पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 418, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ५. सू - १६.] दीपिकासहितम्. ३७१
५-७-१२.) इत्यादिना आकाशादिसूक्तेः ॥ १५ ॥ —* ❂ — ५. अधिकरणम् ॥ ( १ ) सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इति । अतो ब्रवीति— सू—ॐ ॥ समाकर्षात् ॥ ॐ ॥ १६ ॥ अर्थस्तु—न केवलं मूलकारणवाचकात्मशब्देनैव, किन्तु 'कारणत्वे न च' अवान्तरकारणत्वेनेति यावत् । तेन रूपेण सम्भूतशब्दसमाना धिकृतैस्तच्छब्दैराकाशादिशब्दैरपि स विष्णुरेव उच्यते, न भूतादी नि । कुतः ? 'उक्तेः' 'नामानि' इत्यादिश्रुतेरेव । न च कार्यकारण भावविरोधः । यत आकाशादिषु अवान्तरकारणत्वेन स एव स्थितः, आकाशाद्युत्पत्तौ तस्थितस्य भगवतोप्यभिव्यक्तिरूपोत्पत्त्यवश्यंभावा त् कार्यत्वस्य पूर्वस्या उत्तराभिव्यक्तिहेतुत्वेन कारणत्वस्य चोपपन्न त्वादिति भावः । न चाकाशादिगतत्वासिद्धिः । 'यः' इति श्रुतौ आ काशादिषु तस्य परस्योक्तत्वात् । न च तत्रापि विष्णुः कुत इति वा च्यम् । 'यथाव्यपदिष्टोक्तेः' 'स योऽतः' (ऐ-आ.३-२-४.) इत्यादिषु त्यन्तरे विष्णुः यथा येन प्रकारेण 'व्यपदिष्टः' अभिहितः तेनैवाविदि तत्वादिना प्रकारेणोपेतस्य तस्येहाकाशादिषु 'यमाकाशो न वेद' इत्यादिनोक्तेरिति ॥ ४ ॥ ॥ इति आकाशाधिकरणम् ॥ —-:-*-— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णौ प्रकारान्तरेण पूर्वोक्तसर्वशब्दसमन्व यासम्भवमाशङ्क्य परिह्रियते । यद्यपीदं सूत्राष्टकं पूर्वाधिकरणशेषत या व्याख्यातुं युक्तम्, तत्त्वप्रदीपे तथा व्याख्यानात्, भाष्येऽपि पृथ क्समन्वेतव्यशब्दान्तरानुक्तेश्च । तथाऽप्यस्य पृथङ्न्यायसूचकत्वेन टीकायामधिकरणान्तरत्वेनैव तद्व्याख्यातम् । अतएव पूर्वतन्त्रे 'हेतु दर्शनाच्च' (पू. मी. १-३-४.) इति सूत्रं विरोधाधिकरणशेषभूतम पि पृथङ्न्यायसूचकत्वादधिकरणान्तरत्वेनापि व्याख्यातम् । श्रुत्यादिस ङ्गतिप्रदर्शनाय सूत्रमवतारयति—सर्वेति ॥ 'तन्तु समन्वयात्' इत्यु