भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

३९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( २ ) शमूनं कुरुते विष्णुरदृश्यस्सन् परस्स्वयम् । तस्माच्छून्य इति प्रोक्तस्तोदना तुच्छ उच्यते ॥ नैष भावयितुं योग्यः केन चित्पुरुषोत्तमः । अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥ ( ३ ) सर्वस्य तदधीनत्वात्तत्तच्छन्दाभिधेयता । होपनिषदीत्यस्यासदादिशब्दाः दुर्जनाव्यक्तत्वादिना निमित्तेन रू- ढ्या वा ब्रह्मवाचितया व्याख्याता इत्यन्वयः ॥ ( २ ) ‘एष ह्येव’ (महोपनिषत्) इत्यनेनैव शून्यादिशब्दानां रूढेर्दर्शित- त्वादिदानीं योगवृत्तिमपि स्मृत्या दर्शयति-शमूनमिति ॥ यस्माद्विष्णुः ‘परः सन्नेव’ सर्वोत्तमत्वेन पूर्णसुखत्वेन च सन्नेव ‘शं’ अन्यसुखं स्वयं ‘ऊनं’ स्वसुखादल्पं करोति, तस्माच्छून्य इति प्रोक्त इत्यर्थः । सन्नेवेत्यनेन असत्त्वाच्छून्यशब्दार्थ इत्याशङ्का परिहृता । सन्नेवादृश्य इत्यस्योत्तरत्रान्वयः । तुच्छ इत्यावर्तते । तत्रैकं द्विखण्डम् । अन्यदख- ण्डम् । तथा च यतस्तोदनाद्दुःखकर्तृत्वात् तुत्,छः छन्नः सन्नेव दुर्जनैरदृ- श्यो न त्वसत्त्वादतस्तुच्छ उच्यते इत्यर्थः । सत्तर्कदीपावल्यां तु-लो- केऽभीष्टं वस्तु नष्टमदृश्यं वा तद्वतः शमूनं कुरुते, तुदते च तं शमनुभव- न्तम् । न च तद्भावयितुं योग्यं सुखाय नापि तेनोपभोग्यम् । विष्णुस्तु न नष्टः, किन्तु स्वयं परः सन्नेव सर्वदा सर्वत्र सर्वोत्तमत्वेन सन्नेव दुर्जनादृश्य एव तच्छमूनं करोति, तुदते च तम् । भावयितुमयोग्य- स्तेनानुपभोग्यश्च । यथा रमाजशङ्करादिभिरित्युक्तम् । अस्मिन् पक्षे यतः छः नित्यमदृश्य एव तुत् दुःखयति अन्यान् दुर्जनान्, अतोऽदृश्य- त्वे सति तोदनात् तुच्छ उच्यते इति । छशब्दादर्थस्यादृश्यत्वस्य विशेषणतया पूर्वमन्वयः । पक्षद्वयेऽप्येकानेकपद्त्वं समानम् । ऐकप- द्ये तुच्छासौ छश्चेति विग्रहः । यतः ‘एषः’ विष्णुः कारणतयाऽऽनन्त्येन च पुरुषोत्तमः, अतो न केन चित् ‘भावयितुं’ उत्पादयितुं साकल्ये- न चिन्तयितुं वा न योग्यः । यत एवं अत एनमभावं वदन्ति कवय इ- त्यर्थः । अशभोजन इत्यतः अश्यमिति रूपं, तस्य भाव अश्यत्वं, तस्य नञा सम्बन्धे नाश्यत्वादित्यस्याभक्ष्यत्वादित्यर्थः । सत्तर्कदीपावली- रीत्या तु-नाकमिति वन्नाशं परमसुखं यापयतीति नाश इत्यर्थः । उच्यते इत्यनुषज्यते । न केवलमभाव इत्यादिरूपेणेत्यपेरर्थः ॥ ( ३ ) निषेधमुखवेद्यवस्तुवाचिशब्दानां निषेध्यनिषेधवाचित्वेन

[ अधि - ७. सू - २९. ] दीपिका सहितम्. ३९७ अन्येषां व्यवहारार्थमिष्यते व्यवहर्तृभिः ॥ इति महाकौर्मे ॥ (४) एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन । द्विरूपत्वात् तत्र स्मृतौ निषेध्यासद्वाचिशून्यादिशब्दानामेव योगवृत्ति- कथनात्, तदन्येष्वव्यक्तादिषु निषेधरूपाभाववाचिनिर्गुणादिशब्देषु च तदकथनाच्च तेषां हरौ वृत्तिः स्यादित्याशङ्क्योभयसाधारणं निमि- त्तमाह — सर्वस्येति ॥ एतच्चासद्वाचिशब्देष्वभाववाचिशब्देषु च स- म्बध्यते । अत एव टीकायामुभयत्रेत्युक्तिः । सुधायां च 'निषेधनं नि- षेधोऽभावः । निषिध्यत इति निषेधोऽसन् तदुभयार्थाः शब्दा इत्युक्त- म् । तथा च 'सर्वस्य' असच्छून्यादिशब्दप्रवृत्तिनिमित्तस्य स्वगत- स्य परगतस्य वा 'तदधीनत्वात्' भगवत्स्वामिकत्वात्तत्तच्छब्दवा- च्यता तस्यैव हरेः सर्वशब्दाभिधेयता। अतएव असच्छून्यतुच्छाभाव- नाशादिशब्दपरममुख्यार्थता भगवतः । अन्येषां तु तदधीनेनैव तत्त- त्प्रवृत्तिनिमित्तेन हानादिव्यवहारार्थं 'व्यवहर्तृभिः' तत्तच्छब्दप्रयो- क्तृभिस्तन्मुख्यवाच्याभिज्ञैस्तत्तच्छब्दार्थता 'इष्यते' अभ्युपगम्यत इत्यर्थः । यद्वा—सर्वस्येत्येतत् 'शमूनं कुरुते' इत्याद्युक्तहेतूपपादक- त्वेन पूर्वत्र तत्तच्छब्दाभिधेयतेत्युक्तसाध्यसाधकत्वेनोत्तरत्र च सम्ब- ध्यते । अत एव सत्तर्कदीपावल्यां स्वगतस्य परगतस्य वा शब्दप्रवृ- त्तिनिमित्तस्य भगवदधीनत्वादित्युक्तम् । द्रष्टुर्भावयितुर्धर्मकस्य चे- श्वराधीनत्वेन स्वगतानामदृश्यत्वाभावत्वनाशत्वादीनां तदधीनत्वं सिद्धम् । परगतनिषेध्यत्वशून्यत्वाभावत्वादीनां त्वीशायतत्त्वं सुप्रसि- द्धमेवेत्याशयः । महाकौर्मे इत्यस्य श्रूयमाणा इत्यध्याहारेण महोपनिष- दि अन्यत्र च श्रूयमाणाः शून्यादिशब्दाः 'शमूनं कुरुते' इत्यादि योगेन स्वातन्त्र्यनिमित्तेन च विष्णुपरतया महाकौर्मे व्याख्याता इत्यन्वयः ॥ (४) सूत्रेऽवयवप्रयोगानियमाभिप्रायेण प्रथमं प्रयुक्तस्य हेतुप- दस्थानुवादमात्रस्याप्रकृतत्वादेकवचनार्थस्याविवक्षितत्वाच्चैतेनेत्यनू- दितपदपरामृष्टमेव हेतुं दर्शयति—एतेनेति ॥ तस्मिन्नधीनं तदधीनं तत्स्वामिकं, यद्वा—तस्याधीनं तदधीनं तस्य भावस्तदधीनत्वं तद्- धीनत्वादिरूपा या युक्तयस्तत्समुदायेनेत्यर्थः । आदिपदेन महद्वच्च । चमसवदविशेषात् । ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके । प्रतिज्ञा- दृष्टान्तानुपरोधात्' इत्यादिकं गृह्यते ॥

