पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 420, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - १८. ] दीपिकासहितम्. ३७३ ( ४ ) तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः— ( ५ ) सू—ॐ ॥ जगद्वाचित्वात् ॥ ॐ ॥ १७ ॥ जगति व्यवहारो लोकस्य न तु परमात्मनि तथा, अ तो जगति प्रसिद्धिः शब्दानाम् ॥ १७ ॥ ( ६ ) सू—ॐ ॥ जीवमुख्यप्राणलिङ्गादिति चेन्नह्याख्या तम् ॥ ॐ ॥ १८ ॥ 'व्यवह्रियन्ते' केवलरूढत्वेन अङ्गीक्रियन्त इति स्मृत्यर्थः । पाठ्य इ त्यनन्तरं उक्तत्वादिति शेषः । अस्योभयत्र नान्योन्यनिरपेक्षैव शब्दवृ त्तिरियवतारिकालब्धसाध्येनान्वयः ॥ ( ४ ) शङ्कते—तर्हीति ॥ परमात्मवाचिन इत्याद्यत्रापि सम्बध्य ते । तदीति लभ्यते । तथा च यदि मुख्यतः परमात्मवाचिनः शब्दाः ततोऽन्यत्र समाकृष्य प्रयुज्यन्ते, तर्हि तेषां मुख्यार्थे परमात्मन्येव वाच कत्वप्रसिद्धिस्यात् । तथा च तेषां शब्दानां कथममुख्यार्थे जगति वाचकत्वप्रसिद्धिः स्यात् । न कथमपीत्यर्थः । तथा च प्रसिद्ध्यन्यथाऽ नुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यमिति भावः । प्रसिद्धिरित्यन न्तरं 'स्यादित्यत आह' इति शेषः ॥ ( ५ ) एतच्छङ्कापरिहारत्वेन सूत्रं पठित्वा व्याचष्टे—जगदिति ॥ व्यवहारपदं शब्दप्रयोगस्य करणव्युत्पत्त्या शब्दशक्तिग्रहस्य च वाच कम् । अनेन जगद्वाचित्वादित्यस्य आवृत्तिस्सूचिता । तुशब्दोऽवधार णे । तथाशब्द उपमायाम् । अत इत्युक्तेर्यत इति लभ्यते । जगति प्र सिद्धिरिति शेषोक्त्या साध्यं सूचितम् । जगद्वाचित्वमित्यर्थान्त रं चैतत् । तथा च यतो बालानां चित्रलिखितसिंहादाविव 'लोक स्य' लोकानामनवगतमुख्यार्थानां जनानां जगति व्यवहारो बहुलश्श ब्दप्रयोगोऽस्ति न तथा परमात्मनि । अतो 'जगद्वाचित्वं' जगत्येव व्यवहारः व्युत्पत्तिः न परमात्मनि । यत एवमतः शब्दानां 'जगद्वा चित्त्वं' जगति वाचकत्वप्रसिद्धिः जगद्वाचित्वव्यवहारो युज्यते इति योजना । अनेन—यतो 'जगद्वाचित्वात्' जगति लोकस्य व्यवहारा त् 'जगद्वाचित्वात्' जगद्वाचित्वज्ञानात् 'जगद्वाचित्वं' जगति प्रसि द्धिः शब्दानां युज्यते । अतो न सिद्धान्ते तद्विरोध इति सूत्रयोजना दर्शिता ॥ ( ६ ) विष्णोरेव मुख्यतः शब्दार्थत्वमाक्षिप्य समादधत्सूत्रमुपन्य