भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 432, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 432

[अधि - ५. सू - २३.] दीपिकासहितम्. ३८५ वदन्ति ते यथाप्रज्ञं न विरोधः कथंचन ॥ इति पाद्मे ॥ २३ ॥ —::— ( १ ) स्त्रीशब्दा अपि तस्मिन्नेवेत्याह— व्यासमतमपेक्ष्येति । यद्वा—सप्तम्यर्थे पञ्चमी । तथा च व्यासाभिम- तार्थैकदेशज्ञानिन इत्यर्थः । योजना तु—ये परेऽन्ये जैमिन्याद्याः य- स्मात् 'यथाप्रज्ञं' यथामति कृष्णद्वैपायनमतैकदेशविद एव, न तद- नभिमतार्थविदः । यन्मतानां भगवन्मतत्वमेवेति यावत् । तस्माद्व्यास- शिष्या इति यान्वदन्ति, तेषां कथं च न परस्परं कृष्णद्वैपायनज्ञातार्थैर्वा तात्पर्यांशे वा विरोधो नास्तीति । न चैतेषां भगवन्मतत्वे जैमिन्यादि- ग्रहणवैय्यर्थ्यमिति वाच्यम् । शिष्यप्रसिद्धयर्थत्वात् । कथं चन न वि- रोध इत्यनेन अनेकेषां एकाधिकारित्वं विरुद्धमिति शङ्का निरस्ता । 'विज्ञातं तैर्जगद्धात्र तारतम्यं नृणां वदन्' इत्यनुव्याख्याने, नृणाम- ल्पाधिकारिणामवस्थातारतम्यं वदन्निति सुधायां चोक्तरीत्या जैमिनि- मतस्य वाक्यसमन्वयार्थत्वात् तन्मात्रयोग्यपदसमन्वयायोग्यमन्दा- धिकारिविषयत्वम्, तत्राप्याश्मरथ्यमतस्य वैराग्यसम्पत्तिप्राक्कालीन- स्वर्गार्थित्वावस्थाविशिष्टाधिकारिविषयत्वं, औडुलोमिमतस्य तु ज्ञा- नसम्पत्तिप्राक्कालीनजिज्ञासुत्वावस्थाविशिष्टाधिकारिविषयत्वं, काश- कृत्स्नमतस्य तु ज्ञानसम्पत्त्यवस्थाविशिष्टाधिकारिविषयत्वमिति मता- नामनेकाधिकारिकत्वात् ॥ ५ ॥ इति समाकर्षाधिकरणम् ॥ --::*:- ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे स्त्रीशब्दानां समन्वयः क्रियते । सिद्धान्तय- त्सूत्रमवतारयति—स्त्रीशब्दा इति ॥ न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो ह- रिः । कुतः? तत्र स्त्रीलिङ्गायोगादिति पूर्वपक्षं प्रतिक्षेप्तुं स्त्रीशब्दा अपि तस्मिन् परमात्मन्येव वर्तन्त इति साधयति सूत्रकार इत्यर्थः । स्त्री- शब्दा इति सामान्योक्त्या सौत्रप्रकृतिशब्दोऽन्यस्याप्युपलक्षक इति सूचितम् । तत्तु समन्वयादिति सर्वशब्दानामित्यानुमानिकाधिकरण- वाक्यमत्रापि सम्बध्यते । तथा च तत्तु समन्वयात् इत्यत्र समन्वेत- व्यत्वेनोक्तानां सर्वशब्दानां मध्ये ये कामादितरेत्रेत्यत्रापरममुख्यवृत्त्या ४९