३९८ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - ४. ] (५) अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः । द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये ॥ इति वाराहसंहितायाम् ॥ २९ ॥ —::— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र- भाष्ये प्रथमाध्यायस्य चतुर्थः पादः. ॥ प्रथमाध्यायस्समाप्तः ॥ —::— ॥ ॐ ॥ (५) ननु सूत्रैऽल्पाक्षरत्वविरोधिनी द्विरुक्तिः किमर्थेत्यत आह —अवधारणार्थमिति ॥ 'अध्यायमूलतः' अध्यायादिमारभ्यान्तपर्य- न्तमुक्तस्य सर्वस्यार्थस्यावधारणार्थमेवेति निर्णयायान्ते द्विरुक्तिं कु- र्वते ज्ञानिन इत्यर्थः । भारतादिषु द्विरुक्तेरकरणादाह-विनिर्णय इति । विशिष्टो निर्णयो यस्मात्तस्मिन् विनिर्णायकग्रन्थ इत्यर्थः । तथा च ते- षाम् निर्णतव्यत्वेन निर्णायकत्वाभावान्नोक्तनियमभङ्ग इति भावः । सं- हितायां इत्यस्योक्तत्वादित्येऽध्याहारेण न द्विरुक्तिवैयर्थ्यम्, न चान्य- रीत्या अध्यायसमाप्तिद्योतनार्थ इत्युपस्कृतसाध्येनान्वयः । अनेन—‘ए- तेन’ पूर्वोक्ततदधीनत्वादिहेतुनैव ‘सर्वे’ शून्यादिशब्दाः ‘तत्तु’ त- स्मिन् ब्रह्मण्येव तद्विषया एवेति ‘व्याख्याताः’ प्रतिपादिता इति सू- त्रार्थ उक्तो भवति ॥ ७ ॥ ॐ ॥ ॥ इति एतेनसर्वेव्याख्याताधिकरणम् ॥ —:*:— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि- कायां प्रथमाध्यायस्य चतुर्थः पादः. ॥ प्रथमाध्यायस्समाप्तः ॥ — ॥ ॐ ॥

॥ श्रीः ॥ ::- ॥ ॐ तत्सद्ब्रह्मणे नमः ॥ ::- ॥ अथ द्वितीयाध्यायः ॥ १०. अधिकरणम् ॥ ( १ ) उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन प्रथमपादे युक्त्य- विरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति— ( २ ) सू—ॐ ॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृ- त्यनवकाशदोषप्रसङ्गात् ॥ ॐ ॥ १ ॥ ॥ अथ द्वितीयाध्यायः ॥ १०. अधिकरणम् ॥ ( १ ) पूर्वाध्यायसङ्गतत्वेनैतदध्यायर्थं दर्शयति—उक्त इति ॥ ना- रायणे निखिलवेदसमन्वयेन यो जगत्कारणत्वरूपार्थो गताध्याये नि- रूपितस्तस्मिन्नित्यर्थः । 'अविरोधं' न विरोधोऽविरोधस्तं युक्त्यादि- विरोधाभावं 'दर्शयति' प्रतिपादयति 'अनेन' द्वितीयाध्यायेन सूत्र- कार इत्यर्थः । अनेन पूर्वाध्यायस्यास्य च हेतुहेतुमद्भावलक्षणा सङ्ग- तिरुक्ता भवति । पूर्वस्याशेषशब्दसमन्वयमुखेन जगत्कर्तृत्वरूपधर्मि- ज्ञापकत्वेनास्य च विरोधनिररासेनोक्तजगत्कर्तृत्वस्थैर्यसाधकत्वेन हे- तुत्वसम्भवात् । एतत्पादप्रतिपाद्यं दर्शयति-प्रथमेति । उक्तेऽर्थे दर्शय- तीत्यनुवर्तते। अस्येति विपरिणामेनास्ति । युक्तिरनुमानम्। सङ्गतिप्रद- र्शनायैतत्पादीयाद्याधिकरणप्रतिपाद्यं दर्शयति-प्रथमत इति । प्रथमा- धिकरण इत्यर्थः । अनुवृत्त्यादि पूर्ववत् । स्मृतिरलौकिकार्थविषयाप्त- वाक्यरूपा पाशुपतादिलक्षणा । स्मृतीत्यनेन पाशुपतादिस्मृतीनां यु- क्तिग्रथनात्मकत्वेन तद्विरोधाभावप्रतिपादकस्यास्य अधिकरणस्य युक्त्यविरोधप्रतिपादकत्वादत्र पादे निवेशः सङ्गत इति सूचितम् । स्मृतीनां समन्वयादिरूपत्वेऽपि न प्रथमातिक्रमो युक्तः, कारणाभावा- त् । अनेनास्याधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति ॥ ( २ ) पूर्वपक्षादिप्रदर्शनाय सूत्रमुपन्यस्यति—स्मृतीति ॥ अत्र पू- र्वपक्षांशं व्याख्यास्यन् विशेषणस्य परनिपातेनाभिप्रेतेनानवकाशशास्त्रे- तीत्यन्वये सति तत्रानवकाशपदेन लब्धान् हेतून् दर्शयति—सर्वज्ञा हीति । हि हेतौ प्रसिद्धौ च । सार्वज्ञ्यं जगद्धितोपदेष्टृत्वस्याप्युपलक्ष- कम् । आदिशब्देन कपिलकमलासनादयो गृह्यन्ते । अनेनाप्तमूलत्व-

[४०० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]]

सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामा- ण्यमेव स्यादिति चेत्— ( ३ ) न, अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृत त्वाच्छ्रुतेराधिक्यं च सिध्यति ॥ १ ॥ प्राबल्यार्थान्तरपरत्वासम्भवसूपानवकाशत्वाख्यहेतवो दर्शिताः । त तः किमित्यत आह—अत इति । 'तेषां' रुद्रादीनां विरोधे सति वि ष्णुजगत्कर्तृतापरत्वरूपविरुद्धार्थकल्पनेनेति भावः । 'अप्रामाण्यं' श्रु तेरित्याकृष्यते । एवशब्देनाविरोधो देशान्तरे प्रामाण्यं च व्यवच्छिद्य ते । स्यादित्यनेन सौत्रः प्रसङ्गशब्दो विवृतः । तथा च यतो रुद्रादयः सार्वज्ञ्यादिमत्त्वेनागमसिद्धाः, अतस्तेषां वचनानां तत्स्मृतीनामाप्तिमू लत्वं सिद्धं, अत एव प्राबल्यं च, अत एव निरवकाशत्वं च; अतः श्रु तेः 'यतो वा' (तै.उ-३-१-१०) इत्यादिरूपायाः विष्णुजगत्कर्तृतापरत्व कल्पने तद्विरोध एव स्यात्, न त्वविरोधः । तद्विरोधे च तन्निमित्ताप्रा माण्यमेव स्यात्, न तु भागविशेषे प्रामाण्यमपि, न वा देशकालभेदेन अविरोधोऽपि । तथा सति वस्तुनि विकल्पप्रसङ्गः, ततस्तत्परिहारार्थं श्रुतेर्विष्णुजगत्कर्तृतापरत्वत्यागेनार्थान्तरपरता वक्तव्या । अतः प्रमा णाभावान्न सा सिध्यति । अतो न तस्य जिज्ञास्यतेति योजना । वचन विरोधेऽप्रामाण्यमित्यनेन सौत्रस्मृतिपदं तद्विरोधोपलक्षकं, दोषपदं चाप्रामाण्याख्यदोषपरमित्युक्तं भवति । एवेत्यनेन प्रोपसर्गार्थ उक्तो भवति ॥ ( ३ ) सिद्धान्तांशं व्याचष्टे—नेति ॥ स्मृतीनामिति कृतत्वादि ति श्रुतेरिति चावर्तते । विरोध इत्यनुवर्तते । अत्रापि सार्वज्ञ्यमुपलक्ष कम् । एवशब्दोऽसार्वज्ञ्यव्यवच्छेदकः । यदा सर्वज्ञकृतानामाप्तिमू लत्वं तदा सुतरां निरतिशयसर्वज्ञकृतानामिति कैमुत्ये वैवशब्दः । स्मृतेरप्रामाण्यं चशब्दार्थः । तथा च न विष्णुजगत्कर्तृत्वं प्रमाणशू न्यत्वादयुक्तम्, किन्तु युक्तमेव । कुतः ? 'श्रुतेः' 'यतो वा' इत्या दिश्रुतिसिद्धत्वात् । न च श्रुतेर्विष्णुजगत्कर्तृतापरत्वे अन्यस्मृतिवि रोधेनाप्रामाण्यदोषप्रसङ्गात् तस्याः अर्थान्तरपरत्वमिति वाच्यम् । कुतो ? यतोऽन्यस्मृतीनां पाशुपतादिरूपाणामेवाप्रामाण्यम् । कुत एत त् ? श्रुतेः 'विरोधेन' विरोधनिमित्तात् । न च श्रुतिविरोधेऽपि ना न्यस्मृतीनामप्रामाण्यं सिध्यति, स्मृत्यपेक्षया श्रुतेराधिक्यासिद्धेरधिक

