहकत्वेनाऽपीति शब्दो योजितः। विपरिण तं ‘इत्यादि’ इत्येतदत्रापि संयोज्यम् । तथा च ‘उपासात्रैविध्यात्’ इत्यनेन सूत्रखण्डेनान्यलिङ्गाभिधायकत्वेन प्रतीयमानानामित्यादिश्रु तीनां तदन्तर्यामिभगवत्सम्बन्धितया व्याख्यातत्वादित्यर्थः । यद्वा- नेत्येतदपि पूर्वसूत्रान्तर्गतमेव, न त्वध्याहृतम् । तथात्वेऽस्येति शेषः । तथा च ‘नोपासा त्रैविध्यात्’ इत्यनेन ‘अस्य’ चोद्यस्य सहेतुकं प्र

िकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अ-`

Line 27: मभिप्रेत्य तत्तात्पर्यतो व्याचष्टे—कर्मादिकमिति । ‘कर्म’ ज्योतिष्टो- Left single curly quote ‘ and right single curly quote ’ around कर्म: ‘कर्म’ or 'कर्म'.

Line 31: ( ९ ) ननु वेदोदितकर्मादिज्ञानस्य परमात्मज्ञानार्थत्वं कुतो ज्ञाय-

Line 32: त इत्यतः प्रवृत्तं प्रश्नेति सूत्रपदं द्विवचनगर्भद्वन्द्वसमासरूपमनेकप्र-

Everything is very clear, accurate, and faithful to the source image.[ अधि - ५. सू - १९. ] दीपिकासहितम्. ३७५ ( ८ ) सू-- ॐ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम- पि चैवमेके ॥ ॐ ॥ १९ ॥ परमात्मज्ञानार्थं कर्मादिकमपि वदतीति जैमिनिः । ( ९ ) 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । व्याख्यातत्वादित्यर्थः । अस्य 'नेदं चोद्यं युक्तम्' इत्यावृत्तसाध्येनान्व-

३७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तस्मै स होवाच द्वे विद्ये वेदितव्ये' (मु. १-१०) (१०) 'कथं नु भगवस्स आदेशो भवतीति । यथा सोम्यै श्प्रतिवचनसूचकमित्याशयेन तान्युदाहरति—कस्मिन्निति ॥ 'क- स्मिन्' इति चाथर्वणे श्रुतम् । अस्यार्थः—हे 'भगवः' भगवन् 'नु' इदानीं 'सर्वमिदं' कर्मादिकं कस्मिन् विज्ञाते विज्ञातं भवति । क- र्मादिज्ञानमात्रस्य निष्फलत्वात् विज्ञातस्य कर्मादेः फलं कस्मिन् ज्ञा- ते सति भवतीति प्रश्नाशयः । श्रुतिगतेतिशब्दस्य इति प्रकारेण शौन- केनाङ्गिरसं प्रति प्रश्ने कृत इत्यर्थः । एवं पृष्टोऽङ्गिराः अपरविद्यया स- र्वे कर्मादि विज्ञातं भवति । विज्ञातं च परविद्याविषयपरमात्मज्ञानेन सफलं भवति इत्युत्तरं 'तदेतत्' इत्यादिनाऽभिधास्यन् तदुपोद्घा- तत्वेन द्विविधा विद्या प्रथमं सर्वैर्ज्ञातव्येत्याशयेन प्रत्यवोचदित्याह-- तस्मा इति । शौनकायेत्यर्थः । 'सः' अङ्गिराः । हेति हर्षे । प्रमाणप्रसि- द्धौ वा ॥ (१०) छान्दोग्ये हि 'येनाश्रुतं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातं भवति' इति वाक्येन 'येन' परमात्मना ज्ञातेन यस्मिन् पर- मात्मनि ज्ञाते सति 'अविज्ञातं' कर्मादिकमपि विज्ञातं भवति, तज्ज्ञा- नफलावाप्तेः । एवं येन परेण यस्मिन् परमात्मन्यविज्ञाते सति ज्ञातम- पि कर्मादिकमविज्ञातं भवति, तत्फलानवाप्तेः । तस्माद्यस्मिन् ज्ञात ए- व ज्ञातं तत्सफलं भवति । परमात्मज्ञानादौ सति अन्यदज्ञाताद्यपि ज्ञा- तादिवद्भवतीति वा । 'तमादेशं' भगवन्तमप्राक्ष्यः ? 'उत' किं प्रा- यो नाप्राक्ष्यः? इत्युद्दालकेनोक्तः श्वेतकेतुर्गूढाभिसन्धिस्तं पृच्छति— कथमिति ॥ हे 'भगवो' भगवन् पूज्योद्दालक यस्मिन् परमात्मनि ज्ञात एव सर्वे कर्मादिकं ज्ञातमपि सफलं स्यान्नान्यथा, 'स आदेशः' तद्विषय उपदेशः 'कथं' केन प्रकारेणोपपन्नो 'भवति' स्यात् । तं प्रकारं अहं 'नु' इदानीं कथं विजानीयामित्यर्थः । अत्रापीतिशब्दः श्रु- तिस्थ एव प्रश्नसमाप्तिद्योतकः । इति पृष्टः पितोद्दालकः पुत्राशयं जा- नमानः स्वाशयोद्घाटनेन तं प्रतिवक्ति—यथेति । हे 'सोम्य' भक्तिज्ञा- नादिलक्षणसोमार्ह 'यथैकेन मृत्पिण्डेन' ज्ञातेन तत्सादृश्यनिमित्ताद्दक्षा- तमपि 'सर्वं मृण्मयं' घटादिकं 'विज्ञातं स्यात्' ज्ञातफलं भवति । विशे- षज्ञानाख्यफलवद्भवतीति यावत् । कथम्? मृत्त्वगन्धवद्र्व्यत्वादिनা मृत्पिण्डसादृश्याख्यप्रकारविशेषज्ञानात् । एवं परमात्मनि ज्ञाते सर्वे

