पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 442, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २९. ] दीपिकासहितम्. ३९५ इति ब्रह्माण्डे ॥ २८ ॥ —:*:— ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ ॐ ॥ २९ ॥ एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः । 'एष ह्येव शून्य एषह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृ श्योऽचिन्त्यो निर्गुणश्च' इति महोपनिषदि । भवति ॥ ६ ॥ इति प्रकृत्यधिकरणम् ॥ —※— ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे निषेधनिषेधार्थाः शब्दाः समन्वीयन्ते । यद्य पि भाष्ये विषयवाक्यं नोदाहृतम् । तथाऽपि असदादिशब्दघटितवा क्यान्तरमुदाहर्तव्यमिति चन्द्रिकोक्तेः, टीकारीत्या 'असदेव' इत्या दिवाक्यं विषयः । अस्य सिद्धान्ते सर्वथाऽन्यपरत्वाभावेऽपि शङ्कावि षयत्वमात्रेणोदाहरणं युक्तम् । अत्रापि तत्तु समन्वयादिति सर्वशब्दा नां परमात्मनि समन्वय उक्तः । तन्न युज्यते । कुतः? यतस्तदसदादि शब्दवाच्यत्वं न युज्यते इत्यत आह, इत्याद्याधिकरणवाक्यसंयोजनेन सङ्गतिविषयपूर्वपक्षान् शिष्याः ज्ञास्यन्तीत्यभिप्रेत्य सिद्धान्तयत्सूत्र मुपन्यस्य व्याचष्टे—एतेनेति ॥ सर्वसमन्वयस्यात्र अकरणात्सर्वपदं सङ्कुद्वृत्तितया व्याख्याति—सर्व इति । पूर्वस्मादत्र चोऽनुवर्तनीय इ त्याशयेनापीति प्रयुक्तवान् । न केवलं पूर्वसमन्विताः, किन्त्ववशिष्टाः शून्यादिशब्दा अपीत्यर्थः । नन्वसदादिशब्दानां निषेधमुखवेद्यवस्तु वाचित्वात्कथं परमात्मनस्तद्वाच्यत्वमित्यत आह—एष ह्येवेति । अत्र 'एष ह्येवासन्' इत्यप्याद्यावुपस्कार्यम् । अदृश्य इति च इत्यस्यार्थः । तुदित्यपि ग्राह्यम् । 'अचिन्त्यः' अभाव्यो 'निर्गुणः' उपादानशून्यो ऽप्राकृतो विनाशशून्यश्चेत्यभावशब्दार्थकथनम् । हिशब्दः प्रसिद्धौ । चस्त्वर्थो यत इत्यर्थे । तथा च 'हि' यतः 'एषः' भगवान् दुर्जनैर व्यक्तोऽदृश्यश्च तुच्चाचिन्त्यश्च निर्गुणोऽतः स एव मुख्यतोऽसन् तु च्छोऽभावश्चेत्युच्यत इत्यर्थः । यद्वा—शून्यशब्दस्य शून्यादीत्यादिप दोपात्तानां च शब्दानां इह हरौ रूढिप्रदर्शनपरेयं समग्रा श्रुतिः । म