[अधि - १. सू - २. ] दीपिकासहितम्. ४०१ (४) सू—ॐ ॥ इतरेषां चानुपलब्धेः ॥ ॐ ॥ २ ॥ इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुप- बलविरोधस्यैव अप्रामाण्यहेतुत्वादिति वाच्यम् । यतोऽन्यस्मृतीनां पाशुपतादिभ्योऽन्यासां व्याख्यानरूपाणां पञ्चरात्रादिस्मृतीनों सहा- यीकृतत्वात् श्रुतेराधिक्यं सिध्यति । न च वाच्यं पञ्चरात्रादिस्मृत्या- नुकूल्येऽपि कथं श्रुतेराधिक्यं सिद्ध्यतीति । पञ्चरात्रादिरूपान्यस्मृती- नां रुद्राद्यपेक्षया ' नितरां ' निरतिशयं निस्संशयं वा ' सर्वज्ञैरेव ' वि- ष्णादिभिः विष्णुमनुप्रभृतिभिः ' कृतत्वात् ' प्रणीतत्वादिति योज- ना । अनेन पाशुपतादिस्मृतेः श्रुतिबाधः पञ्चरात्रादिस्मृतिसहितश्रु- त्यादिबाधश्चोक्तो भवति । सर्वज्ञैरेव कृतत्वादित्यनेन निरवकाशत्वं चोक्तम् । तेनानवकाशपदं स्मृतिविशेषणं विवृतम् । अत्रापि परनि- पातः । श्रुतेरित्यनेन सूत्रे स्मृतिपदं तत्सहितश्रुतिपरम् । तथा च त- द्विरोधो लक्ष्यते, श्रुतिसमन्वयस्य स्मृतिविरोधे शङ्किते श्रुतिं त्यक्त्वा केवलस्मृतिविरोधोक्तेरयुक्तत्वात् । स्मृत्युपन्यासस्तु श्रुतेः प्राबल्यार्थ इति सूचितं भवति । आधिक्यमिति प्रोपसर्गतात्पर्यकथनम् । अनेन- यतोऽनवकाशान्यस्मृतिविरोधनिमित्तात् श्रुतेरप्रामाण्याख्यदोषप्रस- ङ्गो भवति । अतो न तस्याः विष्णुजगत्कर्तृतापरत्वं युक्तं, अतो न त- या तत्सिद्धिरिति मानाभावान्न युक्तं विष्णोर्जगत्कर्तृत्वमिति चेत्— न, कुतः ? ' अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ' अन्यासां पाशुपतादि- स्मृतीनां निरवकाशपञ्चरात्रादिस्मृतिसहितश्रुतिविरोधेन नितरामप्रा- माण्यदोषेण प्रकृष्टसम्बन्धाभ्युपगमात्, तथा च तद्विरोधोऽकिञ्चित्क- र इति न तन्निमित्तं श्रुतेरर्थान्तरपरत्वं कल्प्यमिति सूत्रार्थ उक्तो भवति ॥ (४) यदुक्तं वैष्णवस्मृतीनां परमाप्तप्रणीतत्त्वेन तत्साहाय्ययुक्त- श्रुत्या प्रबलया विष्णोर्जगत्कारणत्वसिद्धिरिति, न तद्युक्तम् । तथा स- ति पाशुपतादिस्मृतीनामप्रामाण्यप्रसङ्गात्, न ह्याप्तोक्तानां तासां अ- प्रामाण्यं युज्यत इत्याशङ्क्य परिहरत्सूत्रं पठित्वा व्याचष्टे—इतरेषां चेति ॥ अनुपलब्धेरित्येतत्काकाक्षिन्यायेनोभयत्रान्वेति । भाष्येऽप्या- वृत्त्योभयत्रान्वयः । न विद्यते उपलब्धिर्यस्यासावनुपलब्धिः प्रत्यक्षाद्यो- ग्यः पदार्थः तस्मादितरेषां फलादीनां प्रत्यक्षतोऽनुपलब्धेरित्यर्थः । यद्वा- अनुपलब्धेरित्यस्य नोभयत्रान्वयः, किं तु पूर्वसूत्रे यस्मिन् जगत्कारण- ५१

४०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] लब्धेरप्रामाण्यं तासां युक्तम् । ( ५ ) चशब्देन भागोपलब्धिरङ्गीकृता ॥ २ ॥ ( ६ ) सू—ॐ ॥ एतेन योगः प्रत्युक्तः ॥ ॐ ॥ ३ ॥ योगफलं प्रत्यक्षत उपलभ्यत इति न मन्तव्यम् । उ त्वादौ स्मृतिविरोधशङ्कितः, तदितरेषां प्रत्यक्षयोग्यानामित्येकत्रैवा- न्वयः । इतरेषामित्यस्योत्तरस्मृत्युक्तानां इत्यर्थान्तरमभिप्रेत्याह— तास्विति । अत एवेतरेषां इत्यनुवादेन तास्विति व्याख्यानम् । चशब्दोऽनुपलब्धेश्चेत्यन्वेति । ‘तासु’ पाशुपतादिरूपासु फलं पुम- र्थः । आदिपदेनानर्थो गृह्यते । अनुष्ठानपरित्यागयोः कृतयोरपीति शे- षः । तथा च ‘इतरेषां’ वैष्णवेतरपशुपत्यादिप्रणीतस्मृत्युक्तानां ‘अनु- पलब्धेः’ इतरेषां प्रत्यक्षयोग्यानां फलानामर्थानां च मध्ये केषां चि- दफलत्वात्तदितरेषां च तासूक्तानुष्ठानपरित्यागयोः कृतयोरपि प्रत्य- क्षतोऽनुपलब्धेरनुपलम्भाच्चेति योजना । आनुमानिकोपलब्धिमादाया- सिद्धिवारणाय—प्रत्यक्षत इति । अनुपलब्धेश्चेत्यन्वितश्चशब्दः आ- प्तोक्तत्वानिश्चयादिति हेत्वन्तरसूचकोऽप्ययमेवानुपलब्धिहेतोः सा- ध्यतया अन्वेतीत्याशयेन अस्य हेतोरन्वययोग्यं प्राग्दोषप्रसङ्गादित्य- नेनोक्तं परमसाध्यं दर्शयति—अप्रामाण्यमिति । ‘तासां’ पाशुपता- दिस्मृतीनाम् । एवेति चशब्दस्यार्थः युक्तमेवेत्यन्वेति ॥ ( ५ ) ननु पाशुपतादिस्मृतिविहिताचरणे फलस्य तन्निषिद्धाचर- णेऽनर्थस्य चोपलम्भात्कथं तदनुपलब्धिमसूत्रयत्सूत्रकार इत्यत आ- ह—चशब्देनेति ॥ इति सूचितं सूत्रकृतेति शेषः । अनेनेतरेषां मध्ये केषां चिदुपलम्भात्तदितरेषां अनुपलब्भाच्चेति समुच्चयार्थश्चशब्द इ- त्युक्तं भवति । तथा चेतरस्मृतिषु भागविशेषे उक्तानां फलादीनां उ- पलम्भेऽपि न तत्राप्तोक्तत्वनिश्चयो युज्यते, अदृष्टफलकभागान्तरवद- नाप्तोक्तत्वस्यापि सम्भवादिति भावः ॥ ( ६ ) ननु तथाऽपि न सर्वासाभवैष्णवस्मृतीनां उक्तनिमित्तादप्रा- भाण्यम्, योगस्मृत्युक्तफलादीनां नियमेनोपलम्भात्तासामाप्तप्रणीतत्व- निश्चयोपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—एतेनेति ॥ एतेनेत्यतिदेशोपयुक्ताभ्यधिकाशङ्कां दर्शयति—योगफलमिति । योग- शब्दस्य व्याख्यानान्तरमेतत् । स्वेदकम्पादिरूपं योगस्मृत्युक्तं योगा- भ्यासफलमित्यर्थः । सूत्रेऽपेक्षितं पूरयति—प्रत्यक्षोपलभ्यमिति । इ

