भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 430, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 430

[अधि - ५. सू - २२.] दीपिकासहितम्. ३८३

श्मरथ्यः । यस्मादेवमनित्यफलमन्यत्तस्मान्नान्यः प न्था इति ॥ २१ ॥ ( १४ ) सू— ॐ ॥ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ ॐ ॥२२॥ उत्क्रमिष्यतां मुमुक्षोः कर्मादिना भाव्यं साधनसा देवं 'अमृतां वाव सोमपा भवति यावदिन्द्रां यावन्मनुः' इत्याद्युक्त प्रकारेण अन्यत्कर्माद्यनित्यफलं विनाशि दुःखसम्भिन्नफलं तस्मान्न तन्मोक्षसाधनम, मोक्षस्य दुःखासम्भिन्ननित्यसुखरूपत्वात् । यत ए- वमतोऽपरोक्षज्ञानान्नान्यः पन्थाः मोक्षायेति प्रतिज्ञासिद्धेर्लिङ्गत्वेन वे- देन कर्मादिकमुच्यत इति एवंशब्दावृत्त्या योजना । न चानेन न प्रका- रो दर्शित इति वाच्यम् । क्षुद्रफलार्थिनं प्रति तत्तत्फलाय तत्त- त्कर्म विदधतोऽपि कर्मादिवाक्यस्य मुमुक्षुं प्रति कर्मणां क्षुद्रफलकत्वा- त्तद्धानेनाक्षुद्रफलं ज्ञानमेवोपादेयमिति । वैराग्यजनकत्वेन प्रकारेण परमात्मज्ञानार्थत्वमित्युक्तार्थ प्रकारस्य दर्शितत्वात् । अनेन—यस्मा- देवं श्रुत्युक्तप्रकारेण अन्यत्कर्माद्येवमनित्यफलमिति सिद्धम्, तस्मान्न तन्मोक्षसाधनम्, तस्य नित्यपुमर्थरूपत्वात् । यत एवमतो मोक्षस्य ज्ञानान्नान्यः पन्था इत्येवं रूपेण कर्मादिवचनं मुमुक्षुं प्रति वैराग्यजन- नद्वारा नान्यः पन्था इति प्रतिज्ञातार्थसिद्धेर्लिङ्गं हेतुरित्येवं प्रकारेण वेदानां कर्मादिजगद्वाचित्वमित्याश्मरथ्याचार्यो मन्यते इति सूत्रार्थ उक्तो भवति । 'नान्यः पन्थाः' (तै. आ. ३- १३ - १०) इति श्रुतिस्तु जिज्ञासा नये व्याख्याता ॥ ( १४ ) प्रकारान्तरेण कर्मादिवचनस्य भगवज्ज्ञानोपयोगं प्रदर्शय- त्सूत्रमुपन्यस्य व्याचष्टे—उत्क्रमिष्यत इति ॥ कर्तरि षष्ठ्यन्तपदमनू- द्य तस्य तत्त्वप्रदीपरीत्या एष्यदुत्क्रमणस्य तदिच्छादशायां अभावा- त् लक्षणया संसारादुत्क्रमणेच्छोरित्यर्थ इत्यभिप्रायेण मुमुक्षोरित्या- ह । ज्ञानाद्वन्धमोक्षमिच्छत इति तदर्थः । यद्वा—मुमुक्षोरिति विशे- ष्यपदेनाध्याहृतेन संसारादुत्क्रमिष्यत इति विशेषणपदस्य तात्पर्या- र्थमाह । सूत्रे कर्मादेरित्यध्याहाराभिप्रायेण भावादित्येतद्व्याचष्टे— कर्मादिनेति । भाव्यमित्यनन्तरं यत इति शेषः । सौत्रैवंशब्दार्थमाह- साधनसाधनत्वेनेति । मोक्षस्य साधनं ज्ञानं, तत्साधनत्वेनान्तःकरण- शुद्धिद्वारा तदुत्पत्तौ उपयोगित्वेनेत्यर्थः । अस्य भाव्यमित्यनेन सम्ब- न्धः । सूत्रे जगद्वाचित्वमित्यस्यानुषङ्गमभिप्रेत्याह—अत इति ॥ मुमु