भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 439, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 439

३९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] (१०) अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् । अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते ॥ इति नारदीये । (११) न चान्यत्कल्प्यम्, अप्रामाणिकत्वात् ॥ २७ ॥ (१२) सू-ॐ ॥ योनिश्च हिं गीयते ॥ ॐ ॥ २८ ॥ लतया प्रकृतिं प्रविश्य तां परिणाम्य तत्परिणामप्रेरकत्वेन तत्र स्थि- त्यर्थमात्मानं रूपेण बहुधा चकार । तस्माद्बहुधाकरणात् ‘प्रकृतिः’ त- च्छब्दवाच्यः । ‘तस्मात्’ प्रकृतिवाच्यत्वादेनं प्रकृतिरित्याचक्षते ज्ञा- निनः इति श्रुत्यर्थः । श्रुतिरित्त्यनन्तरमुक्तार्थे प्रमाणमिति शेषः ॥ (१०) स्मृतौ यद्यपितथापीत्यर्थेऽपिः । तुशब्दो विशेषार्थः । ‘अ- नु’ अनुकूलतया आत्मानं बहुधा चकारंति शेषः । तथा च यद्यपि गोविन्दः ‘परमोऽविकारः’ अत्यन्तं निर्विकारो, मायायाः प्रकृतेः पर इ- ति वा । तथाऽपि ‘चां’ यतः विकारानुकूलतयोपचयाख्यविकारयुक्तां ‘प्रकृतिं’ प्रधानं प्रविश्य तां परिणाम्य तत्परिणाममहदादिप्रेरकत्वेन तत्र स्थित्यर्थमात्मानमपि बहुधा चकार । अतः प्रकृतिस्तच्छब्दवा- च्यः । यत एवमतोऽयं कविभिः प्रकृतिरित्त्यभिधीयते इति स्मृत्यर्थः । न केवलं पुरुष इति वा चशब्दार्थः । गोविन्द इत्यनेनाविकारत्वे ‘नि- र्विकारोऽक्षरश्शुद्धः’ ( ) इति वेदप्रतिपाद्यत्वाख्यहेतुरुच्यते । नारदीय इत्यनन्तरं उक्तमिति शेषः । स्पष्टस्सूत्रार्थः ॥ (११) अपव्याख्यां दूषयति-न चेति ॥ चस्त्वर्थः । ‘अन्यत्’ ब्रह्मणो जगदुपादानत्वं न कल्प्यम्, प्रकृतिश्चेत्यादिसूत्रार्थतयेति शे- षः । कुत इत्यत आह-अप्रामाणिकत्वादिति । तस्येति शेषः । नञ् स्तद्विरुद्धतदभावाथैत्वं, प्रमाणेन सिद्धं तद्विरुद्धं च प्रामाणिकम्, तद्भिन्नमप्रामाणिकं, तस्य भावस्तत्त्वं तस्मात् । तथा च तस्य ब्रह्म- णो जगदुपादानत्वस्य प्रमाणशून्यत्वात्, ‘अविकारः’ इत्यादिप्रमाण- विरुद्धत्वात् समन्वयप्रतिपादकप्रमाणाध्यायासङ्गतत्वाच्चेत्यर्थः ॥ (१२) ननु तथाऽपि न प्रकृतिशब्दवाच्यत्वं परमात्मनो युज्यते, त- च्छब्दस्य स्त्रीलिङ्गत्वात्परमात्मनश्च पुंस्त्वेन तत्र स्त्रीलिङ्गाभावात् । न केवलं लिङ्गानुपपत्तिमात्रम्, किन्तु श्रौतप्रकृतिशब्दोपलक्षितस्त्रीशब्द- मात्रे प्रकृत्यर्थानुपपत्तिरपि, तच्छब्दप्रवृत्तौ निमित्ताभावादिति शङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-योनिश्चेति ॥ ‘अव्यवधानेन’ ह्यथा