[ अधि - २. सू - ४. ] दीपिकासहितम्. ४०३ क्ताभ्यासे तत्काल एव फलादृष्टेः ॥ ३ ॥ ————— ❖ ————— २. अधिकरणम् ( १ ) सू—ॐ ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ॐ॥ ४ ॥ न्द्रियग्राह्यं भवतीत्यर्थः । नियमेन यत इति शेषः । अस्यात आप्तप्र- णीतत्वनिश्चयोपपत्तेर्न योगस्मृतीनामप्रामाण्यमिति प्रकृतसाध्येनान्व- यः । प्रत्युक्तपदतात्पर्यमाह—इति न मन्तव्यमिति । अत्राभ्यधिकाश- ङ्कानिरासायैतेनेत्यतिदिष्टहेतुं व्यनक्ति—उक्तेति । प्रथमं फलं स्वेदनं, द्वितीयं गात्रभञ्जनमित्येवंरूपक्रमविशिष्टफलकतया योगशास्त्रोक्तानां स्वेदनगात्रभञ्जनादिरूपफलोपायानां ‘अभ्यासे’ अनुष्ठाने सति ‘त- त्काल एव’ अभ्यासावस्थोत्कर्षसम्पत्तिकाल एव ‘फलादृष्टेः’ स्वेदना- दिफलादर्शनादित्यर्थः । तथा चनियमेन फलोपलम्भहेतोरसिद्धेस्ते- नाप्तोक्तत्वनिश्चयासम्भवाद्योगस्मृतेरप्रामाण्यमेवेति सर्वासामवैष्ण- वस्मृतीनामप्रामाण्यं युक्तमेवेति भावः । अनेन—‘एतेन’ उक्तक्रमेण तत्तत्फलोपायाभ्यासे तत्काल एव तदुक्तक्रमविशिष्टफलादर्शनेन ‘यो- गः’ योगशास्त्रोदितं योगाभ्यासफलं नियमेन प्रत्यक्षोपलभ्यमिति म- तं निरस्तम् । अत एव योगस्याप्तोक्तत्वनिश्चयो निरस्तः । अतएव योगोऽप्यप्रमाणत्वेन निरस्त इति सूत्रार्थ उक्तो भवति ॥ १ ॥ ॥ इति स्मृत्यधिकरणम् ॥ —:❖❖:— २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रा- माण्ये युक्तिविरोधः परिह्रियते । विषयपूर्वपक्षादेः सूत्र एवोक्तत्वात्त- मनुपन्यस्य सिद्धान्तयत्तत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ एवमित्यनेन तथात्वमित्येतन्नेत्यनेनापि संयोज्यमिति दर्शितम् । अस्येत्यस्यार्थः श्रुतेस्स्मृतेश्चेति । चः समुच्चये । पाशुपतादिव्यावर्तनाय-तदनुसारी- ति । श्रुत्यनुसारीत्यर्थः । न च श्रुत्यादेरित्यादिशब्दविवक्षया सूत्रेऽ- स्येति प्रयोगात्तद्विवरणरूपे भाष्ये श्रुतेः स्मृतेरिति कथं प्रयोग इति वाच्यम् । तत्रापि श्रुतेः स्मृतेरित्यस्य श्रुतिवाक्यस्य स्मृतिवाक्यस्ये- त्यर्थाश्रयणात् । यदेवमित्यनेन तथात्वमिति व्याख्यातम्, तस्य तथात्वं पाशुपतादिस्मृतिवत् भावस्तदुक्तानुपलब्ध्यप्रामाण्ये इत्यर्थाश्रयणेनै-

४०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामा- ण्यं वाच्यम् । विलक्षणत्वात् नित्यत्वात् तदनुसारि- त्वाच्च । ( २ ) न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रामाण्यम् । अ- न्यथाऽनवस्थितेः । वमित्युक्तं विवृणोति—तदुक्तेति ॥ श्रुतितदनुसारिस्मृत्युक्तवृष्ट्यादिफ- लानुपलम्भादित्यर्थः । तदुक्तकारीर्यादिसाधनानुष्ठानेऽपीति शेषः । अ- नेन सूत्रे प्रतिज्ञान्वितं तथात्वमित्येतदप्रामाण्यस्य तद्धेतोः फलानुप- लम्भस्य तत्र दृष्टान्तस्य ज्ञापकमित्युक्तं भवति । कुतो नेत्यतस्तत्र हे- तुत्वेन प्रवृत्तं विलक्षणत्वादित्येतदनूद्य द्वेधा व्याख्याति—विलक्षणत्वा- दिति। श्रुतेस्स्मृतेरित्यस्ति। तथा च श्रुतेः 'नित्यत्वात्' नित्यत्वाख्यवैल- क्षण्यवत्वात् स्मृतेः 'तदनुसारित्वात्' श्रुत्यनुसारित्वाख्यवैलक्षण्यव- त्वादित्यर्थः । क्रमिकहेतुसमुच्चये चशब्दः ॥ ( २ ) ननु नित्यत्वादिसद्भावेऽपि कुतोऽप्रामाण्याभावः, तद्धेतोर्दो- षाभावस्यानिश्चयात् । तथाचाप्रयोजकं हेतुद्वयमित्यतस्तत्रास्य त- थात्वं पाशुपतादिवत्सद्दोषत्वमपि नेति योजनाश्रयेण लब्धं नित्यत्ववद्धेः साक्षात्साध्यभूतं प्रामाण्ये साक्षाद्धेतुं दर्शयति—न हीति ॥ ‘हि’ य- तः 'नित्ये' वेदे। उपलक्षणमेतत्। तदनुसारिस्मृतौ चेत्यपि द्रष्टव्यम्। अत एव प्राक् तदनुसारीत्युक्तम् । नित्यं इति हेतुगर्भम् । ‘दोषाः' व- [

[ अधि - २. सू - ४. ] दीपिकासहितम्. ४०५ ( ३ ) 'न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदय- न्ति' इति भालवेयश्रुतेश्च । ( ४ ) नित्यत्वं च शब्दादेव प्रतीयते 'वाचा विरूप नित्यया' रणप्रामाण्योपलब्धौ न तत्र संवादापेक्षेत्यत्रैव तापर्येण करणस्वरूप- ग्राहकेणैव तत्प्रामाण्यग्रह इत्यत्र तात्पर्याभावात् । यद्वा—अन्यत्र श- क्तिशक्तिमतोर्भेदमभ्युपेत्य स्वरूपग्राहकाग्राह्यत्वरूपपरतस्त्वोक्तावपि इहाभेदमभ्युपेत्य स्वरूपग्राहकस्यैव ज्ञानजनकशक्तिग्राहकत्वं त- स्यैव च प्रमाजनकशक्तिरूपप्रामाण्यग्राहकत्वमिति भावेन संवादनिर- पेक्षस्वरूपग्राहकग्राह्यत्वरूपस्वतस्त्वस्योक्तवान्न विरोधः । प्रामा- ण्यं संवादाधीनज्ञानविषय एव किं न स्यादित्यतः तत्रास्य तथात्वं प्रा- माण्यस्य स्वतस्त्वं चान्यथानवस्थानात्सिद्ध्यतीति योजनाश्रयेण वि- पक्षे बाधकतर्करूपां शब्दाच्चेत्यप्यन्वितचशब्देन सूचितां युक्तिमाह— अन्यथेति । प्रामाण्यस्य स्वतस्त्वानङ्गीकारे संवादसापेक्षेणैव स्वरूप- ग्राहकेण ग्राह्यत्वाङ्गीकार इत्यर्थः । अनवस्थितेरिति । फलोपलब्धिरू- पसंवादजनकनिष्ठप्रामाण्यमपि स्वत एव चेत् परम्पराकल्पनावैय- र्थ्यात्, संवादान्तरेणैव ग्राह्यं चेदनवस्थाप्रसङ्गादित्यर्थः ॥ ( ३ ) अस्य वेदस्य स्वतः प्रामाण्यं च शब्दादित्यन्वयेन वेदस्य स्वतः प्रामाण्ये सूत्रसूचितां श्रुतिं चाह—नेति ॥ 'चक्षुः' अज्ञचक्षुः। एवमज्ञश्रोत्रं 'तर्कः' शुष्कानुमानं 'स्मृतिः' वेदानुकूला । एनमि- ति सर्वत्र सम्बध्यते । 'वेदयन्ति' ज्ञापयन्तीत्येतदेष्वपि विपरिणामे- नान्वेति । तर्हि किमेतं ज्ञापयतीत्यत आह—वेदा इति ॥ ऋग्यजुस्सा- माथर्वाश्चेत्यादिनोक्ता वेदा एवैनं परमात्मानं स्वतो वेदयन्ति । हि य- तः वेदयन्त्यतो वेदा इत्युच्यन्ते इत्यर्थः । प्रसिद्धौ हिशब्दः। नेत्यादिना एवशब्दो विवृतः। श्रुतेरित्यस्य स्वतः प्रामाण्यं चेति पूर्वेणान्वयः। सा- धकबाधकसमच्चये चशब्दः । अत्र चक्षुरादीनां परमात्मप्रमापकत्व- मुक्त्वा वेदस्यैव तत्प्रमापकत्वोक्तेः संवादानपेक्षतया स्वतः एव प्रामा- ण्यमित्युक्तं भवति संवादरूपज्ञानस्य चक्षुरादिनैवोत्पाद्यत्वात् ॥ ( ४ ) यद्वेदस्य नित्यत्वाख्यं वैलक्षण्यमुक्तं तस्यासिद्धिमाशङ्क्य तदुत्तरत्वेनापि शब्दादित्यंशं योजयति—नित्यत्वं चेति ॥ अनेन हेता- वप्यन्वितस्य तथात्वमित्यस्य नित्यत्वमित्यर्थान्तरमुक्तं भवति । अस्य श्रुतिवाक्यस्येति वर्तते । चस्त्वर्थः । कोऽसौ शब्द इत्यतस्तमाह—

