पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 431, कुल 1267 में से
संदर्भ में पढ़ें३८४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ४.] धनत्वेन अतस्तद्वक्तीत्यौडुलोमिर्मन्यते ॥ २२ ॥ (१५) सू—ॐ ॥ अवस्थितेरिति काशकृत्स्नः ॥ ॐ ॥ २३ ॥ सर्वे परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति का शकृत्स्नः । (१६) कृष्णद्वैपायनमतादेकदेशमतः परे । क्षुणा ज्ञानसाधनत्वेन कर्मादेरप्यवश्यं सम्पाद्यत्वादित्यर्थः । तत्कर्मा दिकं वक्ति वेदः परमात्मज्ञानार्थमिति वर्तते । अनेन सूत्रे अन्यार्थमि त्यस्यानुवृत्तिः सूचिता । न च कर्मादेः फलश्रुतिविरोधः, तस्याः कर्म णि रुचिजननार्थत्वात् । 'रोचनार्थं फलश्रुतिः' इत्यादेरिति भावः । अनेन—'उत्क्रमिष्यतो' मुमुक्षोः 'एवं' ज्ञानस्येव कर्मादेरप्यन्तःकर णशुद्धिद्वारा मोक्षसाधनभगवज्ज्ञानसाधनत्वेन निमित्ते