भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 440, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 440

अव्यवधानेनोत्पत्तिद्वारत्वं च प्रकृतित्वम् । तथास्यै व हि गीयते ‘यद्भूतयोनिं परिपश्यन्ति धीराः' (मु. १-१-६.) इति । (१३) व्यवधानेन सूतिस्तु पुंस्त्वं विद्वद्भिरुच्यते । सूतिरव्यवधानेन प्रकृतित्वमिति स्थितिः ॥ दिव्यवधानमन्तरेणापत्योत्पत्तिद्वारत्वं तद्वत्त्वम् । स्वदेहादेवापत्योत्पा दकत्वमिति यावत् । यद्यपि 'योनिर्भार्या तथा स्थानं योनिः कारण मेव च' इति गीतातत्पर्यनिर्णयोदाहृताभिधानाद्योनिशब्दो गुह्यस्था नेऽव्यवधानेन अपत्योत्पादनद्वारे रूढः । यथा 'योनेश्शरीरम्' इत्य त्र तद्वत्यां भार्यायां निरूढलाक्षणिकः । यथा 'मम योनिर्महद्ब्रह्म' इ त्यत्र । तथा च नैवं निर्वक्तुं शक्यम् । तथाऽप्युदाहृतस्थलेऽप्युक्तनि रुक्तिसम्भवात्, प्रकृतानुगुण्याय श्रुतिसूत्रप्रयोगानुसारण च महा योगविद्वद्रूढिभ्यां ब्रह्मणि प्रवृत्तिं दर्शयितुमेवं निरुक्तम् । मार्गप्रतीहा रपर्यायद्वारशब्दप्रयोगे विष्णोरपत्यनिर्गमनावधित्वरूपापादनत्वमेव न तूपादानत्वमिति सूचितम् । प्रकृतित्वं प्रकृत्यादिस्त्रीशब्दप्रवृत्तिनि मित्तम् । न केवलमात्मकृतेरित्यत्रोक्तं प्रकृष्टकरणमेव प्रकृतिशब्दप्रवृ त्तिनिमित्तम्, किन्तु निरुक्तयोनित्वमपीति समुच्चये चशब्दः । ततः किमित्यत आह—तच्चेति । चस्त्वर्थः । यद्वा—चशब्दः प्रमाणान्तरो क्तस्त्रीरूपत्वाख्यनिमित्तसमुच्चायकः । 'तस्य' परमात्मन इत्यनुवृत्त तच्छब्दार्थोक्तिः । न त्वन्यस्येत्येवार्थः । 'हि' यतः 'गीयते' प्रतिपा द्यते मुख्यतः अतः प्रकृतिश्च स एवेत्यन्वयः । 'भूतयोनिं' प्रलये स्वो दरे निवेशितस्य ब्रह्मादिप्राणिजातस्य 'योनिं' स्वदेहादेवोत्पादकं सूक्ष्मदेहकर्तारं यं 'धीराः' ज्ञानिनः परिपश्यन्ति, तददृश्यत्वादिगुण कमिति मुण्डकश्रुत्यर्थः। भूतानामाकाशादीनां ब्रह्मादीनां वा केषां चि त् स्त्रीव्यवधानेन विनोत्पादनाद्भूतयोनिरित्यर्थ इति प्राञ्चः ॥ (१३) अव्यवधानेनोत्पत्तिद्वारत्वं प्रकृत्यादिस्त्रीलिङ्गशब्दप्रयोगे नि मित्तमिति कुतः ? कुतश्च तन्निमित्तं स्त्रीलिङ्गशब्दवाच्यत्वं विष्णोर्ज्ञाय त इत्याशङ्कां परिहर्तुं सूत्रार्थे स्मृतिं चाह—व्यवधानेनेति ॥ 'सूतिः' सूतिकर्तृत्वम् । तुशब्दः प्रकृतित्वं त्वित्यन्वेति । तथा च ऋचादिव्य वधानेन अपत्योत्पादकत्वं 'पुंस्त्वं' पुल्लिङ्गशब्दप्रवृत्तिनिमित्तं 'प्रकृ ५०