४०६ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - १. ]


( ऋ. ८-६४-६. ) इत्यादेः । ' अनादिनिधना नित्या ' इति च स्मृतिः ॥ ४ ॥ ( ५ ) सू—ॐ ॥ दृश्यते तु ॥ ॐ ॥ ५ ॥ अधिकारिणां फलम् । भविष्यत्पुराणे च— ऋग्यजुस्सामाथर्वाश्च मूलरामायणं तथा ।


वाचेति ॥ इत्यादेः शब्दादेवेत्यन्वयः । न प्रकृताद्वेदादन्यत्प्रमाणं गवे षणीयमित्येवशब्दार्थः । परेणापि प्रमाणत्वेनाङ्गीकृतादेवेति वा । 'ऋ चस्सामानि जज्ञिरे'(तै.आ.३-१२-४.)इत्युत्पत्तिश्रुतेर्बहुकालीनतामात्रेण नित्यत्वोपचारः किं न स्यादित्यतः तदुत्तरत्वेन शब्दादित्येतत्स्मृतिप रतयाऽपि व्याख्याति—अनादीति ॥ श्रुतिस्मृत्योस्समुच्चये चशब्दः । स्मृतिरिति । यतोऽस्तीति शेषः । अस्यातो न वेदनित्यत्वमुपचरितं, उत्पत्तिश्रुतिस्तु व्यक्त्यभिप्रायेत्युपस्कृतसाध्येनान्वयः । अत एव इ त्यादेरित्यनेन न स्मृतेस्सङ्ग्रहः, किन्तु श्रुतिशेषस्य वा श्रुत्यन्तर स्य वा ग्रहणमित्याशयेन स्मृतेः पृथगुपादानमिति ध्येयम् । श्रुतिस्मृ ती तु देवताधिकरणे व्याख्याते । अनेन— ' अस्य ' श्रुत्यादेः ' तथा त्वं ' पाशुपतादिस्मृतिवदुक्तानुपलब्धेरप्रामाण्यं न, कुतः ? यतोऽस्य ' न तथात्वं ' न दोषत्वम् । कुतो ? विलक्षणत्वात् श्रुतेर्नित्यत्वाख्यवैल क्षण्येन स्मृतेस्तादृग्वैदानुसारित्वरूपवैलक्षण्येन युक्तत्वात् । एवं फ लव्यभिचारेऽपि नावैष्णवस्मृतिवदप्रामाण्यम् । अस्य 'विलक्षणत्वात् ' स्वतःप्रामाण्योपेतत्वात् । अस्य ' तथात्वं ' नित्यत्वं तु ' वाचा विरूप नित्यया ' इत्यादेः शब्दादेव प्रतीयते । न चायमुपचारः । 'अनादिनिध ना'इति स्मृतेः । न चास्य स्वतः प्रामाण्यासिद्धिः । 'न चक्षुः' इत्यादेः शब्दात्तत्सिद्धेः, विपक्षेऽनवस्थाबाधकाच्च । ' अस्य ' पाशुपतादेस्तु ' न तथात्वं ' फलव्यभिचारेऽपि प्रामाण्यादिकं कल्प्यं, कुतः ? यतो ऽस्य ' न तथात्वं ' निर्दोषत्वं स्वतः प्रामाण्यादिकं च निश्चितमिति सू त्रार्थ उक्तो भवति ॥ (५) ननु श्रुत्यादेः स्वतः प्रामाण्यवादिनोऽपि दोषदर्शनेऽप्रामा ण्यस्यावश्यं ग्राह्यत्वात् , वेदेऽपि स्वोक्तफलादर्शनात् दोषादप्रामा ण्यमेव वक्तव्यमित्याशङ्कां परिहरन्सूत्रमुपन्यस्य तुशब्दार्थप्रदर्शनपूर्व कं तच्छेषं पूरयति—दृश्यते त्विति ॥ अधिकारिणामिति सम्बन्धे ष ष्ठी । कर्मवैगुण्यप्रतिबन्धादिशून्यत्वरूपयोग्यत्वशालिनामित्यर्थः । न

[ अधि - २. सू - ५० ] दीपिकासहितम्. ४०७ भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः । पुराणानि च यानीह वैष्णवानि विदो विदुः ॥ स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥ (६) यद्येषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् । चैवं टीकायां वाशब्दानुपपत्तिः। कर्मवैगुण्यशून्यत्वं वा प्रतिबन्धकक र्मशून्यत्वं वा तत्फलयोग्यत्वमिति योजनोपपत्तेः। अनेन तुशब्दा र्थो दर्शितः। केचित्तु—योग्यत्वमन्यत् । कर्मवैगुण्यप्रतिबन्धादिशू न्यत्वं चान्यत् । अतएव टीकायां वाशब्दः। तथाचाधिकारिणामित्य स्य योग्यानां कर्मवैगुण्यप्रतिबन्धादिशून्यानां चेति द्वेधार्थ इत्याहुः। 'फलं' वेदोक्तं कारीर्यादिसाध्यं वृष्ट्यादि। अस्य दृश्यत इत्यनेनान्व यः। द्रष्टृभिर्यत इति शेषः। अस्य न फलादर्शनेन श्रुत्यादेरप्रामाण्यं वक्तव्यमित्युपस्कृतसाध्येनान्वयः। फलादर्शनस्य कर्तुरयोग्यतयोपप त्तेरिति भावः। अधिकरणार्थे स्मृतिं चाह—भविष्यत्पुराणे चेति। ए तदधिकरणार्थ उक्त इति शेषः। न केवलं सूत्रे, किन्तु भविष्यत्पुरा णे चेति वा, न केवलं 'न चक्षुः' इत्यादिश्रुतिस्मृतिषु, किन्तु पुराणे चेति वा चशब्दार्थः। तद्वाक्यं पठति। ऋगिति । तथाचशब्दस्समु च्चये। ऋक् यजुश्च साम च अथर्वश्चेत्येवमाख्या येषां ते तथोक्ताः ग्र न्था इति शेषः। अवान्तररामायणव्युदासाय मूलरामायणमिति । ए ते सर्वे वेदा इत्येव शब्दिता इत्यर्थः। तथा च ये ऋगादिरूपाः वेदश ब्दवाच्याः, 'विदः' ज्ञानिनो यानीह पुराणेषु मध्ये वैष्णवानि विदुः एतेषां 'स्वतः' फलसंवादादिरहितनिर्दोषतयैव 'प्रामाण्यं' यथार्थ ज्ञानकरणत्वरूपं सिद्ध्यतीति शेषः। ये ऋगादयो वैष्णवपुराणान्ताः वे दा इत्येव शब्दिताः एतेषां स्वत एव प्रामाण्यमिति वा। 'अत्र' स्वतः प्रामाण्यविषये 'न किंचित् निमित्तं विचार्यते' न केनापि निमित्तेन संशयोऽस्तीत्यर्थः। यद्वा—अत्र तेषां प्रामाण्यग्रहे 'किञ्चित्' संवादादि कं 'न विचार्यते' न मृग्यत इत्यर्थः। अनेन यत्स्मृतीनां वेदानुसारित्व मुक्तं यच्च श्रुत्यादेः स्वतः प्रामाण्यमाद्यसूत्रे तत्प्रमापितं भवति ॥ (६) ननु फलविसंवाददर्शनेन तेषामप्रामाण्यमेव किं नोच्यत इ त्यत आह—यदीति ॥ यदि 'एषु' वेदवेदानुसारिषु 'उक्तं' फलं न दृश्येत तदुक्तसाधनानुष्ठानेऽपीति शेषः। तर्हि 'पूर्वकर्म' जन्मान्तरी यं फलप्रतिबन्धकादृष्टं कर्मवैगुण्यं, प्रतिबन्धादिरूपायोग्यत्वस्याप्युप

