पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 433, कुल 1267 में से
संदर्भ में पढ़ें३८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] सू—ॐ ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ ॐ ॥ २४ ॥ (२) 'हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा न द्यस्स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमे वैतानि नामानि सर्वाणि पुरुषमभिविशन्ति' इति प्र श्रीतत्वपरत्वमाश्रित्य तद्विषये भाष्योदाहृतवत्सश्रुतौ 'या प्राणेन सं विशत्यदितिर्देवतामयी' (कठ.२-४-७.) इति काठके, अन्यत्र च श्रुताः स्त्रीलिङ्गशब्दास्तेऽपि तस्मिन्नेव परममुख्यवृत्त्या वाचकत्या सन्तीति योजना । न केवलमानन्दमयेन्द्रवरुणसूर्या यथाकाशप्राणादिपुल्लिङ्गश ब्दाः नापि ब्रह्माक्षरज्योतिरादिनपुंसक शब्दा इत्यपिशब्दार्थः । अनेन सङ्गतिविषयादिकं दर्शितम् । 'तस्मिन्नेव' न प्रकृत्यादावित्यवधारणा न्वयेन न प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यो हरिः तत्र स्त्रीलिङ्गायोगात्, किन्तु प्रकृत्यादय एवेति सयुक्तिकपूर्वपक्षोऽपि सूचितः । सर्वमिच्छा धीनं यस्याः सा सर्वेच्छा । जडप्रकृतिव्यावर्तनायाविकृतिरिति श्रुत्य क्षरार्थस्तु तृतीये कामाधिकरणटीकायामभिहितः । 'एषा ह्येव' (व त्सश्रुतिः) इति श्रुतेः पाठान्तरम् । अतएव गीताभाष्ये 'एषा ह्येव प्रकृ तिः' इति वाक्यमुदाहृतम् । 'या देवतामयी' देवतोत्तमा 'अदितिः' तच्छब्दवाच्या भगवत्तनुः 'प्राणेन' मुख्यवायुना 'सं' सह 'विशति' तिष्ठति 'एतद्वैतत्' यत्त्वया पृष्टमित्यर्थः । नचिकेतसं प्रति यमवा क्यमेतत् ॥ (२) सूत्रे तदनुकूलप्रतिज्ञादृष्टान्तयोरभिधानादित्यभिप्रेतहेतोरप्रयो जकत्वशङ्कावारणाय विपक्षे हेतूच्छित्तिरूपबाधकोपन्यासाय प्रवृत्तं प्र तिज्ञेत्याद्यंशं क्रमनियमाभावसूचनाय प्रथमं व्याचष्टे-हन्तेति॥ हन्तेत्या स्वादने । 'पुरुषं' पूर्णप्रवृत्तिनिमित्तकं 'इमं' प्रकृतमेव परमात्मानं 'सर्वाणि नामानि' सर्वशब्दाः 'अभि' परममुख्यतो वदन्तीति प्रति ज्ञातार्थः । अत्र दृष्टान्तमाह—यथेति । 'स्यन्दमानाः' स्रवन्त्यः समु द्रः अयनं यासां तास्तथोक्ताः 'समुद्रमभिविशन्ति' तदभिमुख्येन गतास्तं प्रविशन्तीत्यर्थः । उक्तप्रकारं दाष्टान्तिकेऽप्यतिदिशति—एव मेवेति । 'एतानि' प्रमितानि सर्वाणि नामानि 'एवं' नदीवत्स्यन्द मानानि मध्ये स्थिरचरव्यवहारान् घटयन्त्यपि पुरुषैकायतनस्वप्रवृत्ति निमित्तधर्माण्यन्ततस्तमेव 'पुरुषं' परमात्मानं 'अभि' सर्वतोऽभिमु खतो विशन्ति वाचकत्येत्यर्थः । इतीति । एवंरूपयोः प्रतिज्ञादृष्टा