भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 437, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 437

३९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] रमः पराद्विश्वरूपः' इति पैङ्गिश्रुतौ साक्षादेव प्रकृति पुरुषत्वाम्नानात् ॥ २६ ॥ ( ७ ) सू—ॐ ॥ आत्मकृतेः परिणामात् ॥ ॐ ॥ २७ ॥ यैव प्रकृतिरिति विशिष्योदाहरणम् । 'एष ब्रह्म' स्त्रीपुंदोषराहित्या त्तदुपलक्षिताशेषनपुंसकशब्दवाच्यः । श्रुतावात्मा पुरुष इति स्त्रीप्रकृ तिरिति शब्दद्वयोपादानमशेषस्त्रीपुल्लिङ्गशब्दसङ्ग्रहार्थः । हरेः विरुद्धा नेकशब्दवाच्यत्वे निमित्तमाह—लोक इत्यादिना । 'लोकः' आधा रः । प्रकृत्यादेरिति शेषः । 'आलोकः' प्रकाशरूपः । एष क इत्यपेक्षा यां आह—योऽसौ हरिरिति । 'आदिः' कारणं जगज्जन्मादेरिति शे षः । ख्यादौ विश्वस्मिन् रूपाण्यस्य ख्यादिविश्वस्य रूपमिव रूपम स्येति वा विश्वरूपः । अनेन हरेस्तत्तच्छब्दवाच्यत्वे सामान्यतस्तत्तदा धारत्वतत्तत्स्थितवत्तत्तत्प्रकाशकत्वतत्तत्कारणत्वतत्तदाकारत्वत्त न्नियामकत्वादीनि निमित्तानि, रूपबाहुल्याच्च विरुद्धानेकशब्दवाच्य त्वोपपत्तिरित्युक्तं भवति । तर्ह्याधारभूतवस्तूत्पत्तिनाशाभ्यां अस्याप्यु त्पत्तिनाशौ स्यातामित्यत आह—अनादिरित्यादि । अनाद्यनन्तपदा भ्यामुत्पत्तिनाशराहित्यमुच्यते । अत्र हेतुः—परात् । प्रकृत्यादेः परम् इति । 'अन्तः' अन्तकः । यद्वा—प्रकृत्यादेरन्तस्स्थित इत्यर्थः । यद्वा- स्त्रीपुरुषपदयोः प्रकृत्यात्मपदयोर्लोकालोकपदयोराद्यनादिपदयोरन न्तान्तपदयोस्त्रीपुरुषजडचेतनज्ञानाज्ञानरूपत्वोत्पत्त्यनुत्पत्ति नाशा नाशरूपविरुद्धार्थयोरपि हरिरेव वाच्यः । अत एव ब्रह्मेति श्रुत्यर्थः । सूत्रार्थस्तु—साक्षाच्चाद्यसूत्रोक्तं सामान्यरूपं द्वितीयसूत्रोक्तं प्रकृति शब्दवाच्येच्छात्मकत्वरूपं वा द्वारमनपेक्ष्य साक्षादेवोभयस्य प्रकृत्या दिस्त्रीशब्दवाच्यत्वस्य पुरुषादिपुल्लिङ्गवाच्यत्वस्य चाम्नानात् 'एषः' इति श्रुतावुक्तत्वात्प्रकृतिश्च स एवेति नेश्वरस्य प्रकृत्यादिशब्दवाच्य त्वाभावः शङ्क्य इति ॥ ( ७ ) नन्वेवं स्त्रीशब्दवाच्यत्वोपलक्षकप्रकृतिशब्दवाच्यत्वस्य ह रेः श्रुत्युक्तत्वेऽपि कथं तद्युज्यते, तत्र तस्य प्रवृत्तौ निमित्ताभावात् । न हि सङ्केतमात्रं सिद्धान्तिभिरभ्युपगत इत्याशङ्कां परिहरत्सूत्रं पठि त्वा तत्फलितं तावदाह—आत्मेति ॥ प्रकर्षेण करोतीति प्रकृतिरिति 'योगात्' महायोगान्निरतिशयप्रवृत्तिनिमित्तवत्त्वाच्च प्रकृतिस्स विष्णु