Here is the precise line-by-line transcription of the page into clean Unicode Devanagari Markdown:

[ अधि - ५. सू - १९. ] दीपिकासहितम्. ३७७ केन मृत्पिण्डेन ' ( छा. ६-१. ) इत्यादिप्रश्नव्याख्या कर्मादि ज्ञातफलं भवति तत्सदृशत्वेन विशेषज्ञानादित्यर्थः । अस्या भिप्रायस्तु—यथा घटादिव्युत्पन्नमृदादिशब्दैः पुंभिः मृत्पिण्डादौ मृ दादिशब्दार्थत्वेन विज्ञाते पुनर्घटादिसर्वमृण्मयादि मृत्पिण्डादिसदृश त्त्वेन विशेषेण ज्ञातं स्यात्, एवं जडजीवादिव्युत्पन्नसच्चिदादिशब्दैः पुंभिर्ब्रह्मणि सच्चिदादिशब्दमुख्यार्थत्वेन विज्ञाते पुनः जडजीवात्मकं जगद्ब्रह्मात्यल्पसदृशत्वेन विशेषेण ज्ञायते , न त्वतिसदृशत्वेनेति सत्त र्कदीपावलीवाक्यादवगन्तव्यः । अनेनैकविज्ञानेन सर्वविज्ञानं सादृ श्याख्यप्रकारेणोपपन्नमित्युक्तं

