भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 445, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 445

३९८ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - ४. ] (५) अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः । द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये ॥ इति वाराहसंहितायाम् ॥ २९ ॥ —::— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र- भाष्ये प्रथमाध्यायस्य चतुर्थः पादः. ॥ प्रथमाध्यायस्समाप्तः ॥ —::— ॥ ॐ ॥ (५) ननु सूत्रैऽल्पाक्षरत्वविरोधिनी द्विरुक्तिः किमर्थेत्यत आह —अवधारणार्थमिति ॥ 'अध्यायमूलतः' अध्यायादिमारभ्यान्तपर्य- न्तमुक्तस्य सर्वस्यार्थस्यावधारणार्थमेवेति निर्णयायान्ते द्विरुक्तिं कु- र्वते ज्ञानिन इत्यर्थः । भारतादिषु द्विरुक्तेरकरणादाह-विनिर्णय इति । विशिष्टो निर्णयो यस्मात्तस्मिन् विनिर्णायकग्रन्थ इत्यर्थः । तथा च ते- षाम् निर्णतव्यत्वेन निर्णायकत्वाभावान्नोक्तनियमभङ्ग इति भावः । सं- हितायां इत्यस्योक्तत्वादित्येऽध्याहारेण न द्विरुक्तिवैयर्थ्यम्, न चान्य- रीत्या अध्यायसमाप्तिद्योतनार्थ इत्युपस्कृतसाध्येनान्वयः । अनेन—‘ए- तेन’ पूर्वोक्ततदधीनत्वादिहेतुनैव ‘सर्वे’ शून्यादिशब्दाः ‘तत्तु’ त- स्मिन् ब्रह्मण्येव तद्विषया एवेति ‘व्याख्याताः’ प्रतिपादिता इति सू- त्रार्थ उक्तो भवति ॥ ७ ॥ ॐ ॥ ॥ इति एतेनसर्वेव्याख्याताधिकरणम् ॥ —:*:— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि- कायां प्रथमाध्यायस्य चतुर्थः पादः. ॥ प्रथमाध्यायस्समाप्तः ॥ — ॥ ॐ ॥