भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 426, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 426

[ अधि - ५. सू - १९. ] दीपिकासहितम्. ३७९ ( ११ ) एवमपि चैके पठन्ति 'यस्तन्न वेद किमृचा करिष्य ति' ( ऋ. १-१६४-३९. ) इति ॥ १९ ॥ ( ११ ) अपि च न केवलमर्थात्साक्षात्प्रश्नव्याख्यानरूपात् लिङ्गादेवम न्यज्ञानस्य परमात्मज्ञानार्थत्वसिद्धिः, किन्तु स्पष्टं मुखतोऽप्येवमेके ऋग्यजुश्शाखिनः पठन्तीति प्रतिपादयन्तं 'अपि चैवमेके' इति सू त्रखण्डं व्याचष्टे—एवमिति । अपीति निपातः साधकान्तरसमुच्चये अन्यज्ञानस्य परमात्मज्ञानार्थत्वप्रकारस्य अव्यवहितप्रकृतस्यैवंशब्देन परामर्श इति सूचनार्थ सूत्रापेक्षया व्यत्यासेनानुवादः कृतः । पठन्ती ति शेषोक्तिः । तथा च न केवलमर्थादेव सिद्धयति, किन्तु 'अपि' मु खतोऽप्येवमेके शाखिनः पठन्तीत्यर्थः । चशब्दोऽन्यसमुच्चायकः । उ क्तं हि तत्त्वप्रदीपे—चकारादेतदुपसंहर्तव्यम् । एतदर्थं सृष्ट्यादिकम प्यधीयते 'सप्तार्धगर्भाः' (ऋ.१-१६४-३६.) इत्यादीति । 'एतदर्थं' अन्यज्ञानस्य परमात्मज्ञानार्थत्वोपपादकप्राधान्यज्ञानार्थमित्यर्थः । के चित्तु अपि चेति टीकानुसारात्सूत्रभाष्ययोरपि चेत्यखण्डो निपात इत्याहुः । कासावेकैः पठिता श्रुतिरित्त्यतस्तामुदा

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 426, कुल 1267 में से · BharatKosha