पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 438, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - २७. ] दीपिकासहितम्. ३९१ प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च । (८) प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामनियामक तया तत्र स्थित्वा आत्मनो बहुधा करणात् । (९) 'अथ हैष आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा च कार तस्मात्प्रकृतिस्तस्मात्प्रकृतिरित्याचक्षते' इति भाल्लवेयश्रुतिः । रित्यर्थः । न केवलं श्रुतावाम्नानाद्बहुलप्रयोगाख्यरूडिमात्रादिति चश ब्दार्थः । यद्वा—योगस्यैव भावान्न विष्णोः प्रकृतिशब्दवाच्यत्वे निमि त्ताभाव इत्यवधारणार्थश्चकारः । यद्यपि प्रकृष्टा कृतिर्यस्येत्येव विग्रहः प्रदर्शनीयो न प्रकर्षेण करोतीति । तथात्वे प्रकर्तेति वा प्रकृदिति वा प्रकारुरिति वा वृत्तिस्स्यात् । तथा करणविषय एव प्रकृष्टत्वान्वयः स्यात्, न तु कृतौ । अत एव टीकायां प्रकृष्टा कृतिः यस्येत्येव विग्रहः प्रदर्शितः । तथाऽपि तस्यैव फलितोक्तिरित्यदोषः । अत्र प्रकर्षेण क रोतीति विग्रहे प्रकृतिरिति वृत्तिवाक्यं प्रदर्शितम्, न तूद्देश्यार्पकं त त, तस्य प्रकृतिश्चेत्यनेनैव प्राप्तेः ॥ (८) एवं फलितार्थमभिधाय कथं प्रकृष्टेश्वरस्य कृतिरित्यतः सू त्रं व्याचष्टे—प्रकृताविति ॥ अनेन परिणामकत्वोपयुक्तं तत्पूर्वभावि व्यापारमाह । अनुप्रविश्येति । 'अनु' अनुकूलतया 'तां' प्रकृतिं परिणा म्येति । अनेन सूत्रे परिणामादिति ल्यब्लोपनिमित्ता पञ्चमी । परिणा म्याऽप्रकृतेरित्यन्वयः। ल्यपा च परिणामस्यात्मककरणात्पूर्वभावित्वोच्य ते इत्युक्तं भवति । तथाचेत्थं योजना—प्रकृतेस्स्वतः परिणामासाम र्थ्यात्तत्परिणामानुकूलतया प्रकृतौ प्रविश्य तां 'परिणाम्य' स्वय मविकार एव तस्यां महदादिरूपेण विकारं विधाय अथ तत्परिणाम कत्वेन प्रकृतिपरिणाममहदादिप्रेरकत्वेन 'तत्र' तत्परिणामेषु महदा दिषु 'स्थित्वा' स्थित्यर्थमिति यावत् । 'आत्मनः' स्वस्य रूपेण 'ब हुधाकरणात्' व्यक्तीकरणात् भवतीश्वरकृतिः प्रकृष्टा । अतः प्रकर्षे ण करोतीति योगाच्च प्रकृतिर्विष्णुरिति । अनेन प्रधानस्य स्वस्य च बहुधाकरणमेव प्रकृष्टकरणमिति प्रकृतिशब्दनिमित्तं प्रदर्शितं भवति ॥ (९) अनाश्वासपरिहाराय स्वोक्तसूत्रार्थे श्रुतिस्मृती चाह—अ थेति ॥ प्रमेयान्तरारम्भार्थोऽथशब्दः । हिशब्दः प्रमाणप्रसिद्धौ । तथा चैष परमात्मा यस्मात्प्रकृतेः स्वतःपरिणामासामर्थ्यात्परिणामानुकू