४०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] नाप्रामाण्यं भवेदेषां दृश्यते ह्यधिकारतः ॥ (७) इतः प्रामाण्यमन्येषां न स्वतस्तु कथं च न । अदृश्योक्तौ ततस्तेषामप्रामाण्यं न संशयः ॥ इति ॥ ५ ॥ ३. अधिकरणम् ॥ (१) 'मृदब्रवीत्' (श. ब्रा. ६-१-३.) 'आपोऽब्रुवन्' (श. ल्लक्षणमेतत् । 'अत्र' फलानुपलम्भे कारणमित्यर्थः । ततः किमित्य तः फलविसंवादस्यान्यथा सिद्धत्वात् न तेनाप्रामाण्यमेषां सिध्यती त्याह—नेति । ननु फलादर्शनस्यान्यथोपपत्तिः तदा वाच्या, यदि के षां चित्फलदर्शनं स्यात् तदेवासिद्धमित्यतो नेत्याह—दृश्यते हीति । हिशब्दो यतइत्यर्थे । 'अधिकारतः' कर्मवैगुण्यप्रतिबन्धादिशून्यत्वरू पफलयोग्यतानिमित्तात्, तद्वतामिति यावत् । अतो न फलादर्शनाद प्रामाण्यमेषां भवेदिति पूर्वेणान्वयः ॥ (७) नन्ववैष्णवस्मृतीनामप्येवं स्वतः प्रामाण्यं किमर्थं नाङ्गीक्रि यते इत्यतो नेत्याह—इत इति ॥ 'अन्येषां' पाशुपतादीनां तु 'इतः' फलदर्शनात एव प्रामाण्यं बुद्धिदोषनिरसनद्वारा सिध्यति, न तु स्व तः फलसंवादं विना केन चिदुपायेन उत्पत्तिमुखेन वा ज्ञप्तिमुखेन वा फलमुखेन वेत्यर्थः । ततः किमित्यत आह—अदृश्येति । यतोन्येषां प्रा माण्यं फलसंवादाधीनं अतः 'अदृश्योक्तौ' अनुपलभ्यमानफलसाध नस्य तेषूक्तौ तेषामप्रामाण्यमेव निश्चितं भवति, न तत्र संशय इ त्यर्थः। इति भविष्यत्पुराण इत्यन्वयः ॥ २ ॥ ॥ इति न विलक्षणत्वाधिकरणम् ॥ ———❖❖——— ३. अधिकरणम् ॥ (१) अत्राधिकरणे विष्णोर्जगत्कर्तृत्वप्रतिपादकवेदप्रामाण्यरूपो क्तार्थे दृढयुक्त्यविरोध उच्यते। पूर्वपक्षयति—मृदिति ॥ 'मृदब्रवी त्' इत्येकं श्रुतिवाक्यम् । 'ता आपोऽब्रुवन्' इत्यपरं तैत्तिरीयवाक्य म्। इत्यादीत्यादिपदेन 'ता आप ऐक्षन्त' (छां.६-२-४.) 'तत्तेज ऐक्षत' (छां.६-२-३.) 'ओषधयः संवदन्ते सोमेन सह राज्ञा' (ऋ.१०-९७- २२.) 'प्र वो ग्रावाणः सविता देवस्सुवतु धर्मेण' (ऋ.१०-१७६-१०.) इत्या दीनां ग्रहणम् । इत्यादीति वेद इति चावर्तते । तथेति प्रकृतमप्रमाणमि

[ अधि - ३. सू - ६. ] दीपिकासहितम्. ४०९ ब्रा. ६-१-३.) इत्यादिवचनात् युक्तिविरुद्धो वेद इति। ( २ ) अतोऽब्रवीत्— सू— ॐ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ॐ ॥ ६ ॥ मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । चास्ति । तथा च 'मृदब्रवीत्' इत्यादिर्वेदस्तदेकदेशोऽप्रमाणं, कु तः ? ' मृदब्रवीत् ' ' इत्यादि वचनात् ' इत्यादिरूपेण मृदादेर्वचनादि कर्तृत्वाभिधायकत्वात् । वेदस्य मृदादिकर्तृकवचनादिकर्तृताभिधाय कत्वं कुत इत्यतोऽप्युक्तं—मृदित्यादि । वचनादित्यनन्तरं मृदादीनां वचनादिकर्तृत्वाऽवगमादिति शेषः। मृदादेर्वचनदर्शनाभिधायकत्वेऽपि कुतो वेदस्याप्रामाण्यमित्यत उक्तं —युक्तिविरुद्ध इति । तथा च यतो 'मृदब्रवीत्' इत्यादिवेदो 'युक्तिविरुद्धो' मृन्न वक्ति जडत्वादित्याद्य नुमानविरुद्धमृदादिवक्तृत्वाभिधायकः अतः । युक्तिविरुद्धार्थस्य चासत्त्वनियमात् असदर्थाभिधायकत्वस्यैव अप्रामाण्यादिति भा वः । ननु वेदैकदेशस्याप्रामाण्येऽपि 'यतो वा ' इत्यादेस्तत्कुत इत्य तोऽप्युक्तम्—वेद इति । यतो मृदब्रवीदित्यादिवेदोऽप्रमाणमतस्तदन्य वेदोऽपि तथा । तथा च सर्वो वेदोऽप्रामाण्यं प्राप्नोति, तत्सामान्यादि ति न्यायात् । तथा च न तेन विष्णोः जगत्कर्तृता सिद्ध्यतीति योज ना । अत्र श्रुतौ मृदादिशब्दैः सर्गाद्यकालीनपृथिव्यादिकमुच्यते । त स्य च वचनाद्यभावो नास्मदादिप्रत्यक्षसिद्ध इति प्रत्यक्षविरुद्ध इत्य नुक्त्वा युक्तिविरुद्ध इत्युक्तम् । अनेन पादसङ्गतिरपि प्रदर्शिता भव ति । 'राज्ञा' सोमेन लतारूपेण सहौषधयः संवादं कुर्वन्ति । हे ग्रा वाणः 'वो' युष्मान् सविता देवो धर्मेण प्रसुवत्विति श्रुत्यर्थः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अब्रवीत् सूत्र कृदिति शेषः । मृदिति । मृदादेरभिमानिनी धरादिरूपा देवता 'तत्र' 'मृदब्रवीत्' इत्यादिश्रुतौ मृदादिशब्दैः 'व्यपदिश्यते' मुख्यवृत्त्या प्र तिपाद्यते इत्यर्थः। एवशब्देन जडव्यावर्तकेन योग्यतयाऽभिमानिपदेना न्वितः सौत्रस्तुशब्दोऽवधारणमुखेन विशेषार्थतया व्याख्यातः । जडा पेक्षया चेतने मृदादिशब्दो मुख्य इति विशेषार्थो वा तुशब्दः । देवतेत्येकवचनेन अभिमानिनो व्यपदेशोऽभिमानिव्यपदेश इत्येकवच नान्तो विग्रहः सूचितः । अस्य मूलं तु ' दृश्यते च ' इत्युत्तरसूत्रम् । एकवचनं च समुदायाभिप्रायम् । अत एव तासामित्यादिवचनम् । ५२

४१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( ३ ) तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ ६ ॥ ( ४ ) सू—ॐ ॥ दृश्यते च ॥ ॐ ॥ ७ ॥ तासां सामर्थ्यं महद्भिः । व्यपदिश्यत इत्यनन्तरं यत इति शेषः, अस्यात इति वक्ष्यमाणेना न्वयः ॥ ( ३ ) ननु तथाऽपि नाभिमानिदेवता नाम सन्ति, तासामदेहत्वे वचनकर्तृत्वायोगात् । सदेहत्वेऽभिमन्यमानव्यापित्वे च दर्शनप्रस ङ्गात् । अभिमन्यमानैकदेशवृत्तित्वे चाभिमानिरहितप्रदेशवदन्यदेश स्यापि विनैव ता अवस्थानापपत्तेर्वैयर्थ्यापातादिति युक्तिविरुद्धत्वादि त्याशङ्क्य तदुत्तरत्वेन विशेषेत्यादिसूत्रखण्डं व्याचष्टे—तासामिति ॥ देवतेत्येकवचनान्ते प्रकृतेऽपि ‘दृश्यन्ते मुनिभिः’ इति स्मृतौ बहुव चनप्रयोगात्तासामित्युक्तम् । आद्यश्चशब्दस्तुशब्दार्थो यत इत्यर्थे च। द्वितीयो विग्रहसमुच्चये, नासत्त्वमिति साध्यसमुच्चये च । तथा च य तः ‘तासां’ देवतानां ‘सर्वत्र’ स्वस्वाभिमन्यमाने ‘अनुगतिः’ व्याप्ति र्विग्रहश्चास्ति । अतः नोक्तयुक्तिविरोधेनासत्त्वं वाच्यम् । न चोपल म्भप्रसङ्गः । यतस्तासां ‘इतरेभ्यः’ चेतनेभ्यो ‘विशिष्टं सामर्थ्यं’ अ दर्शनानुकूलोऽन्तर्धानशक्तिविशेषोऽत इति योजना । विशिष्टमित्यनेन विशिष्यते अतिशीयतेऽनेनेति व्युत्पत्तिमाश्रित्य विशेषपदार्थ उक्तो भवति । सामर्थ्यमिति सूत्रे शेषोक्तिः । सन्तु देवताः, प्रकृते किमा यातमित्यत ‘अभिमानिव्यपदेशः’ इत्यनेनोक्तहेतोर्योग्यसाध्यमध्याहृ त्य दर्शयति—अत इति । यतोऽत्र श्रुतौ मृदादिशब्दैस्तदभिमानिदेव ता व्यपदिश्यन्ते, अतस्तासां चेतनत्वेन श्रुतावुक्तं ‘सर्वं’ वचनकर्तृ त्वादिकं युज्यतेऽतो न युक्तिविरुद्धो वेदोऽतो नाप्रमाणमतस्तत्रोक्तं ज गत्कर्तृत्वं विष्णौ युक्तमेवेति योजना ॥ ( ४ ) नन्वप्रामाणिकदेवतातत्सामर्थ्यकल्पनापेक्षया वेदाप्रामाण्य कल्पनमेव वरं लाघवात् । न च ‘मृदब्रवीत्’ इत्यादिवेदेन तत्सिद्धि रस्तत्प्रामाण्ये विवादादित्याशङ्कां परिहरत्सूत्रं पठित्वा तच्छेषं पूरय ति—दृश्यते चेति ॥ ‘तासां’ पृथिव्याद्यभिमानिदेवतानाम् । अत्रापि बहुवचनं स्मृत्यनुसारेणेति ध्येयम् । ‘सामर्थ्यं’ शक्तिः । सामर्थ्यमि त्यनेन विशेष इति प्रथमान्तपदस्य बुद्ध्या विविक्तस्येहानुवृत्तिस्सूचि

