पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 429, कुल 1267 में से
संदर्भ में पढ़ें३८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] स्यापि परमात्मना ॥ २० ॥ ( १३ ) सू—ॐ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ ॐ ॥ २१ ॥ ‘नान्यः पन्था अयनाय विद्यते’ ( तै. आ. ३-१३. ) इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यते इत्या ‘अग्निमीळे’ ‘वायवायाहि’ इत्यादिवाक्यस्यापि परमात्मनाऽन्वयो युज्यते, न केवलं पदाक्षरादेः । यदा तु तेषां अग्निवाय्वादिवाचित्वं तदा पृथक्स्थितस्यैव वाक्यस्यापि परमात्मनाऽन्वयो युज्यत इति । अस्मिन् पक्षे अपृथक्पृथगिति भाष्ये पदच्छेदः । तत्त्वप्रदीपरित्या योज नान्तरम्—एवमन्यस्यापि वाक्यत्वाङ्गीकारे यद्यपि पदानामेकैकशो मान्वयः परमात्मना । तथाऽपि वाक्यस्यान्वयो युज्यते । पृथक्पृथ क्स्थितस्यापि स्वं स्वमवान्तरार्थमुक्त्वा स्थितस्य परिपूर्णस्यापि अ