पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 444, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २९. ] दीपिका सहितम्. ३९७ अन्येषां व्यवहारार्थमिष्यते व्यवहर्तृभिः ॥ इति महाकौर्मे ॥ (४) एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन । द्विरूपत्वात् तत्र स्मृतौ निषेध्यासद्वाचिशून्यादिशब्दानामेव योगवृत्ति- कथनात्, तदन्येष्वव्यक्तादिषु निषेधरूपाभाववाचिनिर्गुणादिशब्देषु च तदकथनाच्च तेषां हरौ वृत्तिः स्यादित्याशङ्क्योभयसाधारणं निमि- त्तमाह — सर्वस्येति ॥ एतच्चासद्वाचिशब्देष्वभाववाचिशब्देषु च स- म्बध्यते । अत एव टीकायामुभयत्रेत्युक्तिः । सुधायां च 'निषेधनं नि- षेधोऽभावः । निषिध्यत इति निषेधोऽसन् तदुभयार्थाः शब्दा इत्युक्त- म् । तथा च 'सर्वस्य' असच्छून्यादिशब्दप्रवृत्तिनिमित्तस्य स्वगत- स्य परगतस्य वा 'तदधीनत्वात्' भगवत्स्वामिकत्वात्तत्तच्छब्दवा- च्यता तस्यैव हरेः सर्वशब्दाभिधेयता। अतएव असच्छून्यतुच्छाभाव- नाशादिशब्दपरममुख्यार्थता भगवतः । अन्येषां तु तदधीनेनैव तत्त- त्प्रवृत्तिनिमित्तेन हानादिव्यवहारार्थं 'व्यवहर्तृभिः' तत्तच्छब्दप्रयो- क्तृभिस्तन्मुख्यवाच्याभिज्ञैस्तत्तच्छब्दार्थता 'इष्यते' अभ्युपगम्यत इत्यर्थः । यद्वा—सर्वस्येत्येतत् 'शमूनं कुरुते' इत्याद्युक्तहेतूपपादक- त्वेन पूर्वत्र तत्तच्छब्दाभिधेयतेत्युक्तसाध्यसाधकत्वेनोत्तरत्र च सम्ब- ध्यते । अत एव सत्तर्कदीपावल्यां स्वगतस्य परगतस्य वा शब्दप्रवृ- त्तिनिमित्तस्य भगवदधीनत्वादित्युक्तम् । द्रष्टुर्भावयितुर्धर्मकस्य चे- श्वराधीनत्वेन स्वगतानामदृश्यत्वाभावत्वनाशत्वादीनां तदधीनत्वं सिद्धम् । परगतनिषेध्यत्वशून्यत्वाभावत्वादीनां त्वीशायतत्त्वं सुप्रसि- द्धमेवेत्याशयः । महाकौर्मे इत्यस्य श्रूयमाणा इत्यध्याहारेण महोपनिष- दि अन्यत्र च श्रूयमाणाः शून्यादिशब्दाः 'शमूनं कुरुते' इत्यादि योगेन स्वातन्त्र्यनिमित्तेन च विष्णुपरतया महाकौर्मे व्याख्याता इत्यन्वयः ॥ (४) सूत्रेऽवयवप्रयोगानियमाभिप्रायेण प्रथमं प्रयुक्तस्य हेतुप- दस्थानुवादमात्रस्याप्रकृतत्वादेकवचनार्थस्याविवक्षितत्वाच्चैतेनेत्यनू- दितपदपरामृष्टमेव हेतुं दर्शयति—एतेनेति ॥ तस्मिन्नधीनं तदधीनं तत्स्वामिकं, यद्वा—तस्याधीनं तदधीनं तस्य भावस्तदधीनत्वं तद्- धीनत्वादिरूपा या युक्तयस्तत्समुदायेनेत्यर्थः । आदिपदेन महद्वच्च । चमसवदविशेषात् । ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके । प्रतिज्ञा- दृष्टान्तानुपरोधात्' इत्यादिकं गृह्यते ॥