पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 446, कुल 1267 में से
संदर्भ में पढ़ें॥ श्रीः ॥ ::- ॥ ॐ तत्सद्ब्रह्मणे नमः ॥ ::- ॥ अथ द्वितीयाध्यायः ॥ १०. अधिकरणम् ॥ ( १ ) उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन प्रथमपादे युक्त्य- विरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति— ( २ ) सू—ॐ ॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृ- त्यनवकाशदोषप्रसङ्गात् ॥ ॐ ॥ १ ॥ ॥ अथ द्वितीयाध्यायः ॥ १०. अधिकरणम् ॥ ( १ ) पूर्वाध्यायसङ्गतत्वेनैतदध्यायर्थं दर्शयति—उक्त इति ॥ ना- रायणे निखिलवेदसमन्वयेन यो जगत्कारणत्वरूपार्थो गताध्याये नि- रूपितस्तस्मिन्नित्यर्थः । 'अविरोधं' न विरोधोऽविरोधस्तं युक्त्यादि- विरोधाभावं 'दर्शयति' प्रतिपादयति 'अनेन' द्वितीयाध्यायेन सूत्र- कार इत्यर्थः । अनेन पूर्वाध्यायस्यास्य च हेतुहेतुमद्भावलक्षणा सङ्ग- तिरुक्ता भवति । पूर्वस्याशेषशब्दसमन्वयमुखेन जगत्कर्तृत्वरूपधर्मि- ज्ञापकत्वेनास्य च विरोधनिररासेनोक्तजगत्कर्तृत्वस्थैर्यसाधकत्वेन हे- तुत्वसम्भवात् । एतत्पादप्रतिपाद्यं दर्शयति-प्रथमेति । उक्तेऽर्थे दर्शय- तीत्यनुवर्तते। अस्येति विपरिणामेनास्ति । युक्तिरनुमानम्। सङ्गतिप्रद- र्शनायैतत्पादीयाद्याधिकरणप्रतिपाद्यं दर्शयति-प्रथमत इति । प्रथमा- धिकरण इत्यर्थः । अनुवृत्त्यादि पूर्ववत् । स्मृतिरलौकिकार्थविषयाप्त- वाक्यरूपा पाशुपतादिलक्षणा । स्मृतीत्यनेन पाशुपतादिस्मृतीनां यु- क्तिग्रथनात्मकत्वेन तद्विरोधाभावप्रतिपादकस्यास्य अधिकरणस्य युक्त्यविरोधप्रतिपादकत्वादत्र पादे निवेशः सङ्गत इति सूचितम् । स्मृतीनां समन्वयादिरूपत्वेऽपि न प्रथमातिक्रमो युक्तः, कारणाभावा- त् । अनेनास्याधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति ॥ ( २ ) पूर्वपक्षादिप्रदर्शनाय सूत्रमुपन्यस्यति—स्मृतीति ॥ अत्र पू- र्वपक्षांशं व्याख्यास्यन् विशेषणस्य परनिपातेनाभिप्रेतेनानवकाशशास्त्रे- तीत्यन्वये सति तत्रानवकाशपदेन लब्धान् हेतून् दर्शयति—सर्वज्ञा हीति । हि हेतौ प्रसिद्धौ च । सार्वज्ञ्यं जगद्धितोपदेष्टृत्वस्याप्युपलक्ष- कम् । आदिशब्देन कपिलकमलासनादयो गृह्यन्ते । अनेनाप्तमूलत्व-