पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 436, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ६. सू - २६. ] दीपिकासहितम्. ३८९ ( ५ ) ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च । परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते ॥ इति ब्रह्माण्डे ॥ २५ ॥ ( ६ ) सू—ॐ ॥ साक्षाच्चोभयाम्नानात् ॥ ॐ ॥ २६ ॥ ‘ एष ह्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक एष आलोको योऽसौ हरिरनादिरनन्तोऽन्तः प ( ५ ) ननु नेच्छा भगवत्स्वरूपं, मायिनमितीनिप्रत्ययेन तवेति ष ष्ठ्या च भेदसाधक सम्बन्धोक्तेरित्यत आह-ध्यायतीति ॥ चः समुच्चये ऽवधारणे च । अतीवेति निपातसमुदायः । तथा च ध्यानरूपोऽपि भग वान् ध्यायतीति ध्यानकर्तृतयोच्यते । एवं ‘असौ’ हरिः ‘अतीव’ अत्यन्तं सुखरूप एव ‘स आनन्दः’ इति श्रुतौ सुखस्वरूपत्वेनोक्त एव सुखीत्युच्यते श्रुतिस्मृतिष्वित्यर्थः । अनेन भेदाभेदः कदाचि द्दुःखस्वरूपत्वं वा निरस्तम् । चशब्देन सोऽभिधीयेत मायारूपत्वेनो क्तो मायिनमित्यादौ मायीत्युच्यते इति प्रकृतं समुच्चिनोति । न चैतद् त्र विरुद्धं, ऐश्वर्ययोगादित्याह—परमेति । योगः उपायः । ‘विरुद्धार्थ तया’ विरुद्धधर्मोपेततया एकस्मिन् ब्रह्मणि विरुद्धत्वेन प्रतीतसुख त्वसुखित्वाद्यर्थप्रत्यायकशब्दवाच्यतयेति यावत् । ‘इष्यते’ प्रामाणि कैरित्यर्थः । ब्रह्माण्डपुराणे इत्यस्य उक्तत्वान्न विरोध इत्यध्याहृतवा क्येनान्वयः ॥ ( ६ ) ननूक्तप्रमाणैः सामान्येनेच्छाद्वारा वा प्रकृतिशब्दवाच्यत्व प्राप्तावपि न साक्षादीश्वरस्य तद्वाच्यत्वप्राप्तिरित्याशङ्कां विशेषप्रमा णोक्त्या परिहरत्सूत्रमुपन्यस्य व्याचष्टे—साक्षादिति ॥ साधारण्येन विना इच्छाद्वारमन्तरेण चेत्यर्थः । एवशब्देन सौत्रचशब्दोऽवधारणा र्थतया व्याख्यातः । ‘प्रकृतिपुरुषत्वाम्नानात्’ स्त्रीपुल्लिङ्गशब्दवाच्य त्वाभिधानात् । तस्येति विपरिणामेनान्वयः । अनेनोभयशब्दो व्याकृ तः । यद्यपि प्रकृतित्वाम्नानादित्येव वाच्यम्, न तूभयेति । पुरुषत्वे विवादाभावात् । तथाऽपि आद्यसूत्रे चशब्देन तस्य समुच्चितत्वादेव मुक्तम् । आम्नानादित्यस्य प्रकृतिः स एवेति प्रधानसाध्येनान्वयः । ‘एषः’ परमात्मा सततं रमणात् स्त्रीशब्दवाच्यः । यथोक्तं तत्त्वप्रदी पे सततं रमणात् स्त्रीति । ‘एवमेव पुरुषः ’ आत्मा तच्छब्दवाच्यः । ‘एष प्रकृतिः’ तच्छब्दवाच्यः । सूत्रे साक्षादित्युक्तासाधारण्यज्ञापना