न्तस्तु यथाऽनेकमृन्मयज्ञानं तत्कारणत्वेन मृत्पिण्डस्य ज्ञानार्थं चेत्स फलम् । कुतः? एतावता मृत्पिण्डेन एतावन्मृन्मयं भवतीति विशेष ज्ञानात् अपेक्षितमृन्मयसम्पादनसम्भवात् , न तु स्वरूपेण । एवं कर्म देवतादिविज्ञानमपि तदाश्रयत्वतत्कारणत्वतन्नियन्तृत्वादिप्रकारैर्भगव ज्ञानार्थं चेत्सफलम्, नान्यथेत्यभिप्रायेणेत्यनेनोक्तः । तथा मुमुक्षुणा भगवत्सृष्टमेवैतत्कर्मादीत्यादिरूपेणैव ज्ञातव्यमिति विष्णुतत्त्वनिर्णयटी कायां चोक्तः। अत्र यद्यपि सत्तर्कदीपावल्यां तत्त्वप्रदीपे च आदिश्यत इत्यादेशः परमात्मेति व्युत्पत्तिमाश्रित्य 'कथं नु भगवः स आदेशो भ वति' (छां.६-१-४.) इति प्रश्नेऽपि 'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति' इति प्राधान्येनोक्त आदेशस्तच्छब्देन परामृश्यत इत्युक्त्वा सर्वान् वेदानधीतवानेव केवलं, न त्वादेशं तन्मुख्यादेशं सकलक ल्याणगुणाकरं तं पृष्टवान् प्रायो यतः स्तब्धोऽसि । यस्मिन् श्रुते मते ज्ञाते विज्ञातेऽन्यदश्रुतममतमविज्ञातमपि तदधीनत्वेन श्रुतं मतं विज्ञा- तं ह्रियमाणमतिनीचत्वेन विज्ञायमानं त्वदादिकं तमित्युक्तः श्वेतके- तुः पितरं पृच्छति-कथं न्विति । इत्यवतार्य कर्मादिषु वेदैरेकदेशै रुच्यमानेषु आसमन्तातस एव सर्ववेदादेश्यो भवतीति कथं केन प्र- कारेण जानीयामिति श्रुत्यर्थोक्तेः, तथा 'प्रायो नारायणं देवं नैव त्वं पृष्टवानसि' इति गीतातत्पर्योदाहृतश्रुत

[ अधि - ५. सू - १९. ] दीपिकासहितम्. ३७९ ( ११ ) एवमपि चैके पठन्ति 'यस्तन्न वेद किमृचा करिष्य ति' ( ऋ. १-१६४-३९. ) इति ॥ १९ ॥ ( ११ ) अपि च न केवलमर्थात्साक्षात्प्रश्नव्याख्यानरूपात् लिङ्गादेवम न्यज्ञानस्य परमात्मज्ञानार्थत्वसिद्धिः, किन्तु स्पष्टं मुखतोऽप्येवमेके ऋग्यजुश्शाखिनः पठन्तीति प्रतिपादयन्तं 'अपि चैवमेके' इति सू त्रखण्डं व्याचष्टे—एवमिति । अपीति निपातः साधकान्तरसमुच्चये अन्यज्ञानस्य परमात्मज्ञानार्थत्वप्रकारस्य अव्यवहितप्रकृतस्यैवंशब्देन परामर्श इति सूचनार्थ सूत्रापेक्षया व्यत्यासेनानुवादः कृतः । पठन्ती ति शेषोक्तिः । तथा च न केवलमर्थादेव सिद्धयति, किन्तु 'अपि' मु खतोऽप्येवमेके शाखिनः पठन्तीत्यर्थः । चशब्दोऽन्यसमुच्चायकः । उ क्तं हि तत्त्वप्रदीपे—चकारादेतदुपसंहर्तव्यम् । एतदर्थं सृष्ट्यादिकम प्यधीयते 'सप्तार्धगर्भाः' (ऋ.१-१६४-३६.) इत्यादीति । 'एतदर्थं' अन्यज्ञानस्य परमात्मज्ञानार्थत्वोपपादकप्राधान्यज्ञानार्थमित्यर्थः । के चित्तु अपि चेति टीकानुसारात्सूत्रभाष्ययोरपि चेत्यखण्डो निपात इत्याहुः । कासावेकैः पठिता श्रुतिरित्त्यतस्तामुदा

३८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( १२ ) सू—ॐ ॥ वाक्यान्वयात् ॥ ॐ ॥ २० ॥ वा ‘अधिनिवेशुः’ तदाधारा वर्तन्ते । एवं व्यतिरेकं सहेतुकमुक्त्वाऽ न्वयमाह-य इति । इत् एवमित्येव पुनरेवमुक्तप्रकारेण ‘तत्’ अक्षरं ‘विदुः’ जानन्ति ‘त इमे’ प्रकृता देवाः ‘समासते’ सम्यगासते सङ्क ल्पमात्रसिद्धयथेष्टभोगाः सन्तः परमात्मानं प्रविशन्तीत्यर्थः । सूत्रे तु शब्दोऽप्यर्थः । जगद्वाचित्वमिति समाकर्षादिति चानुवर्तते । शब्दा नामिति शेषः । तथा च वैदिकशब्दानां न केवलं परमात्मवाचित्वं, अपि तु जगद्वाचित्वमपि । न च तेन मुमुक्षोः प्रयोजनाभावः । यतः समाकर्षेण वेदानां कर्मादिजगद्वाचित्वं तज्ज्ञानद्वाराऽन्यार्थं परमात्म ज्ञानार्थं भवतीति जैमिनिराचार्यो मन्यते। न

