पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 425, कुल 1267 में से
संदर्भ में पढ़ेंन्तस्तु यथाऽनेकमृन्मयज्ञानं तत्कारणत्वेन मृत्पिण्डस्य ज्ञानार्थं चेत्स फलम् । कुतः? एतावता मृत्पिण्डेन एतावन्मृन्मयं भवतीति विशेष ज्ञानात् अपेक्षितमृन्मयसम्पादनसम्भवात् , न तु स्वरूपेण । एवं कर्म देवतादिविज्ञानमपि तदाश्रयत्वतत्कारणत्वतन्नियन्तृत्वादिप्रकारैर्भगव ज्ञानार्थं चेत्सफलम्, नान्यथेत्यभिप्रायेणेत्यनेनोक्तः । तथा मुमुक्षुणा भगवत्सृष्टमेवैतत्कर्मादीत्यादिरूपेणैव ज्ञातव्यमिति विष्णुतत्त्वनिर्णयटी कायां चोक्तः। अत्र यद्यपि सत्तर्कदीपावल्यां तत्त्वप्रदीपे च आदिश्यत इत्यादेशः परमात्मेति व्युत्पत्तिमाश्रित्य 'कथं नु भगवः स आदेशो भ वति' (छां.६-१-४.) इति प्रश्नेऽपि 'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति' इति प्राधान्येनोक्त आदेशस्तच्छब्देन परामृश्यत इत्युक्त्वा सर्वान् वेदानधीतवानेव केवलं, न त्वादेशं तन्मुख्यादेशं सकलक ल्याणगुणाकरं तं पृष्टवान् प्रायो यतः स्तब्धोऽसि । यस्मिन् श्रुते मते ज्ञाते विज्ञातेऽन्यदश्रुतममतमविज्ञातमपि तदधीनत्वेन श्रुतं मतं विज्ञा- तं ह्रियमाणमतिनीचत्वेन विज्ञायमानं त्वदादिकं तमित्युक्तः श्वेतके- तुः पितरं पृच्छति-कथं न्विति । इत्यवतार्य कर्मादिषु वेदैरेकदेशै रुच्यमानेषु आसमन्तातस एव सर्ववेदादेश्यो भवतीति कथं केन प्र- कारेण जानीयामिति श्रुत्यर्थोक्तेः, तथा 'प्रायो नारायणं देवं नैव त्वं पृष्टवानसि' इति गीतातत्पर्योदाहृतश्रुत