भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 441, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 441

३९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ]

उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् । प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते ॥

तित्वं' तच्छब्दोपलक्षिताशेषस्त्रीलिङ्गशब्दप्रवृत्तिनिमित्तं तु अव्य- वधानेन सूतिकर्तृत्वमिति प्रवृत्तिनिमित्तस्थितिर्विद्वद्भिरुच्यत इत्यर्थः । ‘स्त्रीत्वमाहुर्मनीषिणः’ इति पाठे वाक्यभेदेनान्वयः । उभयत्रेतिश- ब्दाध्याहारश्च कर्तव्यः । ततः किं प्रकृत इत्यत आह—उभयेति । उ- भयविधप्रसूतिकर्तृत्वादित्यर्थः । शब्दसमुच्चये चः इति चावर्तते । त- त्रैक आद्यर्थे । ननु सूतिकर्तृत्वमेवासिद्धम् । सुतरामुभयात्मकसूति- त्वमित्यतो—वासुदेव इत्याह । अनेन— वानात्सूतेर्देवनाद्वासुदेवः वासात् द्युतेः छादनात् क्रीडया च । बलात्सुत्वाद्धातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः ॥ इति निरुक्तिसूचनात्सूतिकर्तृत्वसिद्धिः । ननु कथमेक एव हरिः प्रकृ- तिः पुरुष इत्यादिभिरनेकैर्विरुद्धशब्दैरभिधीयते, लोके क्वाप्यदर्शना- दित्यत आह—पर इति । ‘परो’ लोकविलक्षणः पुमान् यत इति । य- द्वा—एक एवाभिधीयते इत्युक्ते हरेर्मुख्यतः सर्वशब्दवाच्यत्वे परः पुमानिति हेतुरुच्यते, यतः पूर्णपुरुषः। इति ब्रह्माण्ड इत्यस्य तत्रत्यस्या- नुषङ्गेणोक्तमित्यध्याहृतेनान्वयः। न च भगवतः स्त्रीरूपत्वादपि तच्छ- ब्दवाच्यत्वमित्युक्तम्, ‘नैनं वाचा स्त्रियं ब्रुवन्’ ( ) इति निषेधविरोधादिति वाच्यम् । तस्य केवलस्य लौकिकस्य वा स्त्रीत्व- स्य ज्ञेयतानिषेधपरत्वात् । अन्यथा ‘नैनमस्त्रीपुमान्’ इत्युत्तरवाक्यवि- रोधात् । अनेन—‘हि’ यतो ‘यद्भूतयोनिम्’ (मुं. १-१-६.) इति श्रुतौ स्मृतौ च स विष्णुर्योनिः स्वदेहादेवोत्पादको गीयते । योनिशब्दस्या- व्यवधानेनोत्पत्तिस्थानार्थत्वायोनित्वस्यैव स्त्रीशब्दप्रवृत्तिनिमित्तत्वा- त् । यतश्च प्रमाणान्तरे स्त्रीरूपश्च ‘गीयते’ प्रतिपाद्यतेऽतः। न केवलं प्रकृष्टकरणनिमित्तात्प्रकृतिप्रातिपदिकवाच्य एव सः, किन्तु अव्यव- धानेनोत्पत्तिद्वारत्वरूपयोनित्वनिमित्तात् स्त्रीरूपत्वाच्च स्त्रीलिङ्गशब्दा- भिधेयोऽपीति न तस्मिन् स्त्रीलिङ्गप्रयोगायोगः। न वा प्रकृतिशब्दो- पलक्षितत्रयादिशब्दान्तरे प्रकृत्यर्थानुपपत्तिरिति सूत्रार्थ उक्तो

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 441, कुल 1267 में से · BharatKosha