[ अधि - ३. सू - ७. ] दीपिकासहितम्. ४११ ( ५) भविष्यत्पुराणे च— पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः । अचिन्त्याश्शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः । ता । महद्भिरिति सूत्रे शेषोक्तिः । यद्वा—सामर्थ्यमित्यनन्तरं अन्वितः सौत्रश्चशब्दो न केवलं देवतातत्सामर्थ्यसमुच्चयार्थः, किन्तु त्वर्थस्सन् महद्भिरित्यर्थद्योतकश्च । यथोक्तं पूर्वाधिकरणटीकायां तुशब्दः कर्तृ विशेषद्योतक इति । महद्भिरित्यनन्तरं यत इति शेषः । अस्यातो ना भिमानिदेवतानां तत्सामर्थ्यस्य चाप्रामाणिकत्वमित्यध्याहृतसाध्ये नान्त्रयः ॥ ( ५ ) ननु महद्भिः दृश्यमानत्वादिति हेतुरसिद्धः । परबुद्धेरप्रत्य क्षत्वादित्यतश्चशब्दसूचितं वाक्यं पठति—भविष्यदिति ॥ न केवलं महद्भिर्दृश्यते, किन्तु पुराणेऽप्युक्तमिति समुच्चये वा, न केवलं देवता तच्छक्तयोः प्रत्यक्षसिद्धत्वं सूत्रकृदुक्तमेव, किन्तु पुराणेऽप्युक्तमिति समुच्चये वा, चशब्दः । अतो न हेत्वसिद्धिरिति भावः । पुराण इत्य नन्तरं उक्तमिति शेषः । किमुक्तमित्यतः तद्वाक्यं पठति—पृथिवीति । आदिपदेन अबादिग्रहणम् । 'प्रथितौजसः ' प्रसिद्धसामर्थ्याः । न के वलं प्रथितौजसः, किन्तु तासां शक्तयोऽचिन्त्याश्च । अचिन्त्याः शक्त यश्च । न केवलमेतावत्, किन्तु 'सर्वगताः ' स्वांशैर्यावदभिमन्यमान व्यापिन्यश्चेत्येकस्य चशब्दस्यार्थः । न केवलं ताः देवताः दृश्यन्ते, किन्तु तासामचिन्त्याः शक्तयश्च मुनिभिर्दृश्यन्त इत्यन्यचशब्दस्या र्थः । यद्वा—एकेनैव प्रथमान्ततच्छब्देन देवतातच्छक्तयोः परामर्श सम्भवादन्यः प्रथमान्ततच्छब्दो देवतामात्रपरामर्शकः, तत्प्रयोजनं तु देवतामात्रे सर्वगतत्वविधानम् । एवमेकेनैव अनेकविशेषणसमुच्चयस म्भवात् अन्यश्चशब्दो न विशेषणसमुच्चयार्थः, किन्तु तुशब्दार्थो वि शेषद्योतकः । तासां शक्तयोऽचिन्त्या इत्यनेन देवतानामचिन्त्यशक्ति त्वमुक्तं, तत्कथमित्यत आह—वासुदेवेति । वासुदेव एव एको मुख्यः संश्रयोऽस्माकं शरणमिति ज्ञानं येषां ते तथोक्ताः । अनेनोत्तमाधिका रित्वोक्त्या परमात्मप्रसादादेव तेषाममुख्यमचिन्त्यशक्तित्वमित्युक्तं भवति । इति भविष्यत्पुराणे इत्यन्वयः । अथवा—विग्रहवतीनां सर्वगता नां तासां दर्शनप्रसङ्ग इत्युक्ते प्रष्टव्यं, किमज्ञानां दृश्येरन् महतां वा । आद्यस्योत्तरं विशेषपदं सूत्रे, तासां विशिष्टं सामर्थ्यमिति भाष्यं च

An exact, line-by-line transcription of the provided image into Devanagari text:

४१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः ॥ इति ॥७॥ —-::-*— ४. अधिकरणम् ॥ ( १ ) 'असदेवेदमग्र आसीत्' ( छा. ६-२-१. ) 'असतः सदजायत' ( ऋ. १०-७२-३. ) इत्यादिनाऽसतः का तद्व्याख्यानरूपम् । द्वितीयस्याभ्युपगमेनोत्तरमुक्तम्-दृश्यन्ते चेति । अस्मिन् पक्षे न केवलमभिमानिदेवता अन्तर्धानशक्त्याख्यविशेषसाम- र्थ्येनाज्ञैः न दृश्यते, किन्तु महद्भिर्योगिभिः दृश्यते चेति दर्शनादर्शनस- मुच्चये पूर्ववद्देवतान्तःसामर्थ्यसमुच्चये वा चशब्दः । यद्वा—वस्त्वन्तर- मधिष्ठाय तासां वचनादिकं कथमिति चोद्यस्योत्तरं—तासां चेतरे- भ्यो विशिष्टं सामर्थ्यमिति । परिच्छिन्नानामभिमानिनीनां कथमनेकाभि- मन्यमानाधिष्ठातृत्वमपीत्यस्योत्तरं—अनुगतिरिति । चोऽप्यर्थः । यो- गिभिरप्यनुपलभ्यमानत्वान्नास्त्यभिमानिदेवतेति शङ्कानिरासाय—दृ- श्यते च इति सूत्रम् । अत्र पक्षे चोऽवधारणे । योगिभिरभिमानिदेवता दृश्यते एवेति । तथा च नानुपलब्धिबाधोऽभिमानिदेवताया इति भा- वः । अस्मिन् पक्षे विशेषाऽनुगतिभ्यां दृश्यते चेत्युक्तहेतूनां नाकांक्षाक्र- मेण तत्तदवतारिकागतयोग्यसाध्येनान्वयः, अपि तु यथाश्रुतक्रमेणा- न्वयः इत्ययं पक्षो विशिष्ट इति ध्येयम् ॥ ३ ॥ इति अभिमान्यधिकरणम् ॥ ————— ४. अधिकरणम् ॥ ( १ ) अत्र ब्रह्मणो जगत्कर्तृत्वे श्रुत्युपसर्जनप्राग्भावकर्तृकत्वसाधक युक्तिविरोधो निरस्यते। तत्र असदिति चेदित्यनेन सूचितं पूर्वपक्षं दर्श- यति-असदेवेति ॥ 'असदेवेदमग्र आसीत्' इति छन्दोगवाक्यम् । 'दे- वानां पूर्वेऽयुगे असतः सदजायत' इति ऋग्वेदवाक्यम् । 'इत्यादिना' वाक्येन । आदिशब्देन 'असद्वा इदमग्र आसीत्' ( तै.उ.२-७-१. ) इति तैत्तिरीयादिवाक्यं गृह्यते । विरोध इति । अत्र वेदस्येति विपरिणामे- नानुवर्तते । तथा च 'यतो वा' इत्यादिवेदस्य 'असदेव' इत्यादिना विरोधः । कुतः ? 'इत्यादिना' वाक्येन 'असतः' विश्वप्राग्भावस्य 'कारणत्वोक्तेः' विश्वकर्तृत्वोक्तेः वेदेन च विष्णुकर्तृत्वोक्तेरिति यो- जना । यद्वा—तत्त्वप्रदीपोक्तरीत्याऽनुवृत्तिं विनैव सत इति पदच्छेदे

