भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 443, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 443

३९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( २ ) शमूनं कुरुते विष्णुरदृश्यस्सन् परस्स्वयम् । तस्माच्छून्य इति प्रोक्तस्तोदना तुच्छ उच्यते ॥ नैष भावयितुं योग्यः केन चित्पुरुषोत्तमः । अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥ ( ३ ) सर्वस्य तदधीनत्वात्तत्तच्छन्दाभिधेयता । होपनिषदीत्यस्यासदादिशब्दाः दुर्जनाव्यक्तत्वादिना निमित्तेन रू- ढ्या वा ब्रह्मवाचितया व्याख्याता इत्यन्वयः ॥ ( २ ) ‘एष ह्येव’ (महोपनिषत्) इत्यनेनैव शून्यादिशब्दानां रूढेर्दर्शित- त्वादिदानीं योगवृत्तिमपि स्मृत्या दर्शयति-शमूनमिति ॥ यस्माद्विष्णुः ‘परः सन्नेव’ सर्वोत्तमत्वेन पूर्णसुखत्वेन च सन्नेव ‘शं’ अन्यसुखं स्वयं ‘ऊनं’ स्वसुखादल्पं करोति, तस्माच्छून्य इति प्रोक्त इत्यर्थः । सन्नेवेत्यनेन असत्त्वाच्छून्यशब्दार्थ इत्याशङ्का परिहृता । सन्नेवादृश्य इत्यस्योत्तरत्रान्वयः । तुच्छ इत्यावर्तते । तत्रैकं द्विखण्डम् । अन्यदख- ण्डम् । तथा च यतस्तोदनाद्दुःखकर्तृत्वात् तुत्,छः छन्नः सन्नेव दुर्जनैरदृ- श्यो न त्वसत्त्वादतस्तुच्छ उच्यते इत्यर्थः । सत्तर्कदीपावल्यां तु-लो- केऽभीष्टं वस्तु नष्टमदृश्यं वा तद्वतः शमूनं कुरुते, तुदते च तं शमनुभव- न्तम् । न च तद्भावयितुं योग्यं सुखाय नापि तेनोपभोग्यम् । विष्णुस्तु न नष्टः, किन्तु स्वयं परः सन्नेव सर्वदा सर्वत्र सर्वोत्तमत्वेन सन्नेव दुर्जनादृश्य एव तच्छमूनं करोति, तुदते च तम् । भावयितुमयोग्य- स्तेनानुपभोग्यश्च । यथा रमाजशङ्करादिभिरित्युक्तम् । अस्मिन् पक्षे यतः छः नित्यमदृश्य एव तुत् दुःखयति अन्यान् दुर्जनान्, अतोऽदृश्य- त्वे सति तोदनात् तुच्छ उच्यते इति । छशब्दादर्थस्यादृश्यत्वस्य विशेषणतया पूर्वमन्वयः । पक्षद्वयेऽप्येकानेकपद्त्वं समानम् । ऐकप- द्ये तुच्छासौ छश्चेति विग्रहः । यतः ‘एषः’ विष्णुः कारणतयाऽऽनन्त्येन च पुरुषोत्तमः, अतो न केन चित् ‘भावयितुं’ उत्पादयितुं साकल्ये- न चिन्तयितुं वा न योग्यः । यत एवं अत एनमभावं वदन्ति कवय इ- त्यर्थः । अशभोजन इत्यतः अश्यमिति रूपं, तस्य भाव अश्यत्वं, तस्य नञा सम्बन्धे नाश्यत्वादित्यस्याभक्ष्यत्वादित्यर्थः । सत्तर्कदीपावली- रीत्या तु-नाकमिति वन्नाशं परमसुखं यापयतीति नाश इत्यर्थः । उच्यते इत्यनुषज्यते । न केवलमभाव इत्यादिरूपेणेत्यपेरर्थः ॥ ( ३ ) निषेधमुखवेद्यवस्तुवाचिशब्दानां निषेध्यनिषेधवाचित्वेन