भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 427, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 427

३८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( १२ ) सू—ॐ ॥ वाक्यान्वयात् ॥ ॐ ॥ २० ॥ वा ‘अधिनिवेशुः’ तदाधारा वर्तन्ते । एवं व्यतिरेकं सहेतुकमुक्त्वाऽ न्वयमाह-य इति । इत् एवमित्येव पुनरेवमुक्तप्रकारेण ‘तत्’ अक्षरं ‘विदुः’ जानन्ति ‘त इमे’ प्रकृता देवाः ‘समासते’ सम्यगासते सङ्क ल्पमात्रसिद्धयथेष्टभोगाः सन्तः परमात्मानं प्रविशन्तीत्यर्थः । सूत्रे तु शब्दोऽप्यर्थः । जगद्वाचित्वमिति समाकर्षादिति चानुवर्तते । शब्दा नामिति शेषः । तथा च वैदिकशब्दानां न केवलं परमात्मवाचित्वं, अपि तु जगद्वाचित्वमपि । न च तेन मुमुक्षोः प्रयोजनाभावः । यतः समाकर्षेण वेदानां कर्मादिजगद्वाचित्वं तज्ज्ञानद्वाराऽन्यार्थं परमात्म ज्ञानार्थं भवतीति जैमिनिराचार्यो मन्यते। न