[ अधि - ४. - सू - ८. ] दीपिकासहितम्. ४१३ रणत्वोक्तेर्विरोध इति । ( २ ) अतो वक्ति— सू— ॐ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॐ ॥ ८ ॥ न 'सतो' ब्रह्मणः कारणत्वोक्तेः 'यतो वा' इत्यादिश्रुतेः 'असद्वा' इत्यादिना विरोध इति योजना । अथ वा—तत्त्वप्रदीपरीत्या 'असदे व' इत्यनेन असतः कारणत्वोक्तेरादिशब्दगृहीतेन 'यतो वा' इत्या दिना सतः कारणत्वोक्तेः परस्परविरोध इत्यन्वयः । न च अनेन श्रु तिविगानेन सन्देह एव भवति, नान्यतरपक्षावधारणमिति वाच्यम् । पूर्वपक्षीयश्रुतेः प्रागुत्पत्तेर्विनाशादूर्ध्वं चासदात्मकत्वात्कार्यस्य त त्कारणमपि प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्यादियुक्तियुक्त त्वेन प्रबलत्वात्तया सैद्धान्तिकश्रुतेर्बाधोपपत्तेः । तथा चायं विरोधश ब्दो युक्तिविरोधस्याप्युपलक्षको बाधार्थश्च द्रष्टव्यः । विरोध इत्यन न्तरं यत इति शेषः । अस्यातो न वेदो विष्णुजगतकर्तृत्वे प्रमाणं, अ तः प्रमाणाभावान्न तद्युक्तमित्युपस्कृतवाक्येनान्वयः । अनेन—सूत्रे अ सदित्युक्तिर्न केवलं प्रागभावरूपधर्म्युपस्थापिका, किन्तु श्रुतिप्रतीक ग्रहणरूपाऽपि । जगत्कर्त्रीति शेषः । तथा च 'असत्' विश्वप्रागभाव ए व जगत्कर्तृ, न ब्रह्म । कुतः ? 'असत्' इति श्रुतेरिति सूत्रखण्डार्थ उ क्तो भवति । सिद्धान्तरीत्या श्रुत्यर्थस्तु—'इदमग्रे' अस्याग्रे जगत्सृ ष्टेः पूर्वे प्रलये न विद्यते सदुत्तमं यस्मात्तत् 'असत्' सर्वोत्तमं ब्रह्मै वासीत् तत्तस्मात्सन्नामको मुख्यवायुः 'अजायत' अभूत् । 'पूर्वे युगे' आदिसृष्टिकाले 'असतो' ब्रह्मणो देवानां प्रथमः सन्नामको वा युरजायतेति । तैत्तिरीयभाष्ये तु—असन्नामा नारायणो मूलरूपी आ सीत् । तस्मात्सन्नामा वासुदेवः प्रादुरभूदित्यर्थ उक्तः । प्रमेयदीपे तु 'असतः' इति श्रुतेरनेकार्थत्वादित्यादिनाऽसच्छब्दः प्रकृतिपरतया व्याख्यातः । पूर्वपक्षी तु शतुः छान्दसं भावसाधनत्वमाश्रित्य असद् भाव इति व्युत्पत्त्या वा असदसत्त्वमिति भावप्रधानत्वेन वाऽसच्छ ब्दो विश्वप्रागभावपरः, सच्छब्दस्तु भावकार्यवाचीति मन्यते ॥ (२) सिद्धान्तयत्सूत्रमवतार्य आक्षेपांशस्य पूर्वमेव विवृतत्वात् परिहारांशं व्याचष्टे—अत इति ॥ प्रतिषेधेति । अभावरूपधर्मद्वारम न्तरेण धर्मिस्वरूपेणैव प्रतिषेधबुद्धिविषयत्वादित्यर्थः । घटप्रागभावा दिवदिति दृष्टान्तवाक्यस्याप्युपलक्षकमेतत् । भावेषु कुलालादिषु अ

४१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । ( ३ ) असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र नि- षिध्यते । न्योन्याभावरूपधर्मस्वरूपेण प्रतिषेधरूपत्वमस्तीति व्यभिचारवारणा- य मात्रपदं सूत्रे भाष्ये च । अभावधर्मात्मतामन्तरेण स्वरूपत एवे- ति तदर्थः । अभावस्याप्यभिधेयत्वादिधर्मात्मनाऽप्रतिषेधरूपत्वाद् सिद्धिपरिहाराय—स्वरूपत एवेति । प्राधान्येनेत्यर्थः । तथा च ध- र्मिधर्मभेदपक्षे सर्वस्य वस्तुनो धर्मधर्मिरूपेण द्विरूपत्वेऽपि धर्माद्ध- र्मी प्रधान इति तेनाकारेण निषेधरूपत्वस्य विवक्षितत्वान्नोक्तदोष इ- ति भावः । सूत्रे हेत्वंशस्य स्पष्टत्वात्तदन्यत्र व्याकृतत्वाच्च तद्व्याख्या मकृत्वा नेति साध्यान्वयाय तदनुकृत्य प्रतिषेध्यप्रदर्शनेन साध्यांशं व्याचष्टे—प्रतिषेधमात्रत्वादिति । 'असतः' अभावस्य 'कारणत्वं' जगत्कर्तृत्वं न युक्तमित्यर्थः ॥ ( ३ ) नन्वत्राधिकरणेऽसतो जगत्कारणत्वं वदतां शून्यवादिनां समयो निराक्रियते, न तु श्रुतिप्राप्ताभावकर्तृत्वम्, अतः 'एतेन सर्वे' इत्यत्रासदादिशब्दानां ब्रह्मपरत्वस्योक्तत्वेन अत्र श्रुत्याऽसतः प्राप्त्य- भावादपव्याख्यानमेतदित्यत आह—असत इति । आदिशब्देन प्रलय- स्थितत्वमनःपूर्वकत्वादेर्ग्रहणम् । कारणत्वादेरुक्तिः कारणत्वाद्युक्तिस्त- या विरुद्धमिति विग्रहः । तथा च विष्णुकर्तृत्वपरं 'यतो वा' इत्यादि- द्वाक्यं 'असतो' विश्वप्रागभावस्य या कारणत्वाद्युक्तिः 'असदेवे' त्यादिरूपा, तद्विरुद्धमित्येवं श्रुतिप्राप्तं 'एतत्' असन्मतं 'अत्र' ए- तस्मिनधिकरणे 'निषिध्यते' निराक्रियते इत्यर्थः । तत्त्वप्रदीपे तु अ- सतः कारणत्वाद्युक्तिरूपाद्धेतोर्विरुद्धं 'असदेवेदम' इत्यादिवाक्यमुक्त- समन्वयविरुद्धमप्रामाण्यमेतीत्येतदत्र निषिध्यते । अथ वा—क्वचिद- सतः कारणत्वोक्तेरादिशब्दगृहीतायाः क्वचित्सतः कारणत्वोक्तेश्च परस्परविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते । अथ वा—वस्तुत्वादि- युक्त्या च असतः कारणत्वावगमाद्युक्तिविरुद्धं ब्रह्मकारणतावाक्य- मित्येतदत्र निषिध्यते, न शून्यसमय इति 'असतः कारणत्वात्' इति वाक्यं बहुधा व्याख्यातम् । अत्राद्यपक्षेऽसतः कारणत्वाद्युक्तेः हेतोर्वि- रुद्धमिति पञ्चमीगर्भो विग्रहः । द्वितीयेऽप्ययमेव विग्रहः, आदिशब्दा- र्थो भिन्नः । तृतीये कारणत्वादिति भिन्नं पञ्चम्यन्तं पदमिति विवेको

[ अधि - ४. सू - ८. ] दीपिकासहितम्. ४१५ ( ४ ) सर्वशब्दानां ब्रह्मणि समन्वयेऽपि 'तदधीनत्वादर्थवत्' इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गीकाराद् असतः प्राप्तिः । तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्य- ते । समयस्योपरि निषेधात् । ( ५ ) अर्थाच्छुतिविरोधो निराक्रियते ॥ ८ ॥ द्रष्टव्यः ॥ ( ४ ) ननूक्तं श्रुत्यादिना नासतः प्राप्तिरिति तत्राह—सर्वशब्दाना- मिति ॥ आदिशब्देन 'तथा ह्यधीयते' इत्यादिकं गृह्यते । अपिः शङ्का- द्योतकः । न केवलं ब्रह्मण इति समुच्चये द्वितीयः । तथा च सर्वेषां श- ब्दानां ब्रह्मणि 'समन्वये' परममुख्यत्वे 'एतेन' इत्यादिनोक्तेऽपि 'त- दधीनत्वादर्थवत्' इत्यादिना सूत्रकृता 'अन्यस्य' असदादेरपि 'अ- मुख्यत्व