This means: if it looks like वाक्यान्वया/समपेक्ष्य or वाक्यान्वयात्समपेक्ष्य? Wait, let's inspect the slash closely: It starts near the top line and slants down to the right: /? No, it slants from top-right to bottom-left: \? Wait, look at it: Top is to the right, bottom is to the left: that's \ or /? Wait, top is at roughly the x-height, going down-left, wait, no, top is at the left, going down-right? Let's zoom in to 500%: Looking at line 9: "अतो वाक्यान्वय" Then: Is that an matra? Yes, a vertical bar |. Then next to it, there is an oblique stroke / sloping from bottom-left to top-right! Wait, that oblique stroke is a virama attached to... wait, no, it's halfway up! Wait, could it be त्? In some fonts, त् is: horizontal tick from the stem to the left, then curving down. Here, it's just a straight slash /. Wait, could it simply be a slash /? Yes, it really looks like a slash /! Wait, but if it is a broken त्, or a slash, what is the safest transcription? If we

३८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] स्यापि परमात्मना ॥ २० ॥ ( १३ ) सू—ॐ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ ॐ ॥ २१ ॥ ‘नान्यः पन्था अयनाय विद्यते’ ( तै. आ. ३-१३. ) इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यते इत्या ‘अग्निमीळे’ ‘वायवायाहि’ इत्यादिवाक्यस्यापि परमात्मनाऽन्वयो युज्यते, न केवलं पदाक्षरादेः । यदा तु तेषां अग्निवाय्वादिवाचित्वं तदा पृथक्स्थितस्यैव वाक्यस्यापि परमात्मनाऽन्वयो युज्यत इति । अस्मिन् पक्षे अपृथक्पृथगिति भाष्ये पदच्छेदः । तत्त्वप्रदीपरित्या योज नान्तरम्—एवमन्यस्यापि वाक्यत्वाङ्गीकारे यद्यपि पदानामेकैकशो मान्वयः परमात्मना । तथाऽपि वाक्यस्यान्वयो युज्यते । पृथक्पृथ क्स्थितस्यापि स्वं स्वमवान्तरार्थमुक्त्वा स्थितस्य परिपूर्णस्यापि अ

[अधि - ५. सू - २२.] दीपिकासहितम्. ३८३

श्मरथ्यः । यस्मादेवमनित्यफलमन्यत्तस्मान्नान्यः प न्था इति ॥ २१ ॥ ( १४ ) सू— ॐ ॥ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ ॐ ॥२२॥ उत्क्रमिष्यतां मुमुक्षोः कर्मादिना भाव्यं साधनसा देवं 'अमृतां वाव सोमपा भवति यावदिन्द्रां यावन्मनुः' इत्याद्युक्त प्रकारेण अन्यत्कर्माद्यनित्यफलं विनाशि दुःखसम्भिन्नफलं तस्मान्न तन्मोक्षसाधनम, मोक्षस्य दुःखासम्भिन्ननित्यसुखरूपत्वात् । यत ए- वमतोऽपरोक्षज्ञानान्नान्यः पन्थाः मोक्षायेति प्रतिज्ञासिद्धेर्लिङ्गत्वेन वे- देन कर्मादिकमुच्यत इति एवंशब्दावृत्त्या योजना । न चानेन न प्रका- रो दर्शित इति वाच्यम् । क्षुद्रफलार्थिनं प्रति तत्तत्फलाय तत्त- त्कर्म विदधतोऽपि कर्मादिवाक्यस्य मुमुक्षुं प्रति कर्मणां क्षुद्रफलकत्वा- त्तद्धानेनाक्षुद्रफलं ज्ञानमेवोपादेयमिति । वैराग्यजनकत्वेन प्रकारेण परमात्मज्ञानार्थत्वमित्युक्तार्थ प्रकारस्य दर्शितत्वात् । अनेन—यस्मा- देवं श्रुत्युक्तप्रकारेण अन्यत्कर्माद्येवमनित्यफलमिति सिद्धम्, तस्मान्न तन्मोक्षसाधनम्, तस्य नित्यपुमर्थरूपत्वात् । यत एवमतो मोक्षस्य ज्ञानान्नान्यः पन्था इत्येवं रूपेण कर्मादिवचनं मुमुक्षुं प्रति वैराग्यजन- नद्वारा नान्यः पन्था इति प्रतिज्ञातार्थसिद्धेर्लिङ्गं हेतुरित्येवं प्रकारेण वेदानां कर्मादिजगद्वाचित्वमित्याश्मरथ्याचार्यो मन्यते इति सूत्रार्थ उक्तो भवति । 'नान्यः पन्थाः' (तै. आ. ३- १३ - १०) इति श्रुतिस्तु जिज्ञासा नये व्याख्याता ॥ ( १४ ) प्रकारान्तरेण कर्मादिवचनस्य भगवज्ज्ञानोपयोगं प्रदर्शय- त्सूत्रमुपन्यस्य व्याचष्टे—उत्क्रमिष्यत इति ॥ कर्तरि षष्ठ्यन्तपदमनू- द्य तस्य तत्त्वप्रदीपरीत्या एष्यदुत्क्रमणस्य तदिच्छादशायां अभावा- त् लक्षणया संसारादुत्क्रमणेच्छोरित्यर्थ इत्यभिप्रायेण मुमुक्षोरित्या- ह । ज्ञानाद्वन्धमोक्षमिच्छत इति तदर्थः । यद्वा—मुमुक्षोरिति विशे- ष्यपदेनाध्याहृतेन संसारादुत्क्रमिष्यत इति विशेषणपदस्य तात्पर्या- र्थमाह । सूत्रे कर्मादेरित्यध्याहाराभिप्रायेण भावादित्येतद्व्याचष्टे— कर्मादिनेति । भाव्यमित्यनन्तरं यत इति शेषः । सौत्रैवंशब्दार्थमाह- साधनसाधनत्वेनेति । मोक्षस्य साधनं ज्ञानं, तत्साधनत्वेनान्तःकरण- शुद्धिद्वारा तदुत्पत्तौ उपयोगित्वेनेत्यर्थः । अस्य भाव्यमित्यनेन सम्ब- न्धः । सूत्रे जगद्वाचित्वमित्यस्यानुषङ्गमभिप्रेत्याह—अत इति ॥ मुमु

३८४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ४.] धनत्वेन अतस्तद्वक्तीत्यौडुलोमिर्मन्यते ॥ २२ ॥ (१५) सू—ॐ ॥ अवस्थितेरिति काशकृत्स्नः ॥ ॐ ॥ २३ ॥ सर्वे परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति का शकृत्स्नः । (१६) कृष्णद्वैपायनमतादेकदेशमतः परे । क्षुणा ज्ञानसाधनत्वेन कर्मादेरप्यवश्यं सम्पाद्यत्वादित्यर्थः । तत्कर्मा दिकं वक्ति वेदः परमात्मज्ञानार्थमिति वर्तते । अनेन सूत्रे अन्यार्थमि त्यस्यानुवृत्तिः सूचिता । न च कर्मादेः फलश्रुतिविरोधः, तस्याः कर्म णि रुचिजननार्थत्वात् । 'रोचनार्थं फलश्रुतिः' इत्यादेरिति भावः । अनेन—'उत्क्रमिष्यतो' मुमुक्षोः 'एवं' ज्ञानस्येव कर्मादेरप्यन्तःकर णशुद्धिद्वारा मोक्षसाधनभगवज्ज्ञानसाधनत्वेन निमित्ते

[अधि - ५. सू - २३.] दीपिकासहितम्. ३८५ वदन्ति ते यथाप्रज्ञं न विरोधः कथंचन ॥ इति पाद्मे ॥ २३ ॥ —::— ( १ ) स्त्रीशब्दा अपि तस्मिन्नेवेत्याह— व्यासमतमपेक्ष्येति । यद्वा—सप्तम्यर्थे पञ्चमी । तथा च व्यासाभिम- तार्थैकदेशज्ञानिन इत्यर्थः । योजना तु—ये परेऽन्ये जैमिन्याद्याः य- स्मात् 'यथाप्रज्ञं' यथामति कृष्णद्वैपायनमतैकदेशविद एव, न तद- नभिमतार्थविदः । यन्मतानां भगवन्मतत्वमेवेति यावत् । तस्माद्व्यास- शिष्या इति यान्वदन्ति, तेषां कथं च न परस्परं कृष्णद्वैपायनज्ञातार्थैर्वा तात्पर्यांशे वा विरोधो नास्तीति । न चैतेषां भगवन्मतत्वे जैमिन्यादि- ग्रहणवैय्यर्थ्यमिति वाच्यम् । शिष्यप्रसिद्धयर्थत्वात् । कथं चन न वि- रोध इत्यनेन अनेकेषां एकाधिकारित्वं विरुद्धमिति शङ्का निरस्ता । 'विज्ञातं तैर्जगद्धात्र तारतम्यं नृणां वदन्' इत्यनुव्याख्याने, नृणाम- ल्पाधिकारिणामवस्थातारतम्यं वदन्निति सुधायां चोक्तरीत्या जैमिनि- मतस्य वाक्यसमन्वयार्थत्वात् तन्मात्रयोग्यपदसमन्वयायोग्यमन्दा- धिकारिविषयत्वम्, तत्राप्याश्मरथ्यमतस्य वैराग्यसम्पत्तिप्राक्कालीन- स्वर्गार्थित्वावस्थाविशिष्टाधिकारिविषयत्वं, औडुलोमिमतस्य तु ज्ञा- नसम्पत्तिप्राक्कालीनजिज्ञासुत्वावस्थाविशिष्टाधिकारिविषयत्वं, काश- कृत्स्नमतस्य तु ज्ञानसम्पत्त्यवस्थाविशिष्टाधिकारिविषयत्वमिति मता- नामनेकाधिकारिकत्वात् ॥ ५ ॥ इति समाकर्षाधिकरणम् ॥ --::*:- ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे स्त्रीशब्दानां समन्वयः क्रियते । सिद्धान्तय- त्सूत्रमवतारयति—स्त्रीशब्दा इति ॥ न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो ह- रिः । कुतः? तत्र स्त्रीलिङ्गायोगादिति पूर्वपक्षं प्रतिक्षेप्तुं स्त्रीशब्दा अपि तस्मिन् परमात्मन्येव वर्तन्त इति साधयति सूत्रकार इत्यर्थः । स्त्री- शब्दा इति सामान्योक्त्या सौत्रप्रकृतिशब्दोऽन्यस्याप्युपलक्षक इति सूचितम् । तत्तु समन्वयादिति सर्वशब्दानामित्यानुमानिकाधिकरण- वाक्यमत्रापि सम्बध्यते । तथा च तत्तु समन्वयात् इत्यत्र समन्वेत- व्यत्वेनोक्तानां सर्वशब्दानां मध्ये ये कामादितरेत्रेत्यत्रापरममुख्यवृत्त्या ४९

३८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] सू—ॐ ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ ॐ ॥ २४ ॥ (२) 'हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा न द्यस्स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमे वैतानि नामानि सर्वाणि पुरुषमभिविशन्ति' इति प्र श्रीतत्वपरत्वमाश्रित्य तद्विषये भाष्योदाहृतवत्सश्रुतौ 'या प्राणेन सं विशत्यदितिर्देवतामयी' (कठ.२-४-७.) इति काठके, अन्यत्र च श्रुताः स्त्रीलिङ्गशब्दास्तेऽपि तस्मिन्नेव परममुख्यवृत्त्या वाचकत्या सन्तीति योजना । न केवलमानन्दमयेन्द्रवरुणसूर्या यथाकाशप्राणादिपुल्लिङ्गश ब्दाः नापि ब्रह्माक्षरज्योतिरादिनपुंसक शब्दा इत्यपिशब्दार्थः । अनेन सङ्गतिविषयादिकं दर्शितम् । 'तस्मिन्नेव' न प्रकृत्यादावित्यवधारणा न्वयेन न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो हरिः तत्र स्त्रीलिङ्गायोगात्, किन्तु प्रकृत्यादय एवेति सयुक्तिकपूर्वपक्षोऽपि सूचितः । सर्वमिच्छा धीनं यस्याः सा सर्वेच्छा । जडप्रकृतिव्यावर्तनायाविकृतिरिति श्रुत्य क्षरार्थस्तु तृतीये कामाधिकरणटीकायामभिहितः । 'एषा ह्येव' (व त्सश्रुतिः) इति श्रुतेः पाठान्तरम् । अतएव गीताभाष्ये 'एषा ह्येव प्रकृ तिः' इति वाक्यमुदाहृतम् । 'या देवतामयी' देवतोत्तमा 'अदितिः' तच्छब्दवाच्या भगवत्तनुः 'प्राणेन' मुख्यवायुना 'सं' सह 'विशति' तिष्ठति 'एतद्वैतत्' यत्त्वया पृष्टमित्यर्थः । नचिकेतसं प्रति यमवा क्यमेतत् ॥ (२) सूत्रे तदनुकूलप्रतिज्ञादृष्टान्तयोरभिधानादित्यभिप्रेतहेतोरप्रयो जकत्वशङ्कावारणाय विपक्षे हेतूच्छित्तिरूपबाधकोपन्यासाय प्रवृत्तं प्र तिज्ञेत्याद्यंशं क्रमनियमाभावसूचनाय प्रथमं व्याचष्टे-हन्तेति॥ हन्तेत्या स्वादने । 'पुरुषं' पूर्णप्रवृत्तिनिमित्तकं 'इमं' प्रकृतमेव परमात्मानं 'सर्वाणि नामानि' सर्वशब्दाः 'अभि' परममुख्यतो वदन्तीति प्रति ज्ञातार्थः । अत्र दृष्टान्तमाह—यथेति । 'स्यन्दमानाः' स्रवन्त्यः समु द्रः अयनं यासां तास्तथोक्ताः 'समुद्रमभिविशन्ति' तदभिमुख्येन गतास्तं प्रविशन्तीत्यर्थः । उक्तप्रकारं दाष्टान्तिकेऽप्यतिदिशति—एव मेवेति । 'एतानि' प्रमितानि सर्वाणि नामानि 'एवं' नदीवत्स्यन्द मानानि मध्ये स्थिरचरव्यवहारान् घटयन्त्यपि पुरुषैकायतनस्वप्रवृत्ति निमित्तधर्माण्यन्ततस्तमेव 'पुरुषं' परमात्मानं 'अभि' सर्वतोऽभिमु खतो विशन्ति वाचकत्येत्यर्थः । इतीति । एवंरूपयोः प्रतिज्ञादृष्टा

भिध्येति ॥ विशिष्यप्रमाणा-" In L31: "व्ययुक्तिसमुच्चये चशब्दः । सूत्रस्याभिध्यायाः प्रकृतित्वोपदेशात्पर-" मेश्वरत्वोपदेशाच्चेति वृत्तिमाश्रित्यैपदेशपदोक्तप्रमाणमाह—मायामि- Wait, L32: "वृत्तिमाश्रित्यैपदेशपदोक्तप्रमाणमाह—" or "वृत्तिमाश्रित्योपदेशपदोक्तप्रमाणमाह—"? Look at L32: "वृत्तिमाश्रित्योपदेशपदोक्तप्रमाणमाह—" Yes, 'त्यो' (त + य + ओ-matra): "माश्रित्योपदेशपदोक्तप्रमाणमाह—मायामि-"

Everything is extremely clear and verified against the image. Formatting: Prefix each line with , , etc. Maintain exact Devanagari Unicode.[ अधि - ६. सू - २५. ] दीपिकासहितम्. ३८७ तिज्ञादृष्टान्तानुपरोधात्प्रकृतिशब्दवाच्योऽपि स एव ॥२४॥ ( ३ ) सू—ॐ ॥ अभिध्योपदेशाच्च ॥ ॐ ॥ २५ ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । (श्वे.४-१०.) [L

३८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] इति वचनात्तदभिध्यैव प्रकृतिशब्देनोच्यते । ( ४ ) ‘ सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’ इति श्रुतेरभिध्या च स्वरूपमेव । ति । वचनादित्युभयान्वयि । तथा च ‘महेश्वरम्’ इति श्रुतिवचना त् ‘कथ्यते’ इति स्मृतिवचनाच्चेत्यर्थः । सूत्रे प्रकृतिश्चेत्यनुवृत्तिं अभि ध्येति बुद्ध्या विवेकं चशब्दस्यावधारणार्थत्वं चाश्रित्य आहत्य लब्धां प्रतिज्ञां दर्शयति—तदभिध्यैवेति । तस्येश्वरस्याभिध्यैव इच्छैव प्रकृ तिपदेनोच्यते नान्यत् । एवं या प्रकृतिपदेनात्रोच्यते सा तदभिध्यैव नान्येत्यर्थः । ‘प्रकृतिं’ प्रकृतिपदवाच्यम् । तुशब्दौ मायामयिनोरुद्दे श्यत्वरूपविशेषद्योतकौ । तेन या प्रकृतिः सा माया मिथ्येति परव्याख्या निरस्ता । ननु श्रुतौ मायाया एव प्रकृतिशब्दवाच्यत्वं ज्ञायते नेच्छा या इत्यतो—महामायेति पूर्वार्धोदाहरणम् । चशब्दस्समुच्चये । उच्य त इत्यनेनोपचारनिवृत्तिः । श्रुतिस्मृत्योरनुशासनरूपत्वात् । अत एव तयोर्विद्यात्कथ्यते इतिचोक्तिः । हे अनन्त तव इच्छैव महामाये त्यादिशब्दैरुच्यते इत्यर्थः । नियतिः प्रकृतिरित्यत्रापि इतिशब्दोऽन्वेत व्यः । अत एवानैकवारोक्तिः ॥ ( ४ ) ननु इच्छायाः प्रकृतिशब्दवाच्यत्वोक्तावपि कथं परमात्म नस्तत्प्राप्तिरित्यत आह-स इति ॥ ‘सः’ परमात्मा ‘जूतिः’ प्रेरणा ‘सर्व प्रेरकरूपत्वाज्जूरित्यभिधीयते’ इत्यैतरेयभाष्योक्तेः । चशब्दो हेत्व र्थे । तुशब्दार्थो वा । तथा च इतिश्रुतेरभिध्या ब्रह्मस्वरूपमेव न भिन्ने ति ज्ञायते । अतो नोक्तशङ्काऽवकाश इत्यध्याहारेण वाक्ययोजना । अ भिध्या च स्वरूपमेवेत्यनेनाभिध्यायाः स्वरूपत्वोपदेशादित्यपि सूत्रवृ त्तिर्दर्शिता । न च श्रुतौ ब्रह्मण एवाभिध्यादिरूपत्वमुच्यते, नाभिध्य यास्तत्स्वरूपत्वमिति वाच्यम् । समानवित्तिवेद्यतया श्रुतौ व्यतिरेके णान्वयेन वा तस्याप्युक्तप्रायत्वात् । अनेन—अभिध्यायाः प्रकृतित्वो पदेशात्सा प्रकृतिस्तच्छब्दवाच्या । एवं तस्याः पारमेश्वरत्वोपदेशा त्सा तस्यैव । एवं ब्रह्मणोऽभिध्यात्वोपदेशात्सिद्धादभिध्याया ब्रह्मत्वो पदेशादभिध्या त्तु ब्रह्मैव । तथा च न केवलं पूर्वोक्तसामान्यहेतोः, किन्तु प्रकृतिशब्दवाच्येच्छात्मकत्वोक्तेश्च प्रकृतिः ब्रह्मैवेति सूत्रार्थ उ क्तो भवति ॥