पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 421, कुल 1267 में से
संदर्भ में पढ़ें३७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तदधीनत्वात्तच्छब्दवाच्यत्वमित्युक्तं तज्जीवमुख्यप्रा णयोर्लिङ्गम् । ‘अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति’ (छां. ६-११-२.) ‘वायुना हि सर्वे लोका नेनीयन्ते’ इत्यादिश्रुतिभ्य इति चेत्— (७) न, उपासात्रैविध्यादिति व्याख्यातत्वात् ॥ १८ ॥ स्याक्षेपांशं तावद्व्याचष्टे-जीवेति ॥ सर्वेषामित्यनुवर्तते । तच्छब्दवाच्य त्वमित्यावर्तते । तत् लिङ्गमित्यन्वयः । जीवमुख्यप्राणयोरिति षष्ठीस प्तम्यौ तन्त्रेणोपात्ते । आदिशब्देन ‘वायुना वै गौतम सूत्रेण प्रबद्धः’ (बृ.५-७-२.) इत्यादिकं गृह्यते । तथा च सर्वेषां ‘तदधीनत्वात्’ परमा त्माधीनत्वात्तस्यैव मुख्यतस्तच्छब्दवाच्यत्वमिति‘तदधीनत्वात्’इति सू त्रे विष्णोर्व्यक्तादिशब्दवाच्यत्वे यत्सर्वस्य तदधीनत्वाख्यं निमित्तमु क्तम्, ‘तल्लिङ्गं’ तन्निमित्तं यतो जीवमुख्यप्राणयोरस्ति, अतो जीवमुख्य प्राणयोरपि मुख्यतस्तच्छब्दवाच्यत्वं स्यात् । न च तयोस्तस्यासिद्धिः। यतः ‘अस्य’ इत्यादिश्रुतिभ्यो जीवमुख्यप्राणयोस्तल्लिङ्गमवगम्यतेऽ त इति योजना । ‘जीवः’ अनिरुद्धाख्यः परमात्मा ‘अस्य’ जीववृक्ष स्य यदैकां शाखां ‘जहाति’ त्यजति । ‘अथ’ तदा ‘सा’ शाखा शु ष्यतीति छान्दोग्यश्रुत्यर्थः । ‘वायुना’ मुख्यप्राणेन ‘सर्वे लोकाः’ ज नाः ‘नेनीयन्ते’ स्वस्वकर्मसु भृशं अतिशयेन प्रेर्यन्ते । ऊर्ध्वं लोकं वा भृशं नीयन्ते इति श्रुत्यन्तरस्यार्थः । पूर्वपक्षी त्वाद्या श्रुतिः पृथि व्याद्यभिमानिजीवपरा । द्वितीया तु मुख्यप्राणपरेत्याह । आदिशब्दो पात्तश्रुत्यपेक्षया बहुवचनम् ॥ (७) नञोऽध्याहारेण परिहारांशं व्याख्याति—नेति ॥ नोक्तलि ङ्गेन तयोर्मुख्यतस्तच्छब्दवाच्यत्वं कल्प्यमित्यर्थः । कुतो नेत्यतस्तत्र हेतुतया यतस्तदुक्तमित्येतद्व्याचष्टे—उपासेति । इतीति त्रिवारो क्त्या सूत्रे इतिशब्द आवर्तनीय इति सूचितम् । अत एव टीकायां ‘यद्यत्’ इति गीतास्मृतिग्राहकत्वेनाऽपीति शब्दो योजितः। विपरिण तं ‘इत्यादि’ इत्येतदत्रापि संयोज्यम् । तथा च ‘उपासात्रैविध्यात्’ इत्यनेन सूत्रखण्डेनान्यलिङ्गाभिधायकत्वेन प्रतीयमानानामित्यादिश्रु तीनां तदन्तर्यामिभगवत्सम्बन्धितया व्याख्यातत्वादित्यर्थः । यद्वा- नेत्येतदपि पूर्वसूत्रान्तर्गतमेव, न त्वध्याहृतम् । तथात्वेऽस्येति शेषः । तथा च ‘नोपासा त्रैविध्यात्’ इत्यनेन ‘अस्य’ चोद्यस्य